Skip to main content
Search
Ch. 4 PT 4.149
Full Chapter
PT • Chapter 4: Canto 4

PT 4.149

Canonical Ref: PT 4.149
Sanskrit (Devanāgarī)
तस्मान्ममायं तृतीयः पुत्रो भविष्यति । इत्येवमुक्त्वा तमपि स्वस्तन-क्षीरेण परां पुष्टिमनयत् । एवं ते त्रयोऽपि शिशवः परस्परमज्ञात-जाति-विशेषा एकाचार-विहारा बाल्य-समयं निर्वाहयन्ति । अथ कदाचित्तत्र वने भ्रमन्नरण्य-गजः समायातः । तं दृष्ट्वा तौ सिंह-सुतौ द्वावपि कुपिताननौ तं प्रति प्रचलितौ यावत्तावत्तेन शृगाल-सुतेनाभिहितम्-अहो ! गजोऽयं युष्मत्-कुल-शत्रुः । तन्न गन्तव्यमेतस्याभिमुखम् ।
Canonical CTS URN Reference
Pañcatantram, PT 4.149. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (PT 4.148) All Verses in Chapter 4 Next Verse (PT 4.150) →