Skip to main content
Search
PT
Pañcatantram • Chapter 05

Canto 5

पञ्चमं तन्त्रम् (अपरीक्षितकारकम्)

Canto 5 of Pañcatantram.

Total: 367 Verses • Citations: PT 5.1–367 • 1 Lexicon Terms • Page 6 of 13 (Verses 30 shown)
PT 5.151 अनुष्टुप्
बुद्धेर्बुद्धिमतां लोके नास्त्यगम्यं हि किञ्चन । बुद्ध्या यतो हता नन्दाश्चाणक्येनासि-पाणयः ॥
PT 5.153 अनुष्टुप्
न यत्रास्ति गतिर्वायो रश्मीनां च विवस्वतः । तत्रापि प्रविशत्याशु बुद्धिर्बुद्धिमतां सदा ॥
ततो वचन-श्रवण-मात्रादपि पितृ-पर्यायागतं जन्म-स्थानं त्यक्तुं न शक्यते । उक्तं च—
PT 5.155 अनुष्टुप्
न यत्स्वर्गेऽपि सौख्यं स्याद्दिव्य-स्पर्शेन शोभने । कुस्थानेऽपि भवेत्पुंसां जन्मनो यत्र सम्भवः ॥
तन्न कदाचिदपि गन्तव्यम् । अहं त्वां बुद्धि-प्रभावेण रक्षयिष्यामि । मण्डूक आह—भद्रौ ! मम तावदेकैव बुद्धिः पलायन-परा । तदहमन्य-जलाशयमद्यैव सभार्यो यास्यामि ।
एवमुक्त्वा स मण्डूको रात्रावेवान्य-जलाशयं गतः । धीवरैरपि प्रभाते आगत्य, जघन्य-मध्यमोत्तम-जलचराः मत्स्य-कूर्म-मण्डूक-कर्कटादयो गृहीताः । तावपि शतबुद्धि-सहस्रबुद्धी सभार्यौ पलायमानौ चिरमात्मानं गति-विशेष-विज्ञानैः कुटिल-चारेण रक्षन्तौ जाले निपतितौ, व्यापादितौ च ।
अथापराह्न-समये प्रहृष्टास्ते धीवराः स्व-गृहं प्रति प्रस्थिताः । गुरुत्वाच्चैकेन शतबुद्धिः स्कन्धे कृतः सहस्रबुद्धिः प्रलम्बमानो नीयते । ततश्च वापीकण्ठोपगतेन मण्डूकेन तौ तथा नीयमानौ दृष्ट्वा अभिहिता स्वपत्नी-प्रिये ! पश्य पश्य—
PT 5.159 अनुष्टुप्
शतबुद्धिः शिरःस्थोऽयं लम्बते च सहस्रधीः । एकबुद्धिरहं भद्रे क्रीडामि विमले जले ॥
अतश्च वरं बुद्धिर्न सा विद्या यद्भवतोक्तं तत्रेयं मे मतिर्यत्न एकान्तेन बुद्धिरपि प्रमाणम् ।
सुवर्णसिद्धिः प्राह-यद्यप्येतदस्ति, तथापि मित्र-वचनं न लङ्घनीयम् । परं किं क्रियते ? निवारितोऽपि मया न स्थितोऽसि,अतिलौल्यात्विद्याहङ्काराच्च । अथवा साध्विदमुच्यते—
PT 5.162 अनुष्टुप्
साधु मातुल गीतेन मया प्रोक्तोऽपि न स्थितः । अपूर्वोऽयं मणिर्बद्धः सम्प्राप्तं गीत-लक्षणम् ॥
सोऽब्रवीत्- कथा ६ रासभ-शृगाल-कथा
कस्मिंश्च्दधिष्ठाने उद्धतो नाम गर्दभः प्रतिवसति स्म । स सदैव रजक-गृहे भारोद्वहनं कृत्वा रात्रौ स्वेच्छया पर्यटति । ततः प्रत्यूषे बन्धन-भयात्स्वयमेव रजक-गृहमायाति । रजकोऽपि ततस्तं बन्धनेन नियुनक्ति ।
अथ तस्य रात्रौ क्षेत्राणि पर्यटतः कदाचिच्छृगालेन सह मैत्री सञ्जाता स च पीवरत्वाद्वृत्ति-भङ्गं कृत्वा कर्कटिका-क्षेत्रे शृगाल-सहितः प्रविशति । एवं तौ यदृच्छया चिर्भटिका-भक्षणं कृत्वा, प्रत्यहं प्रत्यूषे स्व-स्थानं व्रजतः ।
अथ कदाचित्तेन मदोद्धतेन रासभेन क्षेत्र-मध्य-स्थितेन शृगाओऽभिहितः-भोः भगिनी-सूत ! पश्य पश्य । अतीव निर्मला रजनी । तदहं गीतं करिष्यामि । तत्कथय कतमेन रागेण करोमि ।
स आह—माम ! किमनेन वृथानर्थ-प्रचालनेन ? यतश्चौरकर्म-प्रवृत्तावावाम् । निभृतैश्च चौर-जारैरत्र स्थातव्यम् । उक्तं च—
PT 5.169 आर्या (१२, १८, १२, १५)
कांसी विवर्जयेच्चौर्यं निद्रालुश्चेत्स पुंश्चलीम् । जिह्वा-लौल्यं च रुजाक्रान्तो जीवितं योऽत्र वाञ्छति ॥
अपरं त्वदीयं गीतं न मधुर-स्वरं, शङ्ख-शब्दानुकारं दूरादपि श्रूयते । तदत्र क्षेत्रे रक्षा-पुरुषाः सुसुप्ताः सन्ति । ते उत्थाय वधं बन्धनं वा करिष्यन्ति । तद्भक्षय तावदमृतमयीश्चर्भटीः । मा त्वमत्र गीत-व्यापार-परो भव ।
तच्छ्रुत्वा राभस आह—भोः वनाश्रयत्वात्त्वं गीत-रसं न वेत्सि, तेनैतद्ब्रवीषि । उक्तं च—
PT 5.172 अनुष्टुप्
शरज्-ज्योत्स्नाहते दूरं तमसि प्रिय-सन्निधौ । धन्यानां विशति श्रोत्रे गीत-झङ्कार-जा सुधा ॥
शृगाल आह—माम,अस्त्येतत् । परं न वेत्सि त्वं गीतम् । केवलमुन्नदसि । तत्किं तेन स्वार्थ-भ्रंशकेन ?
रासभ आह—धिग्धिङ्मूर्ख ! किमहं न जानासि गीतम् ? तद्यथा तस्य भेदान्शृणु—
PT 5.175 अनुष्टुप्
सप्त स्वरास्त्रयो ग्रामा मूर्च्छताश्चैकत्रिंशतिः । तानास्त्वेकोनपऊचाशत्तिस्रो मात्रा लयास्त्रयः ॥
PT 5.176 अनुष्टुप्
स्थान-त्रयं यतीनां च षड्-अस्यानि रसा नव । रागा षट्-त्रिंशतिर्भावाश्चत्वारिंशत्ततः स्मृताः ॥
PT 5.177 अनुष्टुप्
पञ्चाशीत्य्-अधिकं ह्येतद्गीताङ्गानां शतं स्मृतम् । स्वयमेव पुरा प्रोक्तं भरतेन श्रुतेः परम् ॥
PT 5.178 अनुष्टुप्
नान्यद्गीतात्प्रियं लोके देवानामपि दृश्यते । शुष्क-स्नायु-स्वराह्लादात्त्र्य्-अक्षं जग्राह रावणः ॥
तत्कथं भगिनी-सुत मामनभिज्ञं वदन्निवारयति ?
शृगाल आह—माम ! यद्येवं यावद्वृत्तेर्द्वार-स्थितः क्षेत्रपालमवलोकयामि, त्वं पुनः स्वेच्छया गीतं कुरु ।
← Previous (Ch. 4) Full Table of Contents