Skip to main content
Search
NS
Nāṭyaśāstra • Chapter 04

Tāṇḍavalakṣaṇa

ताण्डवलक्षणम्

Comprehensive choreography of Lord Śiva's cosmic dance, enumerating and defining 108 Karaṇas (fundamental synchronized postures of hands and feet), 32 Aṅgahāras (composite movement sequences), 4 Recakas, and Piṇḍībandhas.

Total: 331 Verses • Citations: NS 4.1–331 • 31 Lexicon Terms • Page 5 of 12 (Verses 30 shown)
NS 4.120 अनुष्टुप्
प्रयोगवशगौ हस्तौ तदावर्तमुदाहृतम् । कुञ्चितं पादमुत्क्षिप्य पार्श्वात्पार्श्वं तु डोलयेत् ॥
prayogavaśagau hastau tadāvartamudāhṛtam । kuñcitaṃ pādamutkṣipya pārśvātpārśvaṃ tu ḍolayet ॥
NS 4.121 अनुष्टुप्
प्रयोगवशगौ हस्तौ डोलापादं तदुच्यते ।आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तयेत् ॥
prayogavaśagau hastau ḍolāpādaṃ taducyate ।ākṣiptaṃ hastapādaṃ ca trikaṃ caiva vivartayet ॥
NS 4.122 अनुष्टुप्
रेचितौ च तथा हस्तौ विवृत्ते करणे द्विजाः । सूचीविद्धं विधायाथ त्रिकं तु विनिवर्तयेत् ॥
recitau ca tathā hastau vivṛtte karaṇe dvijāḥ । sūcīviddhaṃ vidhāyātha trikaṃ tu vinivartayet ॥
NS 4.123 अनुष्टुप्
करौ च रेचितौ कार्यौ विनिवृत्ते द्विजोत्तमः । पार्श्वक्रान्तक्रमं कृत्वा पुरस्तादथ पातयेत् ॥
karau ca recitau kāryau vinivṛtte dvijottamaḥ । pārśvakrāntakramaṃ kṛtvā purastādatha pātayet ॥
NS 4.124 अनुष्टुप्
प्रयोगवशगौ हस्तौ पार्श्वक्रान्तं तदुच्यते । पृष्ठतः कुञ्चितः पादौ वक्षश्चैव समुन्नतम् ॥
prayogavaśagau hastau pārśvakrāntaṃ taducyate । pṛṣṭhataḥ kuñcitaḥ pādau vakṣaścaiva samunnatam ॥
NS 4.125 अनुष्टुप्
तिलके च करः स्थाप्यस्तन्निस्तम्भितमुच्यते । पृष्ठतो वलितं पादं शिरोघृष्टं प्रसारयेत् ॥
tilake ca karaḥ sthāpyastannistambhitamucyate । pṛṣṭhato valitaṃ pādaṃ śiroghṛṣṭaṃ prasārayet ॥
NS 4.126 अनुष्टुप्
सर्वतो मण्डलाविद्धं विद्युद्भ्रान्तं तदुच्यते ।अतिक्रान्तक्रमं कृत्वा पुरस्तात्संप्रसारयेत् ॥
sarvato maṇḍalāviddhaṃ vidyudbhrāntaṃ taducyate ।atikrāntakramaṃ kṛtvā purastātsaṃprasārayet ॥
NS 4.127 अनुष्टुप्
प्रयोगवशगौ हस्तावतिक्रान्ते प्रकीर्तितौ ।आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तितम् ॥
prayogavaśagau hastāvatikrānte prakīrtitau ।ākṣiptaṃ hastapādaṃ ca trikaṃ caiva vivartitam ॥
NS 4.128 अनुष्टुप्
द्वितीयो रेचितो हस्तो विवर्तितकमेव तत् । कर्णेऽञ्चितः करो वामो लताहस्तश्च दक्षिणः ॥
dvitīyo recito hasto vivartitakameva tat । karṇe'ñcitaḥ karo vāmo latāhastaśca dakṣiṇaḥ ॥
NS 4.129 अनुष्टुप्
दोलापादस्तथा चैव गजक्रीडितकं भवेत् । द्रुतमुत्क्षिप्य चरणं पुरस्तादथ पातयेत् ॥
dolāpādastathā caiva gajakrīḍitakaṃ bhavet । drutamutkṣipya caraṇaṃ purastādatha pātayet ॥
NS 4.130 अनुष्टुप्
तलसंस्फोटितौ हस्तौ तलसंस्फोटिते मतौ । पृष्ठप्रसारितः पादः लतारेचितकौ करौ ॥
talasaṃsphoṭitau hastau talasaṃsphoṭite matau । pṛṣṭhaprasāritaḥ pādaḥ latārecitakau karau ॥
NS 4.131 अनुष्टुप्
समुन्नतं शिरश्चैव गरुडप्लुतकं भवेत् । सूचिपादो नतं पार्श्वमेको वक्षःस्थितः करः ॥
samunnataṃ śiraścaiva garuḍaplutakaṃ bhavet । sūcipādo nataṃ pārśvameko vakṣaḥsthitaḥ karaḥ ॥
NS 4.132 अनुष्टुप्
द्वितीयश्चाञ्चितो गण्डे गण्डसूची तदुच्यते ।ऊर्ध्वापवेष्टितौ हस्तौ सूचीपादो विवर्तितः ॥
dvitīyaścāñcito gaṇḍe gaṇḍasūcī taducyate ।ūrdhvāpaveṣṭitau hastau sūcīpādo vivartitaḥ ॥
NS 4.133 अनुष्टुप्
परिवृत्तत्रिकं चैव परिवृत्तं तदुच्यते ।एकः समस्थितः पाद ऊरुपृष्ठे स्थितोऽपरः ॥
parivṛttatrikaṃ caiva parivṛttaṃ taducyate ।ekaḥ samasthitaḥ pāda ūrupṛṣṭhe sthito'paraḥ ॥
NS 4.134 अनुष्टुप्
मुष्टिहस्तश्च वक्षःस्थः पार्श्वजानु तदुच्यते । पृष्ठप्रसारितः पादः किञ्चितञ्चित जानुकः ॥
muṣṭihastaśca vakṣaḥsthaḥ pārśvajānu taducyate । pṛṣṭhaprasāritaḥ pādaḥ kiñcitañcita jānukaḥ ॥
NS 4.135 अनुष्टुप्
यत्र प्रसारितो बाहू तत्स्यात्गृध्रावलीनकम् ।उत्प्लुत्य चरणौ कार्यावग्रतः स्वस्तिकस्थितौ ॥
yatra prasārito bāhū tatsyātgṛdhrāvalīnakam ।utplutya caraṇau kāryāvagrataḥ svastikasthitau ॥
NS 4.136 अनुष्टुप्
सन्नतौ च तथा हस्तौ सन्नतं तदुदाहृतम् । कुञ्चितं पादमुत्क्षिप्य कुर्यादग्रस्थितं भुवि ॥
sannatau ca tathā hastau sannataṃ tadudāhṛtam । kuñcitaṃ pādamutkṣipya kuryādagrasthitaṃ bhuvi ॥
NS 4.137 अनुष्टुप्
प्रयोगवशगौ हस्तौ सा सूची परिकीर्तिता ।अलपद्मः शिरोहस्तः सूचीपादश्च दक्षिणः ॥
prayogavaśagau hastau sā sūcī parikīrtitā ।alapadmaḥ śirohastaḥ sūcīpādaśca dakṣiṇaḥ ॥
NS 4.138 अनुष्टुप्
यत्र तत्करणं ज्ञेअयमर्धसूचीति नामतः । पादसूच्या यदा पादो द्वितीयस्तु प्रविध्यते ॥
yatra tatkaraṇaṃ jñeayamardhasūcīti nāmataḥ । pādasūcyā yadā pādo dvitīyastu pravidhyate ॥
NS 4.139 अनुष्टुप्
कटिवक्षःस्थितौ हस्तौ सूचीविधं तदुच्यते । कृत्वोरुवलितं पादमपक्रान्तक्रमं न्यसेत् ॥
kaṭivakṣaḥsthitau hastau sūcīvidhaṃ taducyate । kṛtvoruvalitaṃ pādamapakrāntakramaṃ nyaset ॥
NS 4.140 अनुष्टुप्
प्रयोगवशगौ हस्तवपक्रान्तं तदुच्यते । वृश्चिकं चरणं कृत्वा रेचितौ च तथा करौ ॥
prayogavaśagau hastavapakrāntaṃ taducyate । vṛścikaṃ caraṇaṃ kṛtvā recitau ca tathā karau ॥
NS 4.141 अनुष्टुप्
तथा त्रिकं विवृत्तं च मयूरललितं भवेत् ।अञ्चितापसृतौ पादौ शिरश्च परिवाहितम् ॥
tathā trikaṃ vivṛttaṃ ca mayūralalitaṃ bhavet ।añcitāpasṛtau pādau śiraśca parivāhitam ॥
NS 4.142 अनुष्टुप्
रेचितौ च तथा हस्तौ तत्सर्पितमुदाहृतम् । नूपुरं चरणं कृत्वा दण्डपादं प्रसारयेत् ॥
recitau ca tathā hastau tatsarpitamudāhṛtam । nūpuraṃ caraṇaṃ kṛtvā daṇḍapādaṃ prasārayet ॥
NS 4.143 अनुष्टुप्
क्षिप्राविद्धकरं चैव दण्डपादं तदुच्यते ।अतिक्रान्तक्रमं कृत्वा समुत्प्लुत्य निपातयेत् ॥
kṣiprāviddhakaraṃ caiva daṇḍapādaṃ taducyate ।atikrāntakramaṃ kṛtvā samutplutya nipātayet ॥
NS 4.144 अनुष्टुप् (Anuṣṭubh)
जङ्घाञ्चितोपरि क्षिप्ता तद्विद्याद्धरिणप्लुतम् । (सेए थे च्लुस्तेर्ङ्घा।आ नेव्लिगतुरे मय्बे अद्देद्तो रेप्रेसेन्त्थिस्च्लुस्तेर्) डोलापादक्रमं कृत्वा समुत्प्लुत्य निपातयेत् ॥
jaṅghāñcitopari kṣiptā tadvidyāddhariṇaplutam । (see the clusterṅghā।ā nevligature maybe addedto representthiscluster) ḍolāpādakramaṃ kṛtvā samutplutya nipātayet ॥
NS 4.145 अनुष्टुप्
परिवृत्तत्रिकं चैव तत्प्रेङ्खोलितमुच्यते । भुजावूर्ध्वविनिष्क्रान्तौ हस्तौ चाभिमुखाङ्गुली ॥
parivṛttatrikaṃ caiva tatpreṅkholitamucyate । bhujāvūrdhvaviniṣkrāntau hastau cābhimukhāṅgulī ॥
NS 4.146 अनुष्टुप् (Anuṣṭubh)
बद्धा चारी तथ चैव नितम्बे करणे भवेत् । दोलापादक्रमं कृत्वा हस्तौ तदनुगावुभौअ ॥
baddhā cārī tatha caiva nitambe karaṇe bhavet । dolāpādakramaṃ kṛtvā hastau tadanugāvubhaua ॥
NS 4.147 अनुष्टुप्
रेचितौ घूर्णितौ वापि स्खलितं करणं भवेत् ।एको वक्षःस्थितो हस्तः प्रोद्वेष्टिततलोऽपरः ॥
recitau ghūrṇitau vāpi skhalitaṃ karaṇaṃ bhavet ।eko vakṣaḥsthito hastaḥ prodveṣṭitatalo'paraḥ ॥
NS 4.148 अनुष्टुप्
अञ्चितश्चरणश्चैव प्रयोज्यः करिहस्तके ।एकस्तु रेचितो हस्तो लताख्यस्तु तथा परः ॥
añcitaścaraṇaścaiva prayojyaḥ karihastake ।ekastu recito hasto latākhyastu tathā paraḥ ॥
NS 4.149 अनुष्टुप्
प्रसर्पिततलौ पादौ प्रसर्पितकमेव तत् ।अलातं च पुरःकृत्वा द्वितीयं च द्रुतक्रमम् ॥
prasarpitatalau pādau prasarpitakameva tat ।alātaṃ ca puraḥkṛtvā dvitīyaṃ ca drutakramam ॥
← Previous (Ch. 3) Full Table of Contents Next (Ch. 5) →