तथानुष्ठिते शृगालोऽपि यावद्रासभ-मार्गेण गच्छति, तावत्तत्रैव स्थाने चरन्दृष्टः । अथ शृगालं दृष्ट्वा रासभः प्राह-भो भगिनी-सुत ! शोभन-स्थाने त्वयाहं नीतः । द्राङ्मृत्यु-वशं गतः । तत्कथय किं तत्सत्त्वं यस्यातिरौद्र-वज्र-सदृश-कर-प्रहारादहं मुक्तः ।
तच्छ्रुत्वा प्रहसन्शृगाल आह—भद्र ! रासभी त्वामायान्तं दृष्ट्वा सानुरागमालिङ्गितुं समुत्थिता । त्वं च कातरत्वान्नष्टः । सा पुनर्न शक्ता त्वां विना स्थातुम् । तया तु नशतस्तेऽवलम्बनार्थं हस्तः क्षिप्तः । नान्य-कारणेन । तदागच्छ । सा त्वत्-कृते प्रायोपवेशनोपविष्टा तिष्ठति । एतद्वदति-यल्लम्बकर्णो यदि मे भर्ता न भवति तदहमग्नौ जलं वा प्रविशामि । पुनस्तस्य वियोगं सोढुं न शक्नोमि इति । तत्प्रसादं कृत्वा तत्रागम्यताम् । नो चेत्तव स्त्री-हत्या भविष्यति । अपरं भगवान्काम-कोपं तवोपरि करिष्यति । उक्तं च—
स्त्री-मुद्रां मकरध्वजस्य जयिनीं सर्वार्ध-सम्पत्-करीं ते मूढाः प्रविहाय यान्ति कुधियो मिथ्या-फलान्वेषिणः । ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः केचिद्रक्त-पटीकृताश्च जटिलाः कापालिकाश्चापरे ॥
अथासौ तद्-वचनं श्रद्धेयतया श्रुत्वा भूयोऽपि तेन सह प्रस्थितः । अथवा साध्विदमुच्यते—
जानन्नपि नरो दैवात्प्रकरोति विगर्हितम् । कर्म किं कस्यचिल्लोके गर्हितं रोचते कथम् ॥
अत्रान्तरे सज्जित-क्रमेण सिंहेन स लम्बकर्णो व्यापादितः । ततस्तं हत्वा शृगालं रक्षकं निरूप्य स्वयं स्नानार्थं नद्यां गतः । शृगालेनापि लौल्योत्सुक्यात्तस्य कर्ण-हृदयं भक्षितम् । अत्रान्तरे सिंहो यावत्स्नात्वा कृते देवार्चनः प्रतर्पित-पितृ-गणः समायाति तावत्कर्ण-हृदय-रहितो रासभस्तिष्ठति । तं दृष्ट्वा कोप-परीतात्मा सिंहः शृगालमाह-पाप ! किमिदमनुचितं कर्म समाचरितम् ? यत्कर्ण-हृदय-भक्षणेनायमुच्छिष्टतां नीतः ।
शृगालः स-विनयमाह-स्वामिन् ! मा मैवं वद । यत्कर्ण-हृदय-रहितोऽयं रासभ आसीत्, तेनेहागत्य त्वामवलोक्य भूयोऽप्यागतः ।
अथ त्वद्-वचनं श्रद्धेयं मत्वा सिंहस्तेनैव संविभज्य निःशङ्कित-मनास्तं भक्षितवान् ।
अतोऽहं ब्रवीमि-आगतश्च गतश्चैव इति । तन्मूर्ख ! कपटं कृतं त्वया । परं युधिष्ठिरेणेव सत्य-वचनेन विनाशितम् । अथवा साध्विदमुच्यते—
स्वार्थमुत्सृज्य यो दम्भी सत्यं ब्रूते सुमन्द-धीः । स स्वार्थाद्भ्रश्यते नूनं युधिष्ठिर इवापरः ॥
मकर आह—कथमेतत् ?
स आह— कथा ३ युधिष्ठिराख्य-कुम्भकार-कथा
कस्मिंश्चितधिष्ठाने कुम्भकारः प्रतिवसति स्म । स कदाचित्प्रमादादर्ध-मग्न-खर्पर-तीक्ष्णाग्रस्योपरि महता वेगेन धावन्पतितः । ततः खपर-कोट्या पाटित-ललाई᳡ओओ रुधिर-प्लावित-तनुः कृच्छ्रादुत्थाय स्वाश्रयं गतः । ततश्चापथ्य-सेवनात्स प्रहारस्तस्य करालतां गतः कृच्छ्रेण नीरोगतां नीतः ।
अथ कदाचिद्दुर्भिक्ष-पीडिते देशे च कुम्भकारः क्षुत्क्षाम-कण्ठः कैश्चिद्राज-सेवकैः सह देशान्तरं गत्वा कस्यापि राज्ञः सेवको बभूव । सोऽपि राजा तस्य ललाटे विकरालं प्रहार-क्षतं दृष्ट्वा चिन्तयामास, यद्-वीरः पुरुषः कश्चिदयम् । नूनं तेन ललाट-पट्टे सम्मुख-प्रहारः ।
अतस्तं समानादिभिः सर्वेषां राज-पुत्राणां मध्ये विशेष-प्रसादेन पश्यति स्म । तेऽपि राज-पुत्रास्तस्य तं प्रसादातिरेकं पश्यन्तं परमेर्ष्या-धर्मं वहन्तो राज-भयान्न किञ्चिदूचुः ।
अथान्यस्मिन्नहनि तस्य भूपतेर्वीर-सम्भावनायां क्रियमाणायां विग्रहे समुपस्थिते प्रकल्प्यमानेषु गजेषु संनह्यमानेषु वाजिषु योधेषु । प्रगुणीक्रियमाणेषु तेन भूभुजा स कुम्भकारः प्रस्तावानुगतं पृष्टो निर्जने-भो राज-पुत्र ! किं ते नाम ? का च जातिः ? कस्मिन्सङ्ग्रामे प्रहारोऽयं ते ललाटे लग्नः ?
स आह—देव ! नायं शस्त्र-प्रहारः । युधिष्ठिराभिधः कुलालोऽहं प्रकृत्या । मद्-गेहेऽनेक-खर्पराण्यासन् । अथ कदाचिन्मद्य-पानं कृत्वा निर्गतः प्रधावन्खर्परोपरि पतितः । तस्य प्रहार-विकारोऽयं मे ललाटे एवं विकरालतां गतः ।
तदाकर्ण्य राजा स-व्रीडमाह-अहो वञ्चितोऽहं राजापुत्रानुकारिणानेन कुलालेन । तद्दीयतां द्रागेतस्य चन्द्रार्धः ।
तथानुष्ठिते कुम्भकार आह—मा मैवं कुरु । पश्य मे रणे हस्त-लाघवम् ।
राजा प्राह-सर्व-गुण-सम्पन्नो भवान् । तथापि गम्यताम् । उक्तं च—
शूद्रश्च कृत-विघ्नश्च दर्शनीयोऽसि पुत्रक । यस्मिन्कुले त्वमुत्पन्नो गजस्तत्र न हन्यते ॥
कुलाल आह—कथमेतत् ?
राजा कथयति- कथा ४ सिंह-दम्पती-कथा
कस्मिंश्चिदुद्देशे सिंह-दम्पती प्रतिवसतः स्म । अथ सिंही पुत्र-द्वयमजीजनत् । सिंहोऽपि नित्यमेव मृगान्व्यापाद्य सिंह्यै ददाति । अथान्यस्मिनहनि तेन किमपि नासादितम् । येन भ्रमतोऽपि तस्य रविरस्तं गतः । अथ तेन स्व-गृहमागच्छता शृगाल-शिशुः प्राप्तः । स च बालकोऽयमित्यवधार्य यत्नेन दंष्ट्रामध्य-गतं कृत्वा सिंह्या जीवन्तमेव समर्पितवान् । ततः सिंह्याभिहितम्-भोः कान्त ! त्वयानीतं किञ्चिदस्माकं भोजनम् ?
सिंह आह—प्रिये ! मयाद्यैनं शृगाल-शिशुं परित्यज्य न किञ्चित्सत्त्वमासादितम् । स च मया बालोऽयमिति मत्वा न व्यापादितो विशेषात्स्वजातीयश्च । उक्तं च—
स्त्री-विप्रलिङ्गि-बालेषु प्रहर्तव्यं न कर्हिचित् । प्राण-त्यागेऽपि सञ्जाते विश्वस्तेषु विशेषतः ॥
इदानीं त्वमेनं भक्षयित्वा पथ्यं कुरु । प्रभातेऽन्यत्किञ्चिदुपार्जयिष्यामि । सा प्राह-भोः कान्त ! त्वया बालकोऽयमिति विचिन्त्य न हतः । तत्कथमेनमहं स्वोदरार्थे विनाशयामि । उक्तं च—
अकृत्यं नैव कर्तव्यं प्राण-त्यागेऽप्युपस्थिते । न च कृत्यं परित्याज्यमेष धर्मः सनातनः ॥
तस्मान्ममायं तृतीयः पुत्रो भविष्यति । इत्येवमुक्त्वा तमपि स्वस्तन-क्षीरेण परां पुष्टिमनयत् । एवं ते त्रयोऽपि शिशवः परस्परमज्ञात-जाति-विशेषा एकाचार-विहारा बाल्य-समयं निर्वाहयन्ति । अथ कदाचित्तत्र वने भ्रमन्नरण्य-गजः समायातः । तं दृष्ट्वा तौ सिंह-सुतौ द्वावपि कुपिताननौ तं प्रति प्रचलितौ यावत्तावत्तेन शृगाल-सुतेनाभिहितम्-अहो ! गजोऽयं युष्मत्-कुल-शत्रुः । तन्न गन्तव्यमेतस्याभिमुखम् ।
एवमुक्त्वा गृहं प्रधावितः । तावपि ज्येष्ठ-बान्धव-भङ्गान्निरुत्साहतां गतौ । अथवा साध्विदमुच्यते—