Skip to main content
Search
NS
Nāṭyaśāstra • Chapter 04

Tāṇḍavalakṣaṇa

ताण्डवलक्षणम्

Comprehensive choreography of Lord Śiva's cosmic dance, enumerating and defining 108 Karaṇas (fundamental synchronized postures of hands and feet), 32 Aṅgahāras (composite movement sequences), 4 Recakas, and Piṇḍībandhas.

Total: 331 Verses • Citations: NS 4.1–331 • 31 Lexicon Terms • Page 7 of 12 (Verses 30 shown)
NS 4.189 अनुष्टुप्
आवर्तितं ततः कुर्यात्तथैअव च निकुट्टकम् ।ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च ॥
āvartitaṃ tataḥ kuryāttathaiava ca nikuṭṭakam ।ūrūdvṛttaṃ tathākṣiptamuromaṇḍalameva ca ॥
NS 4.181 अनुष्टुप्
करिहस्तं कटिच्छिन्नं सूचीविद्धो भवेदयम् ।अपविद्धं तु करणं सूचीविद्धं तथैव च ॥
karihastaṃ kaṭicchinnaṃ sūcīviddho bhavedayam ।apaviddhaṃ tu karaṇaṃ sūcīviddhaṃ tathaiva ca ॥
NS 4.182 अनुष्टुप्
उद्वेष्टितेन हस्तेन त्रिकं तु परिवर्तयेत् ।उरोमण्डलकौ हस्तौ कटिच्छिन्नं तथैव च ॥
udveṣṭitena hastena trikaṃ tu parivartayet ।uromaṇḍalakau hastau kaṭicchinnaṃ tathaiva ca ॥
NS 4.183 अनुष्टुप्
अपविद्धोऽङ्गहाराश्च विज्ञेयोऽयं प्रयोक्तृभिः । करणं नूपुरं कृत्वा विक्षिप्तालातके पुनः ॥
apaviddho'ṅgahārāśca vijñeyo'yaṃ prayoktṛbhiḥ । karaṇaṃ nūpuraṃ kṛtvā vikṣiptālātake punaḥ ॥
NS 4.184 अनुष्टुप्
पुनराक्षिप्तकं कुर्यादुरोमण्डलकं तथा । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥
punarākṣiptakaṃ kuryāduromaṇḍalakaṃ tathā । nitambaṃ karihastaṃ ca kaṭicchinnaṃ tathaiva ca ॥
NS 4.185 अनुष्टुप्
आक्षिप्तकः स विज्ञेयो ह्यङ्गहारः प्रयोक्तृभिः ।उद्वेष्टितापविद्धस्तु करः पादो निकुट्टितः ॥
ākṣiptakaḥ sa vijñeyo hyaṅgahāraḥ prayoktṛbhiḥ ।udveṣṭitāpaviddhastu karaḥ pādo nikuṭṭitaḥ ॥
NS 4.186 अनुष्टुप्
पुनस्तैनैव योगेन वामपार्श्वे भवेदथ ।उरोमण्डलकौ हस्तौ नितम्बं करिहस्तकम् ॥
punastainaiva yogena vāmapārśve bhavedatha ।uromaṇḍalakau hastau nitambaṃ karihastakam ॥
NS 4.187 अनुष्टुप्
कर्तव्यं सकटिच्छिन्नं नृत्ये तूद्धट्टिते सदा । पर्यायोद्वेष्टितौ हस्तौ पादौ चैव निकुट्टितौ ॥
kartavyaṃ sakaṭicchinnaṃ nṛtye tūddhaṭṭite sadā । paryāyodveṣṭitau hastau pādau caiva nikuṭṭitau ॥
NS 4.188 अनुष्टुप्
कुञ्चितावञ्चितौअ चैव ह्यूरूद्वृत्तं तथैव च । चतुरश्रं करं कृत्वा पादेन च निकुट्टकम् ॥
kuñcitāvañcitaua caiva hyūrūdvṛttaṃ tathaiva ca । caturaśraṃ karaṃ kṛtvā pādena ca nikuṭṭakam ॥
NS 4.189 अनुष्टुप्
भुजङ्गत्रासितं चैव करं चोद्विष्टितं पुनः । परिच्छिन्नं च कर्तव्यं त्रिकं भ्रमरकेण तु ॥
bhujaṅgatrāsitaṃ caiva karaṃ codviṣṭitaṃ punaḥ । paricchinnaṃ ca kartavyaṃ trikaṃ bhramarakeṇa tu ॥
NS 4.190 अनुष्टुप्
करिहस्तं कटिच्छिन्नं विष्कम्भे परिकीर्तितम् । दण्डपादं करं चैव विक्षिप्याक्षिप्य चैव हि ॥
karihastaṃ kaṭicchinnaṃ viṣkambhe parikīrtitam । daṇḍapādaṃ karaṃ caiva vikṣipyākṣipya caiva hi ॥
NS 4.191 अनुष्टुप्
व्यंसितं वामहस्तं च सह पादेन सर्पयेत् । निकुट्टकद्वयं कार्यमाक्षिप्तं मण्डलोरसि ॥
vyaṃsitaṃ vāmahastaṃ ca saha pādena sarpayet । nikuṭṭakadvayaṃ kāryamākṣiptaṃ maṇḍalorasi ॥
NS 4.192 अनुष्टुप्
करिहस्तं कटिच्छिन्नं कर्तव्यमपराजिते । कुट्टितं करणं कृत्वा भुजङ्गत्रासितं तथा ॥
karihastaṃ kaṭicchinnaṃ kartavyamaparājite । kuṭṭitaṃ karaṇaṃ kṛtvā bhujaṅgatrāsitaṃ tathā ॥
NS 4.193 अनुष्टुप्
रेचितेन तु हस्तेन पताकं हस्तमादिशेत् ।आक्षिप्तकं प्रयुञ्जीत ह्युरोमण्डलकं तथा ॥
recitena tu hastena patākaṃ hastamādiśet ।ākṣiptakaṃ prayuñjīta hyuromaṇḍalakaṃ tathā ॥
NS 4.194 अनुष्टुप्
लताख्यं सकटकच्छिन्नं विष्कम्भापसृते भवेत् । त्रिकं सुवलितं कृत्वा नूपुरं करणं तथा ॥
latākhyaṃ sakaṭakacchinnaṃ viṣkambhāpasṛte bhavet । trikaṃ suvalitaṃ kṛtvā nūpuraṃ karaṇaṃ tathā ॥
NS 4.195 अनुष्टुप्
भुजङ्गत्रासितं सव्यं तथा वैशाखरेचितम् ।आक्षिप्तकं ततः कृत्वा परिच्छिन्नं तथैव च ॥
bhujaṅgatrāsitaṃ savyaṃ tathā vaiśākharecitam ।ākṣiptakaṃ tataḥ kṛtvā paricchinnaṃ tathaiva ca ॥
NS 4.196 अनुष्टुप्
बाह्यभ्रमरकं कुर्यादुरोमण्डलमेव च । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥
bāhyabhramarakaṃ kuryāduromaṇḍalameva ca । nitambaṃ karihastaṃ ca kaṭicchinnaṃ tathaiva ca ॥
NS 4.197 अनुष्टुप्
मत्ताक्रीडो भवेदेष ह्यङ्गहारो हरप्रियः । रेचितं हस्तपादं च कृत्वा वृश्चिकमेव च ॥
mattākrīḍo bhavedeṣa hyaṅgahāro harapriyaḥ । recitaṃ hastapādaṃ ca kṛtvā vṛścikameva ca ॥
NS 4.198 अनुष्टुप्
पुनस्तेनैव योगेन वृश्चिकं सम्प्रयोजयेत् । निकुट्टकं तथा चैव सव्यासव्यकृतं क्रमात् ॥
punastenaiva yogena vṛścikaṃ samprayojayet । nikuṭṭakaṃ tathā caiva savyāsavyakṛtaṃ kramāt ॥
NS 4.199 अनुष्टुप्
लताख्यः सकटिच्छेदो भवेत्स्वस्तिकरेचिते । पार्श्वे तु स्वस्तिकं बद्ध्वा कार्यं त्वथ निकुट्टकम् ॥
latākhyaḥ sakaṭicchedo bhavetsvastikarecite । pārśve tu svastikaṃ baddhvā kāryaṃ tvatha nikuṭṭakam ॥
NS 4.200 अनुष्टुप्
द्वितीयस्य च पार्श्वस्य विधिः स्याद्यमेव हि । ततश्च करमावर्त्य ह्यूरूपृष्ठे निपातयेत् ॥
dvitīyasya ca pārśvasya vidhiḥ syādyameva hi । tataśca karamāvartya hyūrūpṛṣṭhe nipātayet ॥
NS 4.201 अनुष्टुप्
ऊरूद्वृत्तं ततः कुर्यादाक्षिप्तं पुनरेव हि । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥
ūrūdvṛttaṃ tataḥ kuryādākṣiptaṃ punareva hi । nitambaṃ karihastaṃ ca kaṭicchinnaṃ tathaiva ca ॥
NS 4.202 अनुष्टुप्
पार्श्वस्वस्तिक इत्येष ह्यङ्गहारः प्रकीर्तितः । वृश्चिकं करणं कृत्वा लताख्यं हस्तमेव च ॥
pārśvasvastika ityeṣa hyaṅgahāraḥ prakīrtitaḥ । vṛścikaṃ karaṇaṃ kṛtvā latākhyaṃ hastameva ca ॥
NS 4.203 अनुष्टुप्
तमेव च करं भूयो नासाग्रे सन्निकुञ्चयेत् । तमेवोद्वेष्टितं कृत्वा नितम्बं परिवर्तयेत् ॥
tameva ca karaṃ bhūyo nāsāgre sannikuñcayet । tamevodveṣṭitaṃ kṛtvā nitambaṃ parivartayet ॥
NS 4.204 अनुष्टुप्
करिहस्तं कटिच्छिन्नं वृश्चिकापसृते भवेत् । कृत्वा नूपुरपादं तु तथाक्षिप्तकमेव च ॥
karihastaṃ kaṭicchinnaṃ vṛścikāpasṛte bhavet । kṛtvā nūpurapādaṃ tu tathākṣiptakameva ca ॥
NS 4.205 अनुष्टुप्
परिच्छिन्नं च कर्तव्यं सूचीपादं तथैव च । नितम्बं करिहस्तं चाप्युरोमण्डलकं तथा ॥
paricchinnaṃ ca kartavyaṃ sūcīpādaṃ tathaiva ca । nitambaṃ karihastaṃ cāpyuromaṇḍalakaṃ tathā ॥
NS 4.106 अनुष्टुप्
कटीच्छिन्नं ततश्चैव भ्रमरः स तु संज्ञितः । मतल्लिकरणं कृत्वा करमावर्त्य दक्षिणम् ॥
kaṭīcchinnaṃ tataścaiva bhramaraḥ sa tu saṃjñitaḥ । matallikaraṇaṃ kṛtvā karamāvartya dakṣiṇam ॥
NS 4.207 अनुष्टुप्
कपोलस्य प्रदेशे तु कार्यं सम्यङ्निकुञ्चितम् ।अपविद्धं द्रुतं चैव तलसंस्फोटसंयुतम् ॥
kapolasya pradeśe tu kāryaṃ samyaṅnikuñcitam ।apaviddhaṃ drutaṃ caiva talasaṃsphoṭasaṃyutam ॥
NS 4.208 अनुष्टुप्
करिहस्तं कटिच्छिन्नं मत्तस्खलितके भवेत् । दोलैः करैः प्रचलितैः स्वस्तिकापसृतैः पदैः ॥
karihastaṃ kaṭicchinnaṃ mattaskhalitake bhavet । dolaiḥ karaiḥ pracalitaiḥ svastikāpasṛtaiḥ padaiḥ ॥
NS 4.209 अनुष्टुप्
अञ्चितैर्वलितैर्हस्तैस्तलसङ्घट्टितैस्तथा । निकुट्टितं च कर्तव्यमूरूद्वृतं तथैव च ॥
añcitairvalitairhastaistalasaṅghaṭṭitaistathā । nikuṭṭitaṃ ca kartavyamūrūdvṛtaṃ tathaiva ca ॥
← Previous (Ch. 3) Full Table of Contents Next (Ch. 5) →