Skip to main content
Search
NS
Nāṭyaśāstra • Chapter 04

Tāṇḍavalakṣaṇa

ताण्डवलक्षणम्

Comprehensive choreography of Lord Śiva's cosmic dance, enumerating and defining 108 Karaṇas (fundamental synchronized postures of hands and feet), 32 Aṅgahāras (composite movement sequences), 4 Recakas, and Piṇḍībandhas.

Total: 331 Verses • Citations: NS 4.1–331 • 31 Lexicon Terms • Page 8 of 12 (Verses 30 shown)
NS 4.210 अनुष्टुप्
करिहस्तं कटिच्छिन्नं मदाद्विलसिते भवेत् । मण्डलं स्थानकं कृत्वा तथा हस्तौ च रेचितौ ॥
karihastaṃ kaṭicchinnaṃ madādvilasite bhavet । maṇḍalaṃ sthānakaṃ kṛtvā tathā hastau ca recitau ॥
NS 4.211 अनुष्टुप्
उद्घट्टितेन पादेन मत्तल्लिकरणं भवेत् ।आक्षिप्तं करणं चैव ह्युरोमण्डलमेव च ॥
udghaṭṭitena pādena mattallikaraṇaṃ bhavet ।ākṣiptaṃ karaṇaṃ caiva hyuromaṇḍalameva ca ॥
NS 4.212 अनुष्टुप्
कटिच्छिन्नं तथा चैव भवेत्तु गतिमण्डले । समपादं प्रयुज्याथ परिच्छिन्नं त्वनन्तरम् ॥
kaṭicchinnaṃ tathā caiva bhavettu gatimaṇḍale । samapādaṃ prayujyātha paricchinnaṃ tvanantaram ॥
NS 4.213 अनुष्टुप्
आविद्धेन तु पादेन बाह्यभ्रमरकं तथा । वामसूच्या त्वतिक्रान्तं भुजङ्गत्रासितं तथा ॥
āviddhena tu pādena bāhyabhramarakaṃ tathā । vāmasūcyā tvatikrāntaṃ bhujaṅgatrāsitaṃ tathā ॥
NS 4.214 अनुष्टुप्
करिहस्तं कटिच्छिन्नं परिच्छिन्ने विधीयते । शिरसस्तूपरि स्थाप्यौ स्वस्तिअकौ विच्युतौ करौ ॥
karihastaṃ kaṭicchinnaṃ paricchinne vidhīyate । śirasastūpari sthāpyau svastiakau vicyutau karau ॥
NS 4.215 अनुष्टुप्
ततः सव्यं करं चापि गात्रमानम्य रेचयेत् । पुनरुत्थापयेत्तत्र गात्रमुन्नम्य रेचितम् ॥
tataḥ savyaṃ karaṃ cāpi gātramānamya recayet । punarutthāpayettatra gātramunnamya recitam ॥
NS 4.216 अनुष्टुप्
लताख्यौ च करौ कृत्वा वृश्चिकं सम्प्रयोजयेत् । रेचितं करिहस्तं च भुजङ्गत्रासितं तथा ॥
latākhyau ca karau kṛtvā vṛścikaṃ samprayojayet । recitaṃ karihastaṃ ca bhujaṅgatrāsitaṃ tathā ॥
NS 4.217 अनुष्टुप्
आक्षिप्तकं प्रयुञ्जीत स्वस्तिकं पादमेव च । पराङ्ग्मुखविधिर्भूय एवमेव भवेदिह ॥
ākṣiptakaṃ prayuñjīta svastikaṃ pādameva ca । parāṅgmukhavidhirbhūya evameva bhavediha ॥
NS 4.218 अनुष्टुप्
करिहस्तं कटिच्छिन्नं परिवृत्तकरेचितेए । रेचितौ सह गात्रेण ह्यपविद्धौ करौ यदा ॥
karihastaṃ kaṭicchinnaṃ parivṛttakarecitee । recitau saha gātreṇa hyapaviddhau karau yadā ॥
NS 4.219 अनुष्टुप्
पुनस्तेनैव देशेन गात्रमुन्नम्य रेचयेत् । कुर्यान्नूपुरपादं च भुजङ्गत्रासितं तथा ॥
punastenaiva deśena gātramunnamya recayet । kuryānnūpurapādaṃ ca bhujaṅgatrāsitaṃ tathā ॥
NS 4.220 अनुष्टुप्
रेचितं मण्डलं चैव बाहुशीर्षे निकुञ्चयेत् ।ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च ॥
recitaṃ maṇḍalaṃ caiva bāhuśīrṣe nikuñcayet ।ūrūdvṛttaṃ tathākṣiptamuromaṇḍalameva ca ॥
NS 4.221 अनुष्टुप्
करिहस्तं कटिच्छिन्नं कुर्याद्वैशाखरेचिते ।आद्यं तु जनितं कृत्वा पादमेकं प्रसारयेत् ॥
karihastaṃ kaṭicchinnaṃ kuryādvaiśākharecite ।ādyaṃ tu janitaṃ kṛtvā pādamekaṃ prasārayet ॥
NS 4.222 अनुष्टुप्
तथैवालातकं कुर्यात्त्रिकं तु परिवर्तयेत् ।अञ्चितं वामहस्तं च गण्डदेशे निकुट्टयेत् ॥
tathaivālātakaṃ kuryāttrikaṃ tu parivartayet ।añcitaṃ vāmahastaṃ ca gaṇḍadeśe nikuṭṭayet ॥
NS 4.223 अनुष्टुप्
कटिच्छिन्नं तथा चैव परावृत्ते प्रयोजयेत् । स्वस्तिकं करणं कृत्वा व्यंसितौ च करौ पुनः ॥
kaṭicchinnaṃ tathā caiva parāvṛtte prayojayet । svastikaṃ karaṇaṃ kṛtvā vyaṃsitau ca karau punaḥ ॥
NS 4.224 अनुष्टुप्
अलातकं प्रयुञ्जीत ह्यूर्ध्वजानु निकुञ्चितम् ।अर्धसूची च विक्षिप्तमुद्वृत्ताक्षिप्तके तथा ॥
alātakaṃ prayuñjīta hyūrdhvajānu nikuñcitam ।ardhasūcī ca vikṣiptamudvṛttākṣiptake tathā ॥
NS 4.225 अनुष्टुप्
करिहस्तं कटिच्छिन्नमङ्गहारे ह्यलातके । निकुट्य वक्षसि करावूर्ध्वजानु प्रयोजयेत् ॥
karihastaṃ kaṭicchinnamaṅgahāre hyalātake । nikuṭya vakṣasi karāvūrdhvajānu prayojayet ॥
NS 4.226 अनुष्टुप्
आक्षिप्तस्वस्तिकं कृत्वा त्रिकं तु परिवर्तयेत् ।उरोमण्डलकौ हस्तौ नितम्बं करिहस्तकम् ॥
ākṣiptasvastikaṃ kṛtvā trikaṃ tu parivartayet ।uromaṇḍalakau hastau nitambaṃ karihastakam ॥
NS 4.227 अनुष्टुप्
कटिच्छिन्नं तथा चैव पार्श्वच्छेदे विधीयते । सूचीवामपदं दध्याद्विद्युद्भ्रान्तं च दक्षिणम् ॥
kaṭicchinnaṃ tathā caiva pārśvacchede vidhīyate । sūcīvāmapadaṃ dadhyādvidyudbhrāntaṃ ca dakṣiṇam ॥
NS 4.228 अनुष्टुप्
दक्षिणेन पुनः सूची विद्युद्भ्रान्तं च वामतः । परिच्छिन्नं तथा चैव ह्यतिक्रान्तं च वामकम् ॥
dakṣiṇena punaḥ sūcī vidyudbhrāntaṃ ca vāmataḥ । paricchinnaṃ tathā caiva hyatikrāntaṃ ca vāmakam ॥
NS 4.229 अनुष्टुप्
लताख्यं सकटिच्छिन्नं विद्युद्भ्रान्तश्च स स्मृतः । कृत्वा नूपुरपादं तु सव्यवामौ प्रलम्बितौ ॥
latākhyaṃ sakaṭicchinnaṃ vidyudbhrāntaśca sa smṛtaḥ । kṛtvā nūpurapādaṃ tu savyavāmau pralambitau ॥
NS 4.230 अनुष्टुप्
करौ पार्श्वे ततस्ताभ्यां विक्षिप्तं सम्प्रयोजयेत् । ताभ्यां सूची तथा चैव त्रिकं तु परिवर्तयेत् ॥
karau pārśve tatastābhyāṃ vikṣiptaṃ samprayojayet । tābhyāṃ sūcī tathā caiva trikaṃ tu parivartayet ॥
NS 4.231 अनुष्टुप्
लताख्यं सकटिच्छिन्नं कुर्तादुद्वृत्तके सदा ।आलीढव्यंसितौ हस्तौ बाहुशीर्षे निकुट्टयेत् ॥
latākhyaṃ sakaṭicchinnaṃ kurtādudvṛttake sadā ।ālīḍhavyaṃsitau hastau bāhuśīrṣe nikuṭṭayet ॥
NS 4.232 अनुष्टुप्
नूपुरश्चरणो वामस्तथालातश्च दक्षिणः । तेनैवाक्षिप्तकं कुर्यादुरोमण्डलकौ करौ ॥
nūpuraścaraṇo vāmastathālātaśca dakṣiṇaḥ । tenaivākṣiptakaṃ kuryāduromaṇḍalakau karau ॥
NS 4.233 अनुष्टुप्
करिहस्तं कटिच्छिन्नमालीढे सम्प्रयोजयेत् । हस्तं तु रेचितं कृत्वा पार्श्वमानस्य रेचयेत् ॥
karihastaṃ kaṭicchinnamālīḍhe samprayojayet । hastaṃ tu recitaṃ kṛtvā pārśvamānasya recayet ॥
NS 4.234 अनुष्टुप्
पुनस्तेनैव योगेन गात्रमानस्य रेचयेत् । रेचितं करणं कार्यमुरोमण्डलमेव च ॥
punastenaiva yogena gātramānasya recayet । recitaṃ karaṇaṃ kāryamuromaṇḍalameva ca ॥
NS 4.235 अनुष्टुप्
कटिच्छिन्नं तु कर्तव्यमङ्गहारे तु रेचिते । नूपुरं चरणं कृत्वा त्रिकं तु परिवर्तयेत् ॥
kaṭicchinnaṃ tu kartavyamaṅgahāre tu recite । nūpuraṃ caraṇaṃ kṛtvā trikaṃ tu parivartayet ॥
NS 4.236 अनुष्टुप्
व्यंसितेन तु हस्तेन त्रिकमेव विवर्तयेत् । वामं चालातकं कृत्वा सूचीमत्रैव योजयेत् ॥
vyaṃsitena tu hastena trikameva vivartayet । vāmaṃ cālātakaṃ kṛtvā sūcīmatraiva yojayet ॥
NS 4.237 अनुष्टुप्
करिहस्तं कटिच्छिन्नं कुर्यादाच्छुरिते सदा । रेचितौ स्वस्तिकौ पादौ रेचितौ स्वस्तिकौ करौ ॥
karihastaṃ kaṭicchinnaṃ kuryādācchurite sadā । recitau svastikau pādau recitau svastikau karau ॥
NS 4.238 अनुष्टुप्
कृत्वा विश्लेषमेवं तु तेनैव विधिना पुनः । पुनरुत्क्षेपणं चैव रेचितैरेव कारयेत् ॥
kṛtvā viśleṣamevaṃ tu tenaiva vidhinā punaḥ । punarutkṣepaṇaṃ caiva recitaireva kārayet ॥
NS 4.239 अनुष्टुप्
उद्वृत्ताक्षिप्तके चैव ह्युरोमण्डलमेव च । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥
udvṛttākṣiptake caiva hyuromaṇḍalameva ca । nitambaṃ karihastaṃ ca kaṭicchinnaṃ tathaiva ca ॥
← Previous (Ch. 3) Full Table of Contents Next (Ch. 5) →