Skip to main content
Search
NS
Nāṭyaśāstra • Chapter 04

Tāṇḍavalakṣaṇa

ताण्डवलक्षणम्

Comprehensive choreography of Lord Śiva's cosmic dance, enumerating and defining 108 Karaṇas (fundamental synchronized postures of hands and feet), 32 Aṅgahāras (composite movement sequences), 4 Recakas, and Piṇḍībandhas.

Total: 331 Verses • Citations: NS 4.1–331 • 31 Lexicon Terms • Page 11 of 12 (Verses 30 shown)
NS 4.295 उपगीति
तदेव च पुनर्वस्तु नृत्तेएनापि प्रदर्शेयत् । यो विधिः पूर्वमुक्तस्तु नृत्ताभिनयवादिते ॥
tadeva ca punarvastu nṛtteenāpi pradarśeyat । yo vidhiḥ pūrvamuktastu nṛttābhinayavādite ॥
NS 4.296 अनुष्टुप्
आसारितविधौ स स्याद्गीतानां वस्तुकेष्वपि ।एवं वस्तुनिबन्धानां गीतकानां विधिः स्मृतः ॥
āsāritavidhau sa syādgītānāṃ vastukeṣvapi ।evaṃ vastunibandhānāṃ gītakānāṃ vidhiḥ smṛtaḥ ॥
NS 4.297 अनुष्टुप्
शृणुताङ्गनिबद्धानां गीतानामपि लक्षणम् । य एव वस्तुकविधिर्नृत्ताभिनयवादिते ॥
śṛṇutāṅganibaddhānāṃ gītānāmapi lakṣaṇam । ya eva vastukavidhirnṛttābhinayavādite ॥
NS 4.298 अनुष्टुप्
तमेवाङ्गनिबद्धेषु च्छन्दकेष्वपि योजयेत् । वाद्यं गुर्वक्षरकृतं तथाल्पाक्षरमेव च ॥
tamevāṅganibaddheṣu cchandakeṣvapi yojayet । vādyaṃ gurvakṣarakṛtaṃ tathālpākṣarameva ca ॥
NS 4.299 अनुष्टुप्
मुखे सोपोहने कुर्याद्वर्णानां विप्रकर्षतः । यदा गीतिवशादङ्गं भूयो भूयो निवर्तते ॥
mukhe sopohane kuryādvarṇānāṃ viprakarṣataḥ । yadā gītivaśādaṅgaṃ bhūyo bhūyo nivartate ॥
NS 4.300 अनुष्टुप्
तत्राद्यमभिनेयं स्याच्छेषं नृत्तेन योजयेत् । यदा गीतिवशादङ्गं भूयो भूयो निवर्तते ॥
tatrādyamabhineyaṃ syāccheṣaṃ nṛttena yojayet । yadā gītivaśādaṅgaṃ bhūyo bhūyo nivartate ॥
NS 4.301a अनुष्टुप्
त्रिपाणिलयसंयुक्तं तत्र वाद्यं प्रयोजयेत् । यथा लयस्तथा वाद्यं कर्तव्यमिह वादकैः ॥
tripāṇilayasaṃyuktaṃ tatra vādyaṃ prayojayet । yathā layastathā vādyaṃ kartavyamiha vādakaiḥ ॥
NS 4.301b अनुष्टुप्
[ततं चानुगतं चापि ओघं च करणान्वितम् । स्थिरे तत्त्वं प्रयोक्तव्यं मध्ये चानुगतं भवेत् ॥
[tataṃ cānugataṃ cāpi oghaṃ ca karaṇānvitam । sthire tattvaṃ prayoktavyaṃ madhye cānugataṃ bhavet ॥
NS 4.301c अनुष्टुप्
भूयश्चौघः प्रयोक्तव्यस्त्वेष वाद्यगतो विधिः । छन्दोगीतकमासाद्य त्वङ्गानि परिवर्तयेत् ॥
bhūyaścaughaḥ prayoktavyastveṣa vādyagato vidhiḥ । chandogītakamāsādya tvaṅgāni parivartayet ॥
NS 4.301d अनुष्टुप्
एष कार्यो विधिर्नित्यं नृत्ताभिनयवादिते । यानि वस्तुनिबद्धानि तेषामन्ते ग्रहो भवेत् ।अङ्गानां तु परावृत्तावादावेव ग्रहो मतः] ॥
eṣa kāryo vidhirnityaṃ nṛttābhinayavādite । yāni vastunibaddhāni teṣāmante graho bhavet ।aṅgānāṃ tu parāvṛttāvādāveva graho mataḥ] ॥
NS 4.302 अनुष्टुप्
एवमेष विधिः कार्यो गीतेष्वासारितेष्वपि । देवस्तुत्याश्रयं ह्येतत्सुकुमारं निबोधत ॥
evameṣa vidhiḥ kāryo gīteṣvāsāriteṣvapi । devastutyāśrayaṃ hyetatsukumāraṃ nibodhata ॥
NS 4.303 अनुष्टुप्
स्त्रीपुंसयोस्तु संलापो यस्तु कामसमुद्भवः । तज्ज्ञेयं सुकुमारं हि शृङ्गाररससम्भवम् ॥
strīpuṃsayostu saṃlāpo yastu kāmasamudbhavaḥ । tajjñeyaṃ sukumāraṃ hi śṛṅgārarasasambhavam ॥
NS 4.304 अनुष्टुप्
यस्यां यस्यामवस्थायां नृत्तं योज्यं प्रयोक्तृभिः । तत्सर्वंं संप्रवक्ष्यामि तच्च मे शृणुत द्विजाः ॥
yasyāṃ yasyāmavasthāyāṃ nṛttaṃ yojyaṃ prayoktṛbhiḥ । tatsarvaṃṃ saṃpravakṣyāmi tacca me śṛṇuta dvijāḥ ॥
NS 4.305 अनुष्टुप्
अङ्गवस्तुनिवृत्तौ तु तथा वर्णनिवृत्तिषु । तथा चाभुदयस्थाने नृत्तं तज्ज्ञः प्रयोजयेत् ॥
aṅgavastunivṛttau tu tathā varṇanivṛttiṣu । tathā cābhudayasthāne nṛttaṃ tajjñaḥ prayojayet ॥
NS 4.306 अनुष्टुप्
यत्तु संदृश्यते किञ्चिद्दम्पत्योर्मदनाश्रयम् । नृत्तं तत्र प्रयोक्तव्यं प्रहर्षार्थगुणोद्भवम् ॥
yattu saṃdṛśyate kiñciddampatyormadanāśrayam । nṛttaṃ tatra prayoktavyaṃ praharṣārthaguṇodbhavam ॥
NS 4.307 अनुष्टुप्
यत्र सन्निहिते कान्ते ऋतुकालादिदर्शनम् । गीतकार्थाभिसंबद्धं नृत्तं तत्रापि चेष्यते ॥
yatra sannihite kānte ṛtukālādidarśanam । gītakārthābhisaṃbaddhaṃ nṛttaṃ tatrāpi ceṣyate ॥
NS 4.308 अनुष्टुप् (Anuṣṭubh)
खण्डिअता विप्रलब्धा वा कलहान्तरितापि वा । यस्मिन्नङ्गे तु युवतिर्न नृत्तं तत्र न योजयेत् ॥
khaṇḍiatā vipralabdhā vā kalahāntaritāpi vā । yasminnaṅge tu yuvatirna nṛttaṃ tatra na yojayet ॥
NS 4.309a अनुष्टुप्
सखीप्रवृत्ते संलापे तथाऽसन्निहिते प्रिये । न हि नृत्तं प्रयोक्तव्यं यस्या न प्रोषितः प्रियः ॥
sakhīpravṛtte saṃlāpe tathā'sannihite priye । na hi nṛttaṃ prayoktavyaṃ yasyā na proṣitaḥ priyaḥ ॥
NS 4.309b अनुष्टुप्
[दूत्याश्रयं यदा तु स्यादृतुकालादि दर्शनम् ।औत्सुक्यचिन्तासंबद्धं न नृत्तं तत्र योजयेत्] ॥
[dūtyāśrayaṃ yadā tu syādṛtukālādi darśanam ।autsukyacintāsaṃbaddhaṃ na nṛttaṃ tatra yojayet] ॥
NS 4.310 अनुष्टुप्
यस्मिन्नङ्गे प्रसादं तु गृह्नीयान्नायिका क्रमात् । ततःप्रभृति नृत्तं तु शेषेष्वङ्गेषु योजयेत् ॥
yasminnaṅge prasādaṃ tu gṛhnīyānnāyikā kramāt । tataḥprabhṛti nṛttaṃ tu śeṣeṣvaṅgeṣu yojayet ॥
NS 4.311 अनुष्टुप्
देवस्तुत्याश्रयकृतं यदङ्गं तु भवेदथ । माहेश्वरैरङ्गहारैरुद्धतैस्तत्प्रयोजयेत् ॥
devastutyāśrayakṛtaṃ yadaṅgaṃ tu bhavedatha । māheśvarairaṅgahārairuddhataistatprayojayet ॥
NS 4.312 अनुष्टुप्
यत्तु शृङ्गारसंबद्धं गानं स्त्रीपुरुषाश्रयम् । देवीकृतैरङ्गहारैर्ललितैस्तत्प्रयोजयेत् ॥
yattu śṛṅgārasaṃbaddhaṃ gānaṃ strīpuruṣāśrayam । devīkṛtairaṅgahārairlalitaistatprayojayet ॥
NS 4.313 अनुष्टुप्
चतुष्पदा नर्कुटके खञ्जके परिगीतके । विधानं सम्प्रवक्ष्यामि भाण्डवाद्यविधिं प्रति ॥
catuṣpadā narkuṭake khañjake parigītake । vidhānaṃ sampravakṣyāmi bhāṇḍavādyavidhiṃ prati ॥
NS 4.314 अनुष्टुप्
खञ्जनर्कुटसंयुक्ता भस्वेद्या तु चतुष्पदा । पादान्ते सन्निपाते तु तस्या भाण्डग्रहो भवेत् ॥
khañjanarkuṭasaṃyuktā bhasvedyā tu catuṣpadā । pādānte sannipāte tu tasyā bhāṇḍagraho bhavet ॥
NS 4.315 अनुष्टुप्
या ध्रुवा छन्दसा यक्ता समपादा समाक्षरा । तस्याः पादावसाने तु प्रदेशिन्या ग्रहो भवेत् ॥
yā dhruvā chandasā yaktā samapādā samākṣarā । tasyāḥ pādāvasāne tu pradeśinyā graho bhavet ॥
NS 4.316 अनुष्टुप्
कृत्वैकं परिवर्तं तु गानस्याभिनयस्य च । पुनः पादनिवृत्तिं तु भाण्डवाद्येन योजयेत् ॥
kṛtvaikaṃ parivartaṃ tu gānasyābhinayasya ca । punaḥ pādanivṛttiṃ tu bhāṇḍavādyena yojayet ॥
NS 4.317 अनुष्टुप्
अँङ्गवस्तुनिवृतौ तु वर्णान्तरनिवृत्तिषु । तथोपस्थापने चैव भाण्डवाद्यं प्रयोजयेत् ॥
am̐ṅgavastunivṛtau tu varṇāntaranivṛttiṣu । tathopasthāpane caiva bhāṇḍavādyaṃ prayojayet ॥
NS 4.318 अनुष्टुप्
येऽपि चान्तरमार्गास्स्युः तन्त्रिवाक्करणैः कृताः । तेषु सूची प्रयोक्तव्या भाण्डेन सह ताण्डवे ॥
ye'pi cāntaramārgāssyuḥ tantrivākkaraṇaiḥ kṛtāḥ । teṣu sūcī prayoktavyā bhāṇḍena saha tāṇḍave ॥
NS 4.319 अनुष्टुप्
महेश्वरस्य चरितं य इदं सम्प्रयोजयेत् । सर्वपापविशुद्धात्मा शिवलोकं स गच्छति ॥
maheśvarasya caritaṃ ya idaṃ samprayojayet । sarvapāpaviśuddhātmā śivalokaṃ sa gacchati ॥
NS 4.320 अनुष्टुप्
एवमेष विधिः सृ(र्दृ)ष्टस्ताण्डवस्य प्रयोगतः । भूयः किं कथ्यतामन्यन्नाट्यवेदविधिं प्रति ॥
evameṣa vidhiḥ sṛ(rdṛ)ṣṭastāṇḍavasya prayogataḥ । bhūyaḥ kiṃ kathyatāmanyannāṭyavedavidhiṃ prati ॥
← Previous (Ch. 3) Full Table of Contents Next (Ch. 5) →