हस्तौ पादानुगौ चापि सिंहविक्रीडिते स्मृतौ । पृष्ठप्रसर्पितः पादस्तथा हस्तौ निकुञ्चितौ ॥
hastau pādānugau cāpi siṃhavikrīḍite smṛtau । pṛṣṭhaprasarpitaḥ pādastathā hastau nikuñcitau ॥
पुनस्तथैव कर्तव्यौ सिंहाकर्ष्तके द्विजाः ।आक्षिप्तहस्तमाक्षिप्तदेहमाक्षिप्तपादकम् ॥
punastathaiva kartavyau siṃhākarṣtake dvijāḥ ।ākṣiptahastamākṣiptadehamākṣiptapādakam ॥
अद्वृत्तगात्रमित्येतदुद्वृतां करणं स्मृतम् ।आक्षिप्तचरणश्चैको हस्तौ तस्यैव चानुगौ ॥
advṛttagātramityetadudvṛtāṃ karaṇaṃ smṛtam ।ākṣiptacaraṇaścaiko hastau tasyaiva cānugau ॥
आनतं च तथ गात्रं तयोपसृतकं भवेत् । दोलापादक्रमं कृत्वा तलसङ्घट्टितौ करौ ॥
ānataṃ ca tatha gātraṃ tayopasṛtakaṃ bhavet । dolāpādakramaṃ kṛtvā talasaṅghaṭṭitau karau ॥
रेचयेच्च करं वामं तलसङ्घट्टिते सदा ।एको वक्षःस्थितो हस्तो द्व्तीयश्च प्रलम्बितः ॥
recayecca karaṃ vāmaṃ talasaṅghaṭṭite sadā ।eko vakṣaḥsthito hasto dvtīyaśca pralambitaḥ ॥
तलाग्रसंस्थितः पादो जनिते करणे भवेत् । जनितं करणं कृत्वा हस्तौ चाभिमुखाङ्गुली ॥
talāgrasaṃsthitaḥ pādo janite karaṇe bhavet । janitaṃ karaṇaṃ kṛtvā hastau cābhimukhāṅgulī ॥
शनैर्निपतितो चैव ज्ञेयं तदवहित्थकम् । करौ वक्षःस्थितौ कार्यावुरौ निर्भुग्नमेव च ॥
śanairnipatito caiva jñeyaṃ tadavahitthakam । karau vakṣaḥsthitau kāryāvurau nirbhugnameva ca ॥
मण्डलस्थानकं चैव निवेशं करणं तु तत् । तलसञ्चरपादाभ्यामुत्प्लुत्य पतनं भवेत् ॥
maṇḍalasthānakaṃ caiva niveśaṃ karaṇaṃ tu tat । talasañcarapādābhyāmutplutya patanaṃ bhavet ॥
संनतं वलितं गात्रमेलकाक्रीडितं तु तत् । करमावृत्तकरणमूरुपृष्ठेऽञ्चितं न्यसेत् ॥
saṃnataṃ valitaṃ gātramelakākrīḍitaṃ tu tat । karamāvṛttakaraṇamūrupṛṣṭhe'ñcitaṃ nyaset ॥
जङ्घाञ्चिता तथोद्वृत्ता ह्यूरूद्वृत्तं तु तद्भवेत् । करौ प्रलम्बितौ कार्यो शिरश्च परिवाहितम् ॥
jaṅghāñcitā tathodvṛttā hyūrūdvṛttaṃ tu tadbhavet । karau pralambitau kāryo śiraśca parivāhitam ॥
पादौ च वलिताविध्दौअ मदस्खलितके द्विजाः । पुरः प्रसारितः पादः कुञ्चितो गगनोन्मुखः ॥
pādau ca valitāvidhdaua madaskhalitake dvijāḥ । puraḥ prasāritaḥ pādaḥ kuñcito gaganonmukhaḥ ॥
करौ च रेचितौ यत्र विष्णुक्रान्तं तदुच्यते । करमावर्तितं कृत्वा ह्यूरुपृष्ठे निकुञ्चयेत् ॥
karau ca recitau yatra viṣṇukrāntaṃ taducyate । karamāvartitaṃ kṛtvā hyūrupṛṣṭhe nikuñcayet ॥
ऊरुश्चैव तथाविद्धः सम्भ्रान्तं करणं तु तत् ।अपविद्धः करः सूच्या पादश्चैव निकुट्टितः ॥
ūruścaiva tathāviddhaḥ sambhrāntaṃ karaṇaṃ tu tat ।apaviddhaḥ karaḥ sūcyā pādaścaiva nikuṭṭitaḥ ॥
वक्षःस्थश्च करो वामो विष्कम्भे करणे भवेत् । पादावुद्धट्टितौ कार्यौ तलसङ्घट्टितौ करौ ॥
vakṣaḥsthaśca karo vāmo viṣkambhe karaṇe bhavet । pādāvuddhaṭṭitau kāryau talasaṅghaṭṭitau karau ॥
नतश्च पार्श्वं कर्तव्यं बुधैरुद्धट्टिते सदा । प्रयुज्यालातकं पूर्वं हस्तौ चापि हि रेचयेत् ॥
nataśca pārśvaṃ kartavyaṃ budhairuddhaṭṭite sadā । prayujyālātakaṃ pūrvaṃ hastau cāpi hi recayet ॥
कुञ्चितावञ्चितौ चैव वृषभक्रीडिते सदा । रेचितावञ्चितौ हस्तौ लोलितं वर्तितं शिरः ॥
kuñcitāvañcitau caiva vṛṣabhakrīḍite sadā । recitāvañcitau hastau lolitaṃ vartitaṃ śiraḥ ॥
उभयोःपार्श्वयोर्यत्र तल्लोलितमुदाहृतम् । स्वस्तिकापसृतौ पादौ शिरश्च परिवाहितम् ॥
ubhayoḥpārśvayoryatra tallolitamudāhṛtam । svastikāpasṛtau pādau śiraśca parivāhitam ॥
रेचितौ च तथा हस्तौ स्यातां नागापसर्पिते । निषण्णाङ्गस्तु चरणं प्रसार्य तलसञ्चरम् ॥
recitau ca tathā hastau syātāṃ nāgāpasarpite । niṣaṇṇāṅgastu caraṇaṃ prasārya talasañcaram ॥
उद्वाहितमुरः कृत्वा शकटास्यं प्रयोजयेत् ।ऊर्ध्वाङ्गुलितलौ पादौ त्रिपताकावधोमुखौ ॥
udvāhitamuraḥ kṛtvā śakaṭāsyaṃ prayojayet ।ūrdhvāṅgulitalau pādau tripatākāvadhomukhau ॥
हस्तौ शिरस्सन्नतं च गङ्गावतरणं त्विति । यानि स्थानानि याश्चार्यो व्यायामे कथितानि तु ॥
hastau śirassannataṃ ca gaṅgāvataraṇaṃ tviti । yāni sthānāni yāścāryo vyāyāme kathitāni tu ॥
पादप्रचारस्त्वेषां तु करणानामयं भवेत् । ये चापि नृत्तहस्तास्तु गदिता नृत्तकर्मणि ॥
pādapracārastveṣāṃ tu karaṇānāmayaṃ bhavet । ye cāpi nṛttahastāstu gaditā nṛttakarmaṇi ॥
तेषां समासतो योगः करणेषु विभाव्यते । प्रायेण करणे कार्यो वामो वक्षःस्थितः करः ॥
teṣāṃ samāsato yogaḥ karaṇeṣu vibhāvyate । prāyeṇa karaṇe kāryo vāmo vakṣaḥsthitaḥ karaḥ ॥
चरणश्चानुगश्चापि दक्षिणस्तु भवेत्करः । चार्यश्चैव तु याः प्रोक्ता नृत्तहस्तास्तथैव च ॥
caraṇaścānugaścāpi dakṣiṇastu bhavetkaraḥ । cāryaścaiva tu yāḥ proktā nṛttahastāstathaiva ca ॥
सा मातृकेति विज्ञेया तद्भेदात्करणानि तु ।अष्टोत्तरशतं ह्येतत्करणानां मयोदितम् ॥
sā mātṛketi vijñeyā tadbhedātkaraṇāni tu ।aṣṭottaraśataṃ hyetatkaraṇānāṃ mayoditam ॥
अतः परं प्रवक्ष्यामि ह्यङ्गहारविकल्पनम् । प्रसार्योत्क्षिप्य च करौ समपादं प्रयोजयेत् ॥
ataḥ paraṃ pravakṣyāmi hyaṅgahāravikalpanam । prasāryotkṣipya ca karau samapādaṃ prayojayet ॥
व्यंसितापसृतं सव्यं हस्तमूर्ध्वं प्रसारयेत् । प्रत्यालीढं ततः कुर्यात्तथैव च निकुट्टकम् ॥
vyaṃsitāpasṛtaṃ savyaṃ hastamūrdhvaṃ prasārayet । pratyālīḍhaṃ tataḥ kuryāttathaiva ca nikuṭṭakam ॥
ऊरूद्वृत्तं ततः कुर्यादक्षिप्तं स्वस्तिकं ततः । नितम्बं करि हस्तं च कटिच्छिन्नं च योगतः ॥
ūrūdvṛttaṃ tataḥ kuryādakṣiptaṃ svastikaṃ tataḥ । nitambaṃ kari hastaṃ ca kaṭicchinnaṃ ca yogataḥ ॥
स्थिरहस्तो भवेदेष त्वङ्गहारो हरप्रियः । तलपुष्पापविद्धे द्वे वर्तितं संनिकुट्टिकम् ॥
sthirahasto bhavedeṣa tvaṅgahāro harapriyaḥ । talapuṣpāpaviddhe dve vartitaṃ saṃnikuṭṭikam ॥
ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥
ūrūdvṛttaṃ tathākṣiptamuromaṇḍalameva ca । nitambaṃ karihastaṃ ca kaṭicchinnaṃ tathaiva ca ॥
एष पर्यस्तको नाम ह्यङ्गहारो हरोद्भवः ।अलपल्लवसूचीं च कृत्वा विक्षिप्तमेव च ॥
eṣa paryastako nāma hyaṅgahāro harodbhavaḥ ।alapallavasūcīṃ ca kṛtvā vikṣiptameva ca ॥