होमं कृत्वा यथान्यायं हविर्मन्त्रपुरस्कृतम् । भिन्द्यात्कुम्भं ततश्चैव नाट्याचार्यः प्रयत्नतः ॥
homaṃ kṛtvā yathānyāyaṃ havirmantrapuraskṛtam । bhindyātkumbhaṃ tataścaiva nāṭyācāryaḥ prayatnataḥ ॥
अभिन्ने तु भवेत्कुम्भे स्वामिनः शत्रुतो भयम् । भिन्ने चैव तु विज्ञेयः स्वामिनः शत्रुसंक्षयः ॥
abhinne tu bhavetkumbhe svāminaḥ śatruto bhayam । bhinne caiva tu vijñeyaḥ svāminaḥ śatrusaṃkṣayaḥ ॥
भिन्ने कुम्भे ततश्चैव नाट्यचार्यः प्रयत्नतः । प्रगृह्य दीपिकां दीप्तां सर्वं रङ्गं प्रदीपयेत् ॥
bhinne kumbhe tataścaiva nāṭyacāryaḥ prayatnataḥ । pragṛhya dīpikāṃ dīptāṃ sarvaṃ raṅgaṃ pradīpayet ॥
क्ष्वेडितैः स्फोटितैश्चैव वल्गितैश्च प्रधावितैः । रङ्गमध्ये तु तां दीप्तां सशब्दां सम्प्रयोजयेत् ॥
kṣveḍitaiḥ sphoṭitaiścaiva valgitaiśca pradhāvitaiḥ । raṅgamadhye tu tāṃ dīptāṃ saśabdāṃ samprayojayet ॥
शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गपणवैस्तथा । सर्वातोद्यैः प्रणदितै रङ्गे युद्धानि कारयेत् ॥
śaṅkhadundubhinirghoṣairmṛdaṅgapaṇavaistathā । sarvātodyaiḥ praṇaditai raṅge yuddhāni kārayet ॥
तत्र च्छिन्नं व भिन्नं च दारितं च सशोणितम् । क्षतं प्रदीप्तमायस्तं निमित्तं सिद्धिलक्षणम् ॥
tatra cchinnaṃ va bhinnaṃ ca dāritaṃ ca saśoṇitam । kṣataṃ pradīptamāyastaṃ nimittaṃ siddhilakṣaṇam ॥
सम्यगिष्टस्तु रङ्गो वै स्वामिनः शुभमावहेत् । पुरस्याबालवृद्धस्य तथा जानपदस्य च ॥
samyagiṣṭastu raṅgo vai svāminaḥ śubhamāvahet । purasyābālavṛddhasya tathā jānapadasya ca ॥
दुरिष्टस्तु तथा रङ्गो दैवतैर्दुरधिष्ठितः । नाट्यविध्वसनं कुर्यान्नृपस्य च तथाऽशुभम् ॥
duriṣṭastu tathā raṅgo daivatairduradhiṣṭhitaḥ । nāṭyavidhvasanaṃ kuryānnṛpasya ca tathā'śubham ॥
य एवं विधिमुत्सृज्य यथेष्टं सम्प्रयोजयेत् । प्राप्नोत्यपचयं शीघ्रं तिर्यग्योनिं च गच्छति ॥
ya evaṃ vidhimutsṛjya yatheṣṭaṃ samprayojayet । prāpnotyapacayaṃ śīghraṃ tiryagyoniṃ ca gacchati ॥
यज्ञेन सम्मितं ह्येतद्रङ्गदैवतपूजनम् ।अपूजयित्वा रङ्गं तु नैव प्रेक्षां प्रयोजयेत् ॥
yajñena sammitaṃ hyetadraṅgadaivatapūjanam ।apūjayitvā raṅgaṃ tu naiva prekṣāṃ prayojayet ॥
पूजिताः पूजयन्त्येते मानिता मानयन्ति च । तस्मात्सर्वप्रयत्नेन कर्तव्यं रङ्गपूजनम् ॥
pūjitāḥ pūjayantyete mānitā mānayanti ca । tasmātsarvaprayatnena kartavyaṃ raṅgapūjanam ॥
न तथा प्रदहत्यग्निः प्रभञ्जनसमीरितः । यथा ह्यपप्रयोगस्तु प्रयुक्तो दहति क्षणात् ॥
na tathā pradahatyagniḥ prabhañjanasamīritaḥ । yathā hyapaprayogastu prayukto dahati kṣaṇāt ॥
शास्त्रज्ञेन विनीतेन शुचिना दीक्षितेन च । नाट्याचार्येण शान्तेन कर्तव्यं रङ्गपूजनम् ॥
śāstrajñena vinītena śucinā dīkṣitena ca । nāṭyācāryeṇa śāntena kartavyaṃ raṅgapūjanam ॥
स्थानभ्रष्टं तु यो दद्याद्बलिमुद्विग्नमानसः । मन्त्रहीनो यथा होता प्रायश्चित्ती भवेत्तु सः ॥
sthānabhraṣṭaṃ tu yo dadyādbalimudvignamānasaḥ । mantrahīno yathā hotā prāyaścittī bhavettu saḥ ॥
इत्ययं यो विधिर्दृष्टो रङ्गदैवतपूजने । नवे नाट्यगृहे कार्यः प्रेक्षायां च प्रयोक्तृभिः ॥
ityayaṃ yo vidhirdṛṣṭo raṅgadaivatapūjane । nave nāṭyagṛhe kāryaḥ prekṣāyāṃ ca prayoktṛbhiḥ ॥
इति भारतीये नाट्यशास्त्रे रङ्गदैवतपूजनं नाम तृतीयोऽध्यायः समाप्तः
iti bhāratīye nāṭyaśāstre raṅgadaivatapūjanaṃ nāma tṛtīyo'dhyāyaḥ samāptaḥ