विततं वणिजापणेऽखिलं पणितुं यत्र जनेन वीक्ष्यते । मुनिनेव मृकण्डुसूनुना जगतीवस्तु पुरोदरे हरेः ॥
सममेणमदैर्यदापणे तुलयन्सौरभलोभनिश्चलम् । पणिता न जनारवैरवैत् अपि गुञ्जन्तमलिं मलीमसम् ॥
रविकान्तमयेन सेतुना सकलाहं ज्वलनाहितोष्मणा । शिशिरे निशि गच्छतां पुरा चरणौ यत्र दुनोति नो हिमम् ॥
विधुदीधितिजेन यत्पथं पयसा नैषधशीलशीतलम् । शशिकान्तमयं तपागमे कलितीव्रस्तपति स्म नातपः ॥
परिखावलयच्छलेन या न परेषां ग्रहणस्य गोचरः । फणिभाषितभाष्यफक्किकाविषमा कुण्डलनामवापिता ॥
मुखपाणिपदाक्ष्णि पङ्कजै रचिताङ्गेष्वपरेषु चम्पकैः । स्वयमादित यत्र भामजा स्मरपूजाकुसुमस्रजः श्रियम् ॥
जघनस्तनभारगौरवाद्वियदालम्ब्य विहर्तुमक्षमाः । ध्रुवमप्सरसोऽवतीर्य यां शतमध्यासत तत्सखीजनः ॥
स्थितिशालिसमस्तवर्णतां न कथं चित्रमयी बिभर्तु या । स्वरभेदमुपैतु या कथं कलितानल्पमुखारवा न वा ॥
स्वरुचारुणया पताकया दिनमर्केण समीयुषोत्तृषः । लिलिहुर्बहुधा सुधाकरं निशि माणिक्यमया यदालयाः ॥
लिलिहे स्वरुचा पताकया निशि जिह्वानिभया सुधाकरम् । श्रितमर्ककरैः पिपासु यन्नृपसद्मामलपद्मरागजम् ॥
अमृतद्युतिलक्ष्म पीतया मिलितं यद्वलभीपताकया । वलयायितशेषशायिनः सखितामादित पीतवाससः ॥
अश्रान्तश्रुतिपाठपूतरसनाविर्भूतभूरिस्तवाजिह्मब्रह्ममुखौघविघ्नितनवस्वर्गक्रियाकेलिना । पूर्वं गाधिसुतेन सामिघटिता मुक्ता नु मन्दाकिनी यत्प्रासाददुकूलवल्लिरनिलान्दोलैरखेलद्दिवि ॥
यदतिविमलनीलवेश्मरश्मिभ्रमरितभाः शुचिसौधवस्त्रवल्लिः । अलभत शमनस्वसुः शिशुत्वं दिवसकराङ्कतले चला लुठन्ती ॥
स्वप्राणेश्वरनर्महर्म्यकटकातिथ्यग्रहायोत्सुकं पाथोदं निजकेलिसौधशिखरादारुह्य यत्कामिनी । साक्षादप्सरसो विमानकलितव्योमान एवाभवद्यन्न प्रायनिमेषमभ्रतरसा यान्ती रसादध्वनि ॥
वैदर्भीकेलिशैले मरकतशिखरादुत्थितैरंशुदर्भैर्ब्रह्माण्डाघातभग्नस्यदजमदतया ह्रीधृतावाङ्मुखत्वैः । कस्या नोत्तानगाया दिवि सुरसुरभेरास्यदेशं गताग्रैर्यद्गोग्रासप्रदानव्रतसुकृतमविश्रान्तमुज्जृम्भते स्म ॥
विधुकरपरिरम्भादात्मनिष्यन्दपूर्णैः शशिदृषदुपक्लृप्तैरालवालैस्तरूणाम् । विफलितजलसेकप्रक्रियागौरवेण व्यरचि स हृतचित्तस्तत्र भैमीवनेन ॥
अथ कनकपतत्रस्तत्र तां राजपुत्रीं सदसि सदृशभासां विस्फुरन्तीं सखीनाम् । उडुपरिषदि मध्यस्थायिशीतांशुलेखानुकरणपटुलक्ष्मीमक्षिलक्षीचकार ॥
भ्रमणरयविकीर्णस्वर्णभासा खगेन क्वचन पतनयोग्यं देशमन्विष्यताधः । मुखविधुमदसीयं सेवितुं लम्बमानः शशिपरिधिरिवोर्ध्वं मण्डलस्तेन तेने ॥
अनुभवति शचीत्थं सा घृताचीमुखाभिर्न सह सहचरीभिर्नन्दनानन्दमुच्चैः । इति मतिरुदयासीत्पक्षिणः प्रेक्ष्य भैमीं विपिनभुवि सखीभिः सार्धमाबद्धकेलिम् ॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । द्वैतीयीकतया मितोऽयमगमत्तस्य प्रबन्धे महाकाव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥