आक्षिप्तरेचितो ह्येष करणानां विधिः स्मृतः । विक्षिप्त करणं कृत्वा हस्तपादं मुखागमम् ॥
ākṣiptarecito hyeṣa karaṇānāṃ vidhiḥ smṛtaḥ । vikṣipta karaṇaṃ kṛtvā hastapādaṃ mukhāgamam ॥
वामसूचिसहकृतं विक्षिपेद्वामकं करम् । वक्षःस्थाने भवेत्सव्यो वलितं त्रिकमेव च ॥
vāmasūcisahakṛtaṃ vikṣipedvāmakaṃ karam । vakṣaḥsthāne bhavetsavyo valitaṃ trikameva ca ॥
नूपुराक्षिप्तके चैव ह्यर्धस्वस्तिकमेव च । नितम्बं करिहस्तं च ह्युरोमण्डलकं तथा ॥
nūpurākṣiptake caiva hyardhasvastikameva ca । nitambaṃ karihastaṃ ca hyuromaṇḍalakaṃ tathā ॥
कटिच्छिन्नं च कर्तव्यं सम्भ्रान्ते नृत्तयोक्तृभिः ।अपक्रान्तक्रमं कृत्वा व्यंसितं हस्तमेव च ॥
kaṭicchinnaṃ ca kartavyaṃ sambhrānte nṛttayoktṛbhiḥ ।apakrāntakramaṃ kṛtvā vyaṃsitaṃ hastameva ca ॥
कुर्यादुद्वेष्टितं चैव ह्यर्धसूचीं तथैव च । विक्षिप्तं सकटिच्छिन्नमुद्वृत्ताक्षिप्तके तथा ॥
kuryādudveṣṭitaṃ caiva hyardhasūcīṃ tathaiva ca । vikṣiptaṃ sakaṭicchinnamudvṛttākṣiptake tathā ॥
करिहस्तं कटिच्छिन्नं कर्तव्यमपसर्पिते । कृत्वा नूपुरपादं च द्रुतमाक्षिप्य च क्रमम् ॥
karihastaṃ kaṭicchinnaṃ kartavyamapasarpite । kṛtvā nūpurapādaṃ ca drutamākṣipya ca kramam ॥
पादस्य चानुगौ हस्तौ त्रिकं च परिवर्तयेत् । निकुट्य करपादं चाप्युरोमण्डलकं पुनः ॥
pādasya cānugau hastau trikaṃ ca parivartayet । nikuṭya karapādaṃ cāpyuromaṇḍalakaṃ punaḥ ॥
करिहस्तं कटिच्छिन्नं कार्यमर्धनिकुट्टके । द्वात्रिंशदेते सम्प्रोक्ता ह्यङ्गहारा द्विजोत्तमाः ॥
karihastaṃ kaṭicchinnaṃ kāryamardhanikuṭṭake । dvātriṃśadete samproktā hyaṅgahārā dvijottamāḥ ॥
चतुरो रेचकांश्चापि गदतो मे निबोधत । पादरेचक एकः स्यात्द्वितीयः कटिरेचकः ॥
caturo recakāṃścāpi gadato me nibodhata । pādarecaka ekaḥ syātdvitīyaḥ kaṭirecakaḥ ॥
कररेचकस्तृतीयस्तु चतुर्थः कण्ठरेचकः । [रेचिताख्यः पृथग्भावे वलने चाभिधीयते ॥
kararecakastṛtīyastu caturthaḥ kaṇṭharecakaḥ । [recitākhyaḥ pṛthagbhāve valane cābhidhīyate ॥
उद्वाहनात्पृथग्भावाच्चलनाच्चापि रेचकः । पार्श्वात्पार्श्वे तु गमनं स्खलितैश्चलितैः पदैः ॥
udvāhanātpṛthagbhāvāccalanāccāpi recakaḥ । pārśvātpārśve tu gamanaṃ skhalitaiścalitaiḥ padaiḥ ॥
विविधैश्चैव पादस्य पादरेचक उच्यते । त्रिकस्योद्वर्तनं चैव छटीवलनमेव च ॥
vividhaiścaiva pādasya pādarecaka ucyate । trikasyodvartanaṃ caiva chaṭīvalanameva ca ॥
तथाऽपसर्पणं चैव कटिरेचक उच्यते ।उद्वर्तनं परिक्षेपो विक्षेपः परिवर्तनम् ॥
tathā'pasarpaṇaṃ caiva kaṭirecaka ucyate ।udvartanaṃ parikṣepo vikṣepaḥ parivartanam ॥
विसर्पणं च हस्तस्य हस्तरेचक उच्यते ।उद्वाहनं सन्नमनं तथा पार्श्वस्य सन्नतिः ॥
visarpaṇaṃ ca hastasya hastarecaka ucyate ।udvāhanaṃ sannamanaṃ tathā pārśvasya sannatiḥ ॥
भ्रमणं चापि विज्ञेयो ग्रीवाया रेचको बुधैः] रेचकैरङ्गहारैश्च नृत्यन्तं वीक्ष्य शङ्करम् ॥
bhramaṇaṃ cāpi vijñeyo grīvāyā recako budhaiḥ] recakairaṅgahāraiśca nṛtyantaṃ vīkṣya śaṅkaram ॥
सुकुमारप्रयोगेण नृत्यन्तीं चैव पार्वतीम् । मृदञ्गभेरीपटहैर्भाण्डडिण्डिमगोमुखैः ॥
sukumāraprayogeṇa nṛtyantīṃ caiva pārvatīm । mṛdañgabherīpaṭahairbhāṇḍaḍiṇḍimagomukhaiḥ ॥
पणवैर्ददुरैश्चैव सर्वातोद्यैः प्रवादितैः । दक्षयज्ञे विनिहते सन्ध्याकाले महेश्वरः ॥
paṇavairdaduraiścaiva sarvātodyaiḥ pravāditaiḥ । dakṣayajñe vinihate sandhyākāle maheśvaraḥ ॥
नानाङ्गहारैः प्रानृत्यल्लयतालवशानुगैअः । पिण्डिबन्धांस्ततो दृष्ट्वा नन्दिभद्रमुखा गणाः ॥
nānāṅgahāraiḥ prānṛtyallayatālavaśānugaiaḥ । piṇḍibandhāṃstato dṛṣṭvā nandibhadramukhā gaṇāḥ ॥
चक्रुस्ते नाम पिण्डीनां बन्धमासां सलक्षणम् ।ईश्वरस्येश्वरी पिन्डी नन्दिनश्चापि पट्टसी ॥
cakruste nāma piṇḍīnāṃ bandhamāsāṃ salakṣaṇam ।īśvarasyeśvarī pinḍī nandinaścāpi paṭṭasī ॥
चण्डिकाया भवेत्पिण्डी तथा वै सिंहवाहिनी । तार्क्ष्यपिण्डी भवेद्विष्णोः पद्मपिण्डी स्वयंभुवः ॥
caṇḍikāyā bhavetpiṇḍī tathā vai siṃhavāhinī । tārkṣyapiṇḍī bhavedviṣṇoḥ padmapiṇḍī svayaṃbhuvaḥ ॥
शक्रस्यैरावती पिण्डी झषपिण्डी तु मान्मथी । शिखिपिण्डी कुमारस्य रूपपिण्डी भवेच्छ्रियः ॥
śakrasyairāvatī piṇḍī jhaṣapiṇḍī tu mānmathī । śikhipiṇḍī kumārasya rūpapiṇḍī bhavecchriyaḥ ॥
धारापिण्डी च जाह्नव्याः पाशपिण्डी यमस्य च । वारुणी च नदीपिण्डी याक्षी स्याद्धनदस्य तु ॥
dhārāpiṇḍī ca jāhnavyāḥ pāśapiṇḍī yamasya ca । vāruṇī ca nadīpiṇḍī yākṣī syāddhanadasya tu ॥
हलपिण्डी बलस्यापि सर्पपिण्डी तु भोगिनाम् । गाणेश्वरी महापिण्डी दक्षयज्ञविमर्दिनी ॥
halapiṇḍī balasyāpi sarpapiṇḍī tu bhoginām । gāṇeśvarī mahāpiṇḍī dakṣayajñavimardinī ॥
त्रिशूलाकृतिसंस्थाना रौद्री स्यादन्धकद्विषः ।एवमन्यास्वपि तथा देवतासु यथाक्रमम् ॥
triśūlākṛtisaṃsthānā raudrī syādandhakadviṣaḥ ।evamanyāsvapi tathā devatāsu yathākramam ॥
ध्वजभूताः प्रयोक्तव्याः पिण्डीबन्धाः सुचिह्निताः । रेचका अङ्गहाराश्च पिण्डीबन्धातस्थैव च ॥
dhvajabhūtāḥ prayoktavyāḥ piṇḍībandhāḥ sucihnitāḥ । recakā aṅgahārāśca piṇḍībandhātasthaiva ca ॥
सृष्ट्वा भगवता दत्तास्तण्डवे मुनये तदा । तेनापि हि ततः सम्यग्गानभाण्डसमन्वितः ॥
sṛṣṭvā bhagavatā dattāstaṇḍave munaye tadā । tenāpi hi tataḥ samyaggānabhāṇḍasamanvitaḥ ॥
नृत्तप्रयोगः सृष्टो यः स ताण्डव इति स्मृतः । ऋषय ऊचुः - यदा प्राप्त्यर्थमर्थानां तज्ज्ञैरभिनयः कृतः ॥
nṛttaprayogaḥ sṛṣṭo yaḥ sa tāṇḍava iti smṛtaḥ । ṛṣaya ūcuḥ - yadā prāptyarthamarthānāṃ tajjñairabhinayaḥ kṛtaḥ ॥
कस्मानृत्तं कृतं ह्येतत्कं स्वभावमपेक्षते । न गीतकार्थसम्बद्धं न चाप्यर्थस्य भावकम् ॥
kasmānṛttaṃ kṛtaṃ hyetatkaṃ svabhāvamapekṣate । na gītakārthasambaddhaṃ na cāpyarthasya bhāvakam ॥
कस्मान्नृत्तं कृतं ह्येतद्गीतेष्वासारितेषु च । भरतः -अत्रोच्यते न खल्वर्थं कञ्चिन्नृत्तमपेक्षते ॥
kasmānnṛttaṃ kṛtaṃ hyetadgīteṣvāsāriteṣu ca । bharataḥ -atrocyate na khalvarthaṃ kañcinnṛttamapekṣate ॥
किं तु शोभां प्रजनयेदिति नृत्तं प्रवर्तितम् । प्रायेण सर्वलोकस्य नृत्तमिष्टं स्वभावतः ॥
kiṃ tu śobhāṃ prajanayediti nṛttaṃ pravartitam । prāyeṇa sarvalokasya nṛttamiṣṭaṃ svabhāvataḥ ॥