Skip to main content
Search
PT
Pañcatantram • Chapter 05

Canto 5

पञ्चमं तन्त्रम् (अपरीक्षितकारकम्)

Canto 5 of Pañcatantram.

Total: 367 Verses • Citations: PT 5.1–367 • 1 Lexicon Terms • Page 1 of 13 (Verses 30 shown)
अथेदमारभ्यतेऽपरीक्षित-कारकं नाम पञ्चमं तन्त्रम् । तस्यायमादिमः श्लोकः—
PT 5.3 अनुष्टुप्
कुदृष्टं कुपरिज्ञातं कुश्रुतं कुपरीक्षितम् । तन्नरेण न कर्तव्यं नापितेनात्र यत्कृतम् ॥
तद्यथानुश्रूयते-अस्ति दाक्षिणात्ये जनपदे पाटलिपुत्रं नाम नगरम् । तत्र मणिभद्रो नाम श्रेष्ठी प्रतिवसति स्म । तस्य च धर्मार्थ-काम-मोक्ष-कर्माणि कुर्वतो विधि-वशाद्धन-क्षयः सञ्जातः । ततो विभव-क्षयादपमान-परम्परया परं विषादं गतः । अथान्यदा रात्रौ सुप्तिश्चिन्तितवान्-अहो धिगियं दरिद्रता । उक्तं च—
PT 5.5 आर्या (१२, १८, १२, १५)
शीलं शौचं क्षान्तिर्दाक्षिण्यं मधुरता कुले जन्म । न विराजन्ति हि सर्वे वित्त-विहीनस्य पुसुषस्य ॥
PT 5.6 आर्या (१२, १८, १२, १५)
मानो वा दर्पो वा विज्ञानं विभ्रमः सुबुद्धिर्वा । सर्वं प्रणश्यति समं वित्त-विहीनो यदा पुरुषः ॥
PT 5.7 आर्या (१२, १८, १२, १५)
प्रतिदिवसं याति लयं वसन्त-वाताहतेव शिशिर-श्रीः । बुद्धिर्बुद्धिमतामपि कुटुम्ब-भर-चिन्तया सततम् ॥
PT 5.8 आर्या (१२, १८, १२, १५)
नश्यति विपुलमतेरपि बुद्धिः पुरुषस्य मन्द-विभवस्य । घृत-लवण-तैल-तण्डुल-वस्त्रेन्धन-चिन्तया सततम् ॥
गणनमिव नष्ट-तारकं सुष्कमिव सरः श्मशानमिव रौद्रम् । प्रिय-दर्शनमपि रूक्षं भवति गृहं धन-विहीनस्य ॥
PT 5.10 आर्या (१२, १८, १२, १५)
न विभाव्यन्ते लघवो वित्त-विहीनाः पुरोऽपि निवसन्तः । सततं जात-विनष्टाः पयसामिव बुद्बुदाः पयसि ॥
PT 5.11 आर्या (१२, १८, १२, १५)
सुकुलं कुशलं सुजनं विहाय कुल-कुशल-शील-विकलेऽपि । आढ्ये कल्प-तराविव नित्यं रज्यन्ति जन-निवहाः ॥
PT 5.12 आर्या (१२, १८, १२, १५)
विफलमिह पूर्व-सुकृतं विद्यावन्तोऽपि कुल-समुद्भूताः । यस्य यदा विभवः स्यात्तस्य तदा दासतां यान्ति ॥
PT 5.13 आर्या (१२, १८, १२, १५)
लघुरयमाह न लोकः कामं गर्जन्तमपि पतिं पयसाम् । सर्वमलज्जाकरमिह यद्यत्कुर्वन्ति परिपूर्णाः ॥
एवं सम्प्रधार्य भूयोऽप्यचिन्तयत्-तदहमनशनं कृत्वा प्राणानुत्सृजामि । किमनेन व्यर्थ-जीवित-व्यसनेन ?एवं निश्चयं कृत्वा सुप्तः । अथ तस्य स्वप्ने पद्मनिधिः क्षपणक-रूपो दर्शनं दत्त्वा प्रोवाच-भोः श्रेष्ठिन् ! मा त्वं वैराग्यं गच्छ । अहं पद्मनिधिस्तव पूर्व-पुरुषोपार्जितः । तदनेनैव रूपेण प्रातस्त्वद्-गृहमागमिष्यामि । तत्त्वयाहं लगुड-प्रहारेण शिरसि ताडनीयः, येन कनक-मयो भूत्वाक्षयो भवामि ।
अथ प्रातः प्रबुद्धः सन्स्वप्नं स्मरंश्चिन्ता-चक्रमारूढस्तिष्ठति-अहो सत्योऽयं स्वप्नः किं वा असत्यो भविष्यति, न ज्ञायते । अथवा नूनं मिथ्यानेन भाव्यम् । यतोऽहमहर्-निशं केवलं वित्तमेव चिन्तयामि । उक्तं च—
PT 5.16 अनुष्टुप्
व्याधितेन स-शोकेन चिन्ता-ग्रस्तेन जन्तुना । कामार्तेनाथ मत्तेन दृष्टः स्वप्नो निरर्थकः ॥
एतस्मिन्नन्तरे तस्य भार्यया कश्चिन्नापितः पाद-प्रक्षालनायाहूतः अत्रान्तरे च यथा-निर्दिष्टः क्षपणकः सहसा प्रादुर्बभूव । अथ स तमालोक्य प्रहृष्ट-मना यथासन्न-काष्ठ-दण्डेन तं शिरस्यताडयत् । सोऽपि सुवर्ण-मयो भूत्वा तत्-क्षणात्भूमौ निपतितः । अथ तं स श्रेष्ठी निभृतं स्व-गृह-मध्ये कृत्वा नापितं सन्तोष्य प्रोवाच-तदेतद्धनं वस्त्राणि च मया दत्तानि गृहाण । भद्र ! पुनः कस्यचिन्नाख्येयोऽयं वृत्तान्तः ।
नापितोऽपि स्व-गृहं गत्वा व्यचिन्तयत्-नूनमेते सर्वेऽपि नग्नकाः शिरसि ताडिताः काञ्चन-मया भवन्ति । तदहमपि प्रातः प्रभूतानाहूय लगुडैः शिरसि हन्मि, येन प्रभूतं हाटकं मे भवति । एवं चिन्तयतो महता कष्टेन निशातिचक्राम ।
अथ प्रभातेऽभ्युत्थाय बृहल्लगुडमेकं प्रगुणीकृत्य, क्षपणक-विहारं गत्वा जिनेन्द्रस्य प्रदक्षिण-त्रयं विधाय, जानुभ्यामवनिं गत्वा वक्त्र-द्वार-न्यस्तोत्तरीयाञ्चलस्तार-स्वरेणेमं श्लोकमपठत्—
PT 5.20 अनुष्टुप्
जयन्ति ते जिना येषां केवल-ज्ञान-शालिनाम् । आ जन्मनः स्मरोत्पत्तौ मानसेनोषरायितम् ॥
PT 5.22 अनुष्टुप्
सा जिह्वा या जिनं स्तौति तच्-चित्तं यज्जिने रतम् । तौ एव तु करौ श्लाघ्यौ यौ तत्-पूजा-करौ करौ ॥
PT 5.24 शार्दूलविक्रीडितम्
ध्यान-व्याजमुपेत्य चिन्तयसि कामुन्मील्य चक्षुः क्षणं पश्यानङ्ग-शरातुरं जनमिमं त्रातापि नो रक्षसि । मिथ्या-कारुणिकोऽसि निर्घृणतरस्त्वत्तः कुतोऽन्यः पुमान्सेर्ष्यं मार-वधूभिरित्यभिहितो बौद्धो जिनः पातु वः ॥
एवं संस्तूय, ततः प्रधान-क्षपणकणमासाद्य क्षिति-निहित-जानु-चरणः-नमोऽस्तु वन्दे इत्युच्चार्य, लब्ध-धर्म-वृद्ध्य्-आशीर्वादः सुख-मालिकानुग्रह-लब्ध-व्रतादेश उत्तरीय-निबद्ध-ग्रन्थिः सप्रश्रयमिदमाह-भगवनद्य विहरण-क्रिया समस्त-मुनि-समेतेनास्मद्-गृहे कर्तव्या ।
तच्छ्रुत्वा नापित आह—भगवन् ! वेद्म्यहं युष्मद्-धर्मम् । परं भवतो बहु-श्रावका आह्वयन्ति । साम्प्रतं पुनः पुस्तकाच्छादन-योग्यानि कर्पटानि बहु-मूल्यानि प्रगुणीकृतानि । तथा पुस्तकानां लेखनार्थं लेखकानां च वित्तं सञ्चितमास्ते तत्सर्वथा कालोचितं कार्यम् ।
ततो नापितोऽपि स्व-गृहं गतः । तत्र च गत्वा खदिर-मयं लगुडं सज्जीकृत्य कपाट-युगलं द्वारि समाधाय सार्ध-प्रहरैक-समये भूयोऽपि विहार-द्वारमाश्रित्य सर्वान्भक्ति-युक्तानपि परिचित-श्रावकान्परित्यज्य प्रहृष्ट-मनसस्तस्य पृष्ठतो ययुः । अथवा साध्विदमुच्यते—
PT 5.28 अनुष्टुप्
एकाकी गृह-सन्त्यक्तः पाणि-पात्रो दिगम्बरः । सोऽपि सम्बाध्यते लोके तृष्णया पश्य कौतुकम् ॥
PT 5.29 अनुष्टुप्
जीर्यन्ते जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । चक्षुः श्रोत्रे च जीर्येते तृष्णैका तरुणायते ॥
ततः परं गृह-मध्ये तान्प्रवेश्य द्वारं निभृतं पिधाय, लगुड-प्रहारैः शिरस्यताडयत् । तेऽपि ताड्यमाना एके मृताः,अन्ये भिन्न-मस्तका फूत्कर्तुमुपचक्रमिरे । अत्रान्तरे तमाक्रन्दमाकर्ण्य कोटर-क्षपालेनाभिहितम्-भो भोः किमयं कोलाहलो नगर-मध्ये ? तद्गम्यताम् ।
← Previous (Ch. 4) Full Table of Contents