Skip to main content
Search
NC
Naiṣadhīyacaritam • Chapter 01

Canto 1

प्रथमः सर्गः

Canto 1 of Naiṣadhīyacaritam.

Total: 145 Verses • Citations: NC 1.1–145 • 1 Lexicon Terms • Page 4 of 5 (Verses 30 shown)
NC 1.91 वंशस्थम्
अलिस्रजा कुड्मलमुच्चशेखरं निपीय चाम्पेयमधीरया धिया । स धूमकेतुं विषदे वियोगिनामुदीतमातङ्कितवानशङ्कत ॥
NC 1.92 वंशस्थम्
गलत्परागं भ्रमिभङ्गिभिः पतत्प्रसक्तभृङ्गावलि नागकेसरम् । स मारनाराचनिघर्षणस्खलज्ज्वलत्कणं शाणमिव व्यलोकयत् ॥
NC 1.93 वंशस्थम्
तदङ्गमुद्दिश्य सुगन्धि पातुकाः शिलीमुखालीः कुसुमाद्गुणस्पृशः । स्वचापदुर्निर्गतमार्गणभ्रमात्स्मरः स्वनन्तीरवलोक्य लज्जितः ॥
NC 1.94 वंशस्थम्
मरुल्ललत्पल्लवकण्टकैः क्षतं समुच्छलच्चन्दनसारसौरभम् । स वारनारीकुचसंचितोपमं ददर्श मालूरफलं पचेलिमम् ॥
NC 1.95 वंशस्थम्
युवद्वयीचित्तनिमज्जनोचितप्रसूनशून्येतरगर्भगह्वरम् । स्मरेषुधीकृत्य धिया भयान्धसा स पाटलायाः स्तबकं प्रकम्पितः ॥
NC 1.96 वंशस्थम्
मुनिद्रुमः कोरकितः शितिद्युतिर्वनेऽमनाऽमन्यत सिंहिकासुतः । तमिस्रपक्षत्रुटिकूटभक्षितं कलाकलापं किल वैधवं वमन् ॥
NC 1.97 वंशस्थम्
पुरा हठाक्षिप्ततुषारपाण्डुरच्छदावृतेर्वीरुधि बद्धविभ्रमाः । मिलत्रिमीलं ससृजुर्विलोकिता नभस्वतस्तं कुसुमेषु केलयः ॥
NC 1.98 वंशस्थम्
गता यदुत्सङ्गतले विशालतां द्रुमाः शिरोभिः फलगौरवेण ताम् । कथं न धात्रीमतिमात्रनामितैः स वन्दमानानभिनन्दति स्म तान् ॥
NC 1.99 वंशस्थम्
नृपाय तस्मै हिमितं वनानिलैः सुधीकृतं पुष्परसैरहर्महः । विनिर्मितं केतकरेणुभिः सितं वियोगिनेऽदत्त न कौमदीमुदः ॥
NC 1.100 वंशस्थम्
अयोगभाजोऽपि नृपस्य पश्यता तदेव साक्षादमृतांशुमाननम् । पिकेन रोषारुणचक्षुषा मुहुः कुहूरुताहूयत चन्द्रवैरिणी ॥
NC 1.101 वंशस्थम्
अशोकमर्थान्वितनामताशयागतान् शरण्यं गृहशोचिनोऽध्वगान् । अमन्यतावन्तमिवैष पल्लवैः प्रतीष्टकामज्वलदस्त्रजालकम् ॥
NC 1.102 वंशस्थम्
विलासवापीतटवीचिवादनात्पिकालिगीतेः शिखिलास्यलाघवात् । वनेऽपि तौर्यत्रिकमारराध तं क्व भोगमाप्नोति न भाग्यभाग्जनः ॥
NC 1.103 वंशस्थम्
तदर्थमध्याप्य जनेन तद्वने शुका विमुक्ताः पटवस्तमस्तुवन् । स्वरामृतेनोपजगुश्च सारिकास्तथैव तत्पौरुषगायनीकृताः ॥
NC 1.104 वंशस्थम्
इतीष्टगन्धाढ्यमटन्नसौ वनं पिकोपगीतोऽपि शुकस्तुतोऽपि च । अविन्दतामोदभरं बहिश्चरं विदर्भसुभ्रूविरहेण नान्तरम् ॥
NC 1.105 वंशस्थम्
करेण मीनं निजकेतनं दधद्द्रुमालवालाम्बुनिवेशशङ्कया । व्यतर्कि सर्वर्तुघने घने मधुं स मित्रमत्रानुसरन्निव स्मरः ॥
NC 1.106 वंशस्थम्
लताबलालास्यकलागुरुस्तरुप्रसूनगन्धोत्करपश्यतोहरः । असेवतामुं मधुगन्धवारिणि प्रणीतलीलाप्लवनो वनानिलः ॥
NC 1.107 वंशस्थम्
अथ स्वमादाय भयेन मन्थनाच्चिरत्नरत्नाधिकमुच्चितं चिरात् । निलीय तस्मिन्निव सन्नपांनिधिर्वने तडाको ददृशेऽवनीभुजा ॥
NC 1.108 वंशस्थम्
पयोनिलीनाभ्रमुकामुकावलीरदाननन्तोरगपुच्छसुच्छवीन् । जलार्धरुद्धस्य तटान्तभूमिदो मृणालजालस्य मिषाद्बभार यः ॥
NC 1.109 वंशस्थम्
तटान्तविश्रान्ततुरंगमच्छटास्फुटानुविम्बोदयचुम्बनेन यः । बभौ चलद्वीचिकशान्तशातनैः सहस्रमुच्चैःश्रवसामिवाश्रयन् ॥
NC 1.110 वंशस्थम्
सिताम्बुजानां निवहस्य यश्छलाद्बभावलिश्यामलितोदरश्रियाम् । तमः समच्छायकलङ्कसंकुलं कुलं सुधांशोर्बहुलं वहन् बहु ॥
NC 1.111 वंशस्थम्
रथाङ्गभाजा कमलानुषङ्गिणा शिलीमुखस्तोमसखेन शार्ङ्गिणा । सरोजिनीस्तम्बकदम्बकैतवान्मृणालशेषाहिभुवान्वयायि यः ॥
NC 1.112 वंशस्थम्
तरङ्गिणीरङ्कजुषः स्ववल्लभास्तरङ्गरेखा बिभरांबभूव यः । दरोद्गतैः कोकनदौघकोरकैर्धृतप्रवालाङ्कुरसंचयश्च यः ॥
NC 1.113 वंशस्थम्
महीयसः पङ्कजमण्डलस्य यश्छलेन गौरस्य च मेचकस्य च । नलेन मेने सलिले निलीनयोस्त्विषं विमुञ्चन्विधुकालकूटयोः ॥
NC 1.114 वंशस्थम्
चलीकृता यत्र तरङ्गरिङ्गणैरबालशैवाललतापरम्पराः । ध्रुवं दधुर्वाडवहव्यवाडवस्थितिप्ररोहत्तमभूमधूमताम् ॥
NC 1.115 वंशस्थम्
प्रकाममादित्यमवाप्य कण्टकैः करम्बितामोदभरं विवृण्वती । धृतस्फुटश्रीगृहविग्रहा दिवा सरोजिनी यत्प्रभवाप्सरायिता ॥
NC 1.116 वंशस्थम्
यदम्बुपूरप्रतिबिम्बितायतिर्मरुत्तरङ्गैस्तरलस्तटद्रुमः । निमज्ज्य मैनाकमहीभृतः सतस्ततान पक्षान्धुवतः सपक्षताम् ॥
NC 1.117 वंशस्थम्
पयोधिलक्ष्मीमुषि केलिपल्वले रिरंसुहंसीकलनादसादरम् । स तत्र चित्रं विचरन्तमन्तिके हिरण्मयं हंसमबोधि नैषधः ॥
NC 1.118 वंशस्थम्
प्रियासु बालासु रतक्षमासु च द्विपत्रितं पल्लवितं च बिभ्रतम् । स्मरार्जितं रागमहीरुहाङ्कुरं मिषेण चञ्च्वोश्चरणद्वयस्य च ॥
NC 1.119 वंशस्थम्
महीमहेन्द्रस्तमवेक्ष्य स क्षणं शकुन्तमेकान्तमनोविनोदिनम् । प्रियावियोगाद्विधुरोऽपि निर्भरं कुतूहलाक्रान्तमना मनागभूत् ॥
NC 1.120 वंशस्थम्
अवश्यभव्येष्वनवग्रहग्रहा यया दिशा धावति वेधसः स्पृहा । तृणेन वात्येव तयानुगम्यते जनस्य चित्तेन भृशावशात्मना ॥
Full Table of Contents Next (Ch. 2) →