Skip to main content
Search
PT
Pañcatantram • Chapter 05

Canto 5

पञ्चमं तन्त्रम् (अपरीक्षितकारकम्)

Canto 5 of Pañcatantram.

Total: 367 Verses • Citations: PT 5.1–367 • 1 Lexicon Terms • Page 8 of 13 (Verses 30 shown)
PT 5.211 शार्दूलविक्रीडितम्
रामस्य व्रजनं वने निवसनं पाण्डोः सुतानां वने वृष्णीनां निधनं नलस्य नृपते राज्यात्परिभ्रंशनम् । सौदासं तद्-अवस्थमर्जुन-वधं सञ्चिन्त्य लङ्केश्वरं दृष्ट्वा राज्य-कृते विडम्बन-गतं तस्मान्न तद्वाञ्छयेत् ॥
PT 5.212 अनुष्टुप्
यद्-अर्थं भ्रातरः पुत्रा अपि वाञ्छन्ति ये निजाः । वधः राज्य-कृतां राज्ञां तद्राज्यं दूरतस्त्यजेत् ॥
कौलिक आह—सत्यमुक्तं भवत्या । तत्कथय किं प्रार्थये ?
साह-त्वं तावदेकं पटं नित्यमेव निष्पादयसि । तेन सर्वा व्यय-शुद्धिः सम्पद्यते । इदानीं त्वमात्मनोऽन्यद्बाहु-युगलं द्वितीयं शिरश्च याचस्व, येन पट-द्वयं सम्पादयसि पुरतः पृष्ठतश्च । एकस्य मूल्येन गृःए यथा-पूर्वं व्ययं सम्पादयिष्यसि, द्वितीयस्य मूल्येन विशेष-कृत्यानि करिष्यसि । एवं सौख्येन स्वजाति-मध्ये श्लाघ्यमानस्य कालो यास्यति, लोक-द्वयस्योपार्जना च भविष्यति ।
सोऽपि तदाकर्ण्य प्रहृष्टः प्राह-साधु पतिव्रते ! साधु ! युक्तमुक्तं भवत्या । तदेवं करिष्यामि । एष मे निश्चयः ।
ततोऽसौ गत्वा व्यन्तरं प्रार्थयांचक्रे-भो, यदि ममेप्सितं प्रयच्छसि तत्देहि मे द्वितीयं बाहु-युगलं शिरश्च ।
एवमभिहिते तत्-क्षणादेव स द्विशिराश्चतुर्बाहुश्च सञ्जातः । ततो हृष्ट-मना यावद्गृहमागच्छति तावल्-लोकैः राक्षसोऽयमिति मान्यमानैर्लगुड-पाषाण-प्रहारैस्ताडितो मृतश्च ।
अतोऽहं ब्रवीमि-यस्य नास्ति स्वयं प्रज्ञा इति ।
चक्रधर आह—भोः ! सत्यमेतत् । सर्वोऽपि जनोऽश्रद्देयामाशापिशाचिकां प्राप्य हास्य-पदवीं याति । अथवा साध्विदमुच्यते केनापि—
PT 5.220 अनुष्टुप्
अनागतवतीं चिन्तामसम्भाव्यां करोति यः । स एव पाण्डुरः शेते सोम-शर्म-पिता यथा ॥
सुवर्णसिद्धिराह-कथमेतत् ?
सोऽब्रवीत्- कथा ८ सोम-शर्म-पितृ-कथा
कस्मिंश्चिन्नगरे कश्चित्स्वभाव-कृपणो नाम ब्राह्मणः प्रतिवसति स्म । तस्य भिक्षार्जितैः सक्तुभिर्भुक्त-शेषैः कलशः सम्पूरितः । तं च घटं नागदन्तेऽवलम्ब्य तस्याधस्तात्खट्वां निधाय सततमेक-दृष्ट्या तमवलोकयति ।
अथ कदाचिद्रात्रौ सुप्तश्चिन्तयामास-यत्परिपूर्णोऽयं घटस्तावत्सक्तुभिर्वर्तते । तद्यदि दुर्भिक्षं भवति, तदनेन रूप्यकाणां शतमुत्पत्स्यते । ततस्तेन मयाजाद्वयं ग्रहीतव्यम् । ततः षाण्-मासिकमाप्रसव-वशात्ताभ्यां यूथं भविष्यति । ततोऽजाभिः प्रभूता गा ग्रहीष्यामि । गोभिर्महिषीः । महिषीर्बडवाः । बडवा-प्रसवतः प्रभूता अश्वा भविष्यन्ति । तेषां विक्रयात्प्रभूतं सुवर्णं भविष्यति । सुवर्णेन चतुःशालं गृहं सम्पत्स्यते ।
ततः कश्चिद्ब्राह्मणो मम गृहमागत्य प्राप्त-वयस्कां रूपाढ्यां कन्यां मह्यं दास्यति । तत्-सकाशाट्पुत्रो मे भविष्यति । तस्याःअं सोमशर्मा इति नाम करिष्यामि । ततस्तस्मिन्जानु-चलन-योग्ये सञ्जातेऽहं पुस्तकं गृहीत्वाश्व-शालायाः पृष्ठ-देशे उपविष्टस्तद्-अवधारयिष्यामि । अत्रान्तरे सोमशर्मा मां दृष्ट्वा जनन्य्-उत्सङ्गाज्जानु-चलन-परोऽश्व-खुरासन्न-वर्ती मत्-समीपमागमिष्यति । ततोऽहं ब्राह्मणीं कोपाविष्टोऽभिधास्यामि-गृहाण तावद्बालकम् । सापि गृह-कर्म-व्यग्रतयास्मद्-वचनं न श्रोष्यति । ततोऽहं समुत्थाय तां पाद-प्रहारेण ताडयिष्यामि ।
एवं तेन ध्यान-स्थितेन तथैव पाद-प्रहारो दत्तो यथा स घटो भग्नः, स्वयं च सक्तुभिः पाण्डुरतां गतः । अतोऽहं ब्रवीमि-अनागतवतीं चिन्तामिति ।
सुवर्णसिद्धिराह-एवमेतत् । कस्ते दोषः, यतः सर्वोऽपि लोभेन विडम्बितो बाध्यते ?उक्तं च—
PT 5.228 अनुष्टुप्
यो लौल्यात्कुरुते नैवोदर्कमवेक्षते । विडम्बनामवाप्नोति स यथा चन्द्र-भूपतिः ॥
कस्मिंश्चिन्नगरे चन्द्रो नाम भूपतिः प्रतिवसति स्म । तस्य पुत्रा वानर-क्रीडा-रता वानर-यूथं नित्यमेवानेक-भोजन-भक्ष्यादिभिः पुष्टिं नयन्ति स्म । अथ वानराधिपो यः स औशनस-बार्हस्पत्य-चाणक्य-मत-वित्तद्-अनुष्ठाता च तत्-सर्वानप्यध्यापयति स्म ।
अथ तस्मिन्राज-गृहे लघु-कुमार-वाहन-योग्यं मेष-यूथमस्ति । तन्-मध्यादेको जिह्वा-लौल्यादहर्-निशं निःशङ्कं महानसे प्रविश्य यत्पश्यति तत्सर्वं भक्षयति । ते च सूपकर्यत्किञ्चित्काष्ठं मृण्-मयं भाजनं कांस्य-पात्रं ताम्र-पात्रं वा पश्यन्ति तेनाशु ताडयन्ति ।
सोऽपि वानर-यूथपस्तद्दृष्ट्वा व्यचिन्तयत्-अहो मेष-सूपकार-कलहोऽयं वानराणां क्षयाय भविष्यति । यतोऽन्न-रसास्वाद-लम्पटोऽयं मेषो, महा-कोपाश्च सूपकारा यथासन्न-वस्तुना प्रहरन्ति । तद्यदि वस्तुनोऽभावात्कदाचिदुल्मुकेन ताडयिष्यन्ति, तदोर्णा-प्रचुरोऽयं मेषः स्वल्पेनापि वह्निना प्रज्वलयिष्यति । तद्दह्यमानः पुनरश्व-कुट्यां समीप-वर्तिन्यां प्रवेक्ष्यति । सापि तृण-प्राचुर्याज्ज्वलिष्यति । ततोऽश्वा वह्नि-दाहमवाप्स्यन्ति ।
शालिहोत्रेण पुनरेतदुक्तं यत्-वानर-वसयाश्वानां वह्नि-दाह-दोषः प्रशाम्यति । तन्नूनमेतेन भाव्यमत्र निश्चयः । एवं निश्चित्य सर्वान्वानरानाहूय रहसि प्रोवाच, यत्—
PT 5.236 अनुष्टुप्
मेषेण सूपकाराणां कलहो यत्र जायते । स भविष्यत्यसन्दिग्धं वानराणां क्षयावहः ॥
PT 5.237 अनुष्टुप्
तस्मात्स्यात्कलहो यत्र गृहे नित्यमकारणः । तद्-गृहं जीवितं वाञ्छन्दूरतः परिवर्जयेत् ॥
PT 5.238 अनुष्टुप्
कलहान्तानि हर्म्याणि कुवाक्यान्तं च सौहृदम् । कुराजान्तानि राष्ट्राणि कुकर्मान्तं यशो नृणाम् ॥
तन्न यावत्सर्वेषां सङ्क्षयो भवति, तावदेवैतद्राज-गृहं सन्त्यज्य वनं गच्छामः । अथ तत्तस्य वचनमश्रद्धेयं श्रुत्वा मदोद्धता वानराः प्रहस्य प्रोचुः-भो भवतो वृद्ध-भावाद्बुद्धि-वैकल्यं सञ्जातं, येनैतद्ब्रवीषि । उक्तं च—
PT 5.240 अनुष्टुप्
वदनं दशनैर्हीनं लाला स्रवति नित्यशः । न मतिः स्फुरति क्वापि बाले वृद्धे विशेषतः ॥
← Previous (Ch. 4) Full Table of Contents