Skip to main content
Search
NC
Naiṣadhīyacaritam • Chapter 01

Canto 1

प्रथमः सर्गः

Canto 1 of Naiṣadhīyacaritam.

Total: 145 Verses • Citations: NC 1.1–145 • 1 Lexicon Terms • Page 1 of 5 (Verses 30 shown)
NC 1.1 वंशस्थम्
निपीय यस्य क्षितिरक्षिणः कथाः तथाद्रियन्ते न बुधाः सुधामपि । नलः सितच्छत्रितकीर्तिमण्डलः स राशिरासीन्महसां महोज्ज्वलः ॥
NC 1.2 वंशस्थम्
रसैः कथा यस्य सुधावधीरिणी नलः स भूजानिरभूद्गुणाश्रयः । सुवर्णदण्डैकसितातपत्रितज्वलत्प्रतापावलिकीर्तिमण्डलः ॥
NC 1.3 वंशस्थम्
पवित्रमत्रातनुते जगद्युगे स्मृता रसक्षालनयेव यत्कथा । कथं न सा मद्गिरमाविलामपि स्वसेविनीमेव पवित्रयिष्यति ॥
NC 1.4 वंशस्थम्
अधीतिबोधाचरणप्रचारणैः दशाश्चतस्रः प्रणयन्नुपाधिभिः । चतुर्दशत्वं कृतवान् कुतः स्वयं न वेद्मि विद्यासु चतुर्दशस्वयम् ॥
NC 1.5 वंशस्थम्
अमुष्य विद्या रसनाग्रनर्तकी त्रयीव नीताङ्गगुणेन विस्तरम् । अगाहताष्टादशतां जिगीषया नवद्वयद्वीपपृथग्जयश्रियाम् ॥
NC 1.6 वंशस्थम्
दिगीशवृन्दांशविभूतिरीशिता दिशां सकामप्रसभावरोधिनीम् । बभार शास्त्राणि दृशं द्वयाधिकां निजत्रिनेत्रावतरत्वबोधिकाम् ॥
NC 1.7 वंशस्थम्
पदैश्चतुर्भिः सुकृते स्थिरीकृते कृतेऽमुना के न तपः प्रपेदिरे । भुवं यदेकाङ्घ्रिकनिष्ठया स्पृशन् दधावधर्मोऽपि कृशस्तपस्विताम् ॥
NC 1.8 वंशस्थम्
यदस्य यात्रासु बलोद्धतं रजः स्फुरत्प्रतापानलघूममञ्जिम । तदेव गत्वा पतितं सुधाम्बुधौ दधाति पङ्कीभवदङ्कतां विधौ ॥
NC 1.9 वंशस्थम्
स्फुरद्धनुर्निस्वनतद्धनाशुगप्रगल्भवृष्टिव्ययितस्य संगरे । निजस्य तेजःशिखिनः परश्शता वितेनुरिङ्गालमिवायशः परे ॥
NC 1.10 वंशस्थम्
अनल्पदग्धारिपुरानलोज्ज्वलैः निजप्रतापैर्वलयं ज्वलद्भुवः । प्रदक्षिणीकृत्य जयाय सृष्टया रराज नीराजनया स राजघः ॥
NC 1.11 वंशस्थम्
निवारितास्तेन महीतलेऽखिले निरीतिभावं गमितेऽतिवृष्टयः । न तत्यजुर्नूनमनन्यविश्रमाः प्रतीपभूपालमृगीदृशां दृशः ॥
NC 1.12 वंशस्थम्
सितांशुवर्णैर्वयति स्म तद्गुणैः महासिवेम्नः सहकृत्वरी बहुम् । दिगङ्गनाङ्गावरणं रणाङ्गणे यशः पटं तद्भटचातुरीतुरी ॥
NC 1.13 वंशस्थम्
प्रतीपभूपैरिव किं ततो भिया विरुद्धधर्मैरपि भेत्तृतोज्झिता । अमित्रजिन्मित्रजिदोजसा स यद्विचारदृक्चारदृगप्यवर्तत ॥
NC 1.14 वंशस्थम्
तदोजसस्तद्यशसः स्थिताविमौ वृथेति चित्ते कुरुते यदा यदा । तनोति भानोः परिवेषकैतवात्तदा विधिः कुण्डलनां विधोरपि ॥
NC 1.15 वंशस्थम्
अयं दरिद्रो भवितेति वैधसीं विपिं ललाटेऽर्थिजनस्य जाग्रतीम् । मृषा न चक्रेऽल्पितकल्पपादपः प्रणीय दारिद्रदरिद्रतां नलः ॥
NC 1.16 वंशस्थम्
विभज्य मेरुर्न यदर्थिसात्कृतो न सिन्धुरुत्सर्गजलव्ययैर्मरुः । अमानि तत्तेन निजायशोयुगं द्विफालबद्धाश्चिकुराः शिरः स्थितम् ॥
NC 1.17 वंशस्थम्
अजस्रमभ्यासमुपेयुषा समं मुदैव देवः कविना बुधेन च । दधौ पटीयान्समयं नयन्नयं दिनेश्वरश्रीरुदयं दिने दिने ॥
NC 1.18 वंशस्थम्
अधोविधानात्कमलप्रवालयोः शिरःसु दानादखिलक्षमाभुजाम् । पुरेदमूर्ध्वं भवतीति वेधसा पदं किमस्याङ्कितमूर्ध्वरेखया ॥
NC 1.19 वंशस्थम्
जगज्जयं तेन च कोशमक्षयं प्रणीतवान्शैशवशेषवानयम् । सखा रतीशस्य ऋतुर्यथा वनं वपुस्तथालिङ्गदथास्य यौवनम् ॥
NC 1.20 वंशस्थम्
अधारि पद्मेषु तदङ्घ्रिणा घृणा क्व तच्छयच्छायलवोऽपि पल्लवे । तदास्यदास्येऽपि गतोऽधिकारितां न शारदः पार्विकशर्वरीशः॥
NC 1.21 वंशस्थम्
किमस्य लोम्नां कपटेन कोटिभिः विधिर्न लेखाभिरजीगणद्गुणान् । न रोमकूपौघमिषाज्जगत्कृता कृताश्च किं दूषणशून्यबिन्दवः ॥
NC 1.22 वंशस्थम्
अमुष्य दोर्भ्यामरिदुर्गलुण्ठने ध्रुवं गृहीतार्गलदीर्घपीनता ।उरः श्रिया तत्र च गोपुरस्फुरत्कपाटदुर्धर्षतिरःप्रसारिता ॥
NC 1.23 वंशस्थम्
स्वकेलिलेशस्मितनिन्दितेन्दुनो निजांशदृक्तर्जितपद्मसंपदः । अतद्द्वयीजित्वरसुन्दरान्तरे न तन्मुखस्य प्रतिमा चराचरे ॥
NC 1.24 वंशस्थम्
सरोरुहं तस्य दृशैव निर्जितं जिताः स्मितेनैव विधोरपि श्रियः । कुतः परं भव्यमहो महीयसी तदाननस्योपमितौ दरिद्रता ॥
NC 1.25 वंशस्थम्
स्ववालभारस्य तदुत्तमाङ्गजैः समं चमर्येव तुलाभिलाषिणः । अनागसे शंसति बालचापलं पुनः पुनः पुच्छविलोलनच्छलात् ॥
NC 1.26 वंशस्थम्
महीभृतस्तस्य च मन्मथश्रिया निजस्य चित्तस्य च तं प्रतीच्छया । द्विधा नृपे तत्र जगत्त्रयीभुवां नतभ्रुवां मन्मथविभ्रमोऽभवत् ॥
NC 1.27 वंशस्थम्
निमीलनभ्रंशजुषा दृशा भृशं निपीय तं यस्त्रिदशीर्भिरर्जितः । अमूस्तमभ्यासभरं विवृण्वते निमेषनिःस्वैरधुनापि लोचनैः ॥
NC 1.28 वंशस्थम्
अदस्तदाकर्णि फलाढ्यजीवितं दृशोर्द्वयं नस्तदवीक्षि चाफलम् । इति स्म चक्षुःश्रवसां प्रिया नले स्तुवन्ति निन्दन्ति हृदा तदात्मनः ॥
NC 1.29 वंशस्थम्
विलोकयन्तीभिरजस्रभावनाबलादमुं नेत्रनिमीलनेष्वपि । अलम्भि मर्त्याभिरमुष्य दर्शने न विघ्नलेशोऽपि निमेषनिर्मितिः ॥
NC 1.30 वंशस्थम्
न का निशि स्वप्नगतं ददर्श तं जगाद गोत्रस्खलिते च का न तम् । तदात्मताध्यातधवा रते च का चकार वा न स्वमनोभवोद्भवम् ॥
Full Table of Contents Next (Ch. 2) →