अथ तृतीयोध्यायः
atha tṛtīyodhyāyaḥ
सर्वलक्षणसंपन्ने कृते नाट्यगृहे शुभे । गावो वसेयुः सप्ताहं सह जप्यपरैर्द्विजैः ॥
sarvalakṣaṇasaṃpanne kṛte nāṭyagṛhe śubhe । gāvo vaseyuḥ saptāhaṃ saha japyaparairdvijaiḥ ॥
ततोऽधिवासयेद्वेश्म रङ्गपीठं तथैव च । मन्त्रपूतेन तोयेन प्रोक्षिताङ्गो निशागमे ॥
tato'dhivāsayedveśma raṅgapīṭhaṃ tathaiva ca । mantrapūtena toyena prokṣitāṅgo niśāgame ॥
यथास्थानान्तरगतो दीक्षितः प्रयतः शुचिः । त्रिरात्रोपोषितो भूत्वा नाट्याचार्योऽहताम्बरः ॥
yathāsthānāntaragato dīkṣitaḥ prayataḥ śuciḥ । trirātropoṣito bhūtvā nāṭyācāryo'hatāmbaraḥ ॥
नमस्कृत्य महादेवं सर्वलोकोद्भवं भवम् । जगत्पितामहं चैव विष्णुमिन्द्रं गुहं तथा ॥
namaskṛtya mahādevaṃ sarvalokodbhavaṃ bhavam । jagatpitāmahaṃ caiva viṣṇumindraṃ guhaṃ tathā ॥
सरस्वतीं च लक्ष्मीं च सिद्धिं मेधां धृतिं स्मृतिम् । सोमं सूर्यं च मरुतो लोकपालांस्तथाश्विनौ ॥
sarasvatīṃ ca lakṣmīṃ ca siddhiṃ medhāṃ dhṛtiṃ smṛtim । somaṃ sūryaṃ ca maruto lokapālāṃstathāśvinau ॥
मित्रमग्निं सुरान्वर्णान्रुद्रान्कालं कलिं तथा । मृत्युं च नियतिं चैव कालदण्डं तथैव च ॥
mitramagniṃ surānvarṇānrudrānkālaṃ kaliṃ tathā । mṛtyuṃ ca niyatiṃ caiva kāladaṇḍaṃ tathaiva ca ॥
विष्णुप्रहरणं चैव नागराजं च वासुकिम् । वज्रं विद्युत्समुद्रांश्च गन्धर्वाप्सरसो मुनीन् ॥
viṣṇupraharaṇaṃ caiva nāgarājaṃ ca vāsukim । vajraṃ vidyutsamudrāṃśca gandharvāpsaraso munīn ॥
भूतान्पिशाचान्यक्षांश्च गुह्यकांश्च महेश्वरान् ।असुरान्नाट्यविघ्नांश्च तथाऽन्यान्दैत्यराक्षसान् ॥
bhūtānpiśācānyakṣāṃśca guhyakāṃśca maheśvarān ।asurānnāṭyavighnāṃśca tathā'nyāndaityarākṣasān ॥
तथा नाट्यकुमारीश्च महाग्रामण्यमेव च । यक्षांश्च गुह्यकांश्चैव भूतसङ्घास्तथैव च ॥
tathā nāṭyakumārīśca mahāgrāmaṇyameva ca । yakṣāṃśca guhyakāṃścaiva bhūtasaṅghāstathaiva ca ॥
एतांश्चान्यांश्च देवर्षीन्प्रणम्य रचिताञ्जलिः । यथास्थानान्तरगतान्समावाह्य ततो वदेत् ॥
etāṃścānyāṃśca devarṣīnpraṇamya racitāñjaliḥ । yathāsthānāntaragatānsamāvāhya tato vadet ॥
भवद्भिर्नो निशायां तु कर्तव्यः सम्परिग्रहः । साहाय्यं चैव दातव्यमस्मिन्नाट्ये सहानुगैः ॥
bhavadbhirno niśāyāṃ tu kartavyaḥ samparigrahaḥ । sāhāyyaṃ caiva dātavyamasminnāṭye sahānugaiḥ ॥
सम्पूज्य सर्वानेकत्र कुतपं सम्प्रयुज्य च । जर्जराय प्रयुञ्जीत पूजां नाट्यप्रसिद्धये ॥
sampūjya sarvānekatra kutapaṃ samprayujya ca । jarjarāya prayuñjīta pūjāṃ nāṭyaprasiddhaye ॥
त्वं महेन्द्रप्रहरणं सर्वदानवसूदनम् । निर्मितस्सर्वदेवैश्च सर्वविघ्ननिबर्हण ॥
tvaṃ mahendrapraharaṇaṃ sarvadānavasūdanam । nirmitassarvadevaiśca sarvavighnanibarhaṇa ॥
नृपस्य विजयं शंस रिपूणां च पराजयम् । गोब्राह्मणशिवं चैव नाट्यस्य च विवर्धनम् ॥
nṛpasya vijayaṃ śaṃsa ripūṇāṃ ca parājayam । gobrāhmaṇaśivaṃ caiva nāṭyasya ca vivardhanam ॥
एवं कृत्वा यथान्यायमुपास्यं नाट्यमण्डपे । निशायां तु प्रभातायां पूजनं प्रक्रमेदिह ॥
evaṃ kṛtvā yathānyāyamupāsyaṃ nāṭyamaṇḍape । niśāyāṃ tu prabhātāyāṃ pūjanaṃ prakramediha ॥
आर्द्रायां वा मघायां वा याम्ये पूर्वेषु वा त्रिषु ।आश्लेषामूलयोर्वापि कर्तव्यं रङ्गपूजनम् ॥
ārdrāyāṃ vā maghāyāṃ vā yāmye pūrveṣu vā triṣu ।āśleṣāmūlayorvāpi kartavyaṃ raṅgapūjanam ॥
आचार्येण तु युक्तेन शुचिना दीक्षितेन च । रङ्गस्योद्योतनं कार्यं देवतानां च पूजनम् ॥
ācāryeṇa tu yuktena śucinā dīkṣitena ca । raṅgasyodyotanaṃ kāryaṃ devatānāṃ ca pūjanam ॥
दिनान्ते दारुणे घोरे मुहूर्ते यमदैवते ।आचम्य तु यथान्यायं देवता वै निवेशयत् ॥
dinānte dāruṇe ghore muhūrte yamadaivate ।ācamya tu yathānyāyaṃ devatā vai niveśayat ॥
रक्ताः प्रतिसराः सूत्रं रक्तगन्धाश्च पूजिताः । रक्ताः सुमनसश्चैव यच्च रक्तं फलं भवेत् ॥
raktāḥ pratisarāḥ sūtraṃ raktagandhāśca pūjitāḥ । raktāḥ sumanasaścaiva yacca raktaṃ phalaṃ bhavet ॥
यवैस्सिद्धार्थकैर्लाजैरक्षतैः शालितण्डुलैः । नागपुष्पस्य चूर्णेन वितुषाभिः प्रियङ्गुभिः ॥
yavaissiddhārthakairlājairakṣataiḥ śālitaṇḍulaiḥ । nāgapuṣpasya cūrṇena vituṣābhiḥ priyaṅgubhiḥ ॥
एतैर्द्रव्यैर्युतं कुर्याद्देवतानां निवेशनम् ।आलिखेन्मण्डलं पूर्वं यथास्थानं यथाविधिः ॥
etairdravyairyutaṃ kuryāddevatānāṃ niveśanam ।ālikhenmaṇḍalaṃ pūrvaṃ yathāsthānaṃ yathāvidhiḥ ॥
समन्तस्तश्च कर्तव्यं हस्ता षोडश मण्डलम् । द्वाराणि चात्र कुर्वीत विधानेन चतुर्दिशम् ॥
samantastaśca kartavyaṃ hastā ṣoḍaśa maṇḍalam । dvārāṇi cātra kurvīta vidhānena caturdiśam ॥
मध्ये चैवात्र कर्तव्ये द्वे रेखे तिर्यगूर्ध्वगे । तयोः कक्ष्याविभागेन दैवतानि निवेशयत् ॥
madhye caivātra kartavye dve rekhe tiryagūrdhvage । tayoḥ kakṣyāvibhāgena daivatāni niveśayat ॥
पद्मोपविष्टं ब्रह्माणं तस्य मध्ये निवेशयेत् ।आदौ निवेश्यो भगवान्सार्धं भूतगणैः शिवः ॥
padmopaviṣṭaṃ brahmāṇaṃ tasya madhye niveśayet ।ādau niveśyo bhagavānsārdhaṃ bhūtagaṇaiḥ śivaḥ ॥
नारायणो महेन्द्रश्च स्कन्दः सूर्योऽश्विनौ शशी । सरस्वती च लक्ष्मीश्च श्रद्धा मेधा च पूर्वतः ॥
nārāyaṇo mahendraśca skandaḥ sūryo'śvinau śaśī । sarasvatī ca lakṣmīśca śraddhā medhā ca pūrvataḥ ॥
पूर्वदक्षिणतो वह्निर्निवेश्यः स्वाहया सह । विश्वेदेवाः सगन्धर्वा रुद्राः सर्पगणास्तथा ॥
pūrvadakṣiṇato vahnirniveśyaḥ svāhayā saha । viśvedevāḥ sagandharvā rudrāḥ sarpagaṇāstathā ॥
दक्षिणेन निवेश्यस्तु यमो मित्रश्च सानुगः । पितॄन्पिशाचानुरगान्गुह्यकांश्च निवेशयत् ॥
dakṣiṇena niveśyastu yamo mitraśca sānugaḥ । pitṝnpiśācānuragānguhyakāṃśca niveśayat ॥
नैॠत्यां राक्षसांश्चैव भूतानि च निवेशयत् । पश्चिमायां समुद्रांश्च वरुणं यादसां पतिम् ॥
naiṝtyāṃ rākṣasāṃścaiva bhūtāni ca niveśayat । paścimāyāṃ samudrāṃśca varuṇaṃ yādasāṃ patim ॥
वायव्यायां दिशि तथा सप्त वायून्निवेशयेत् । तत्रैव विनिवेश्यस्तु गरुडः पक्षिभिः सह ॥
vāyavyāyāṃ diśi tathā sapta vāyūnniveśayet । tatraiva viniveśyastu garuḍaḥ pakṣibhiḥ saha ॥