Skip to main content
Search
NC
Naiṣadhīyacaritam • Chapter 01

Canto 1

प्रथमः सर्गः

Canto 1 of Naiṣadhīyacaritam.

Total: 145 Verses • Citations: NC 1.1–145 • 1 Lexicon Terms • Page 5 of 5 (Verses 25 shown)
NC 1.121 वंशस्थम्
अथावलम्ब्य क्षणमेकपादिकां तदा निदद्रावुपपल्वलं खगः । स तिर्यगावर्जितकंधरः शिरः पिधाय पक्षेण रतिक्लमालसः ॥
NC 1.122 वंशस्थम्
सनालमात्मानननिर्जितप्रभं ह्रिया नतं काञ्चनमम्बुजन्म किम् । अबुद्ध तं विद्रुमदण्डमण्डितं स पीतमम्भःप्रभुचामरं नु किम् ॥
NC 1.123 वंशस्थम्
कृतावरोहस्य हयादुपानहौ ततः पदे रेजतुरस्य बिभ्रती । तयोः प्रवालैर्वनयोस्तथाम्बुजैर्नियोद्धुकामे किमु बद्धवर्मणी ॥
NC 1.124 वंशस्थम्
विधाय मूर्तिं कपटेन वामनीं स्वयं बलिध्वंसिविडम्बिनीमयम् । उपेतपार्श्वश्चरणेन मौनिना नृपः पतङ्गं समधत्त पाणिना ॥
NC 1.125 वंशस्थम्
तदात्तमात्मानमवेत्य संभ्रमात्पुनः पुनः प्रायसदुत्प्लवाय सः । गतो विरुत्योड्डयने निराशतां करौ निरोद्धुर्दशति स्म केवलम् ॥
NC 1.126 वंशस्थम्
ससंभ्रमोत्पातिपतत्कुलाकुलं सरः प्रपद्योत्कतयाऽनुकम्प्रताम् । तमूर्मिलोलैः पतगग्रहान्नृपं न्यवारयद्वारिरुहैः करैरिव ॥
NC 1.127 वंशस्थम्
पतत्रिणा तद्रुचिरेण वञ्चितं श्रियः प्रयान्त्याः प्रविहाय पल्वलम् । चलत्पदाम्भोरुहनूपुरोपमा चुकूज कूले कलहंसमण्डली ॥
NC 1.128 वंशस्थम्
न वासयोग्या वसुधेयमीदृशस्त्वमङ्ग ! यस्याः पतिरुज्झितस्थितिः । इति प्रहाय क्षितिमाश्रिता नभः खगास्तमाचुक्रुशुरारवैः खलु ॥
NC 1.129 वंशस्थम्
न जातरूपच्छदजातरूपता द्विजस्य दृष्टेयमिति स्तुवन्मुहुः । अवादि तेनाथ स मानसौकसा जनाधिनाथः करपञ्जरस्पृशा ॥
NC 1.130 वंशस्थम्
धिगस्तु तृष्णातरलं भवन्मनः समीक्ष्य पक्षान्मम हेमजन्मनः । तवार्णवस्येव तुषारशीकरैर्भवेदमीभिः कमलोदयः कियान् ॥
NC 1.131 वंशस्थम्
न केवलं प्राणिवधो वधो मम त्वदीक्षणाद्विश्वसितान्तरात्मनः । विगर्हितं धर्मधनैर्निबर्हणं विशिष्य विश्वासजुषां द्विषामपि ॥
NC 1.132 वंशस्थम्
पदे पदे सन्ति भटा रणोद्भटा न तेषु हिंसारस एष पूर्यते । धिगीदृशं ते नृपते ! कुविक्रमं कृपाश्रये यः कृपणे पतत्रिणि ॥
NC 1.133 वंशस्थम्
फलेन मूलेन च वारिभूरुहां मुनेरिवेत्थं मम यस्य वृत्तयः । त्वयाद्य तस्मिन्नपि दण्डधारिणा कथं न पत्या धरणी घृणीयते ॥
NC 1.134 वंशस्थम्
इतीदृशैस्तं विरचय्य वाङ्मयैः सचित्रवैलक्ष्यकृपं नृपं खगः । दयासमुद्रे स तदाशयेऽतिथीचकार कारुण्यरसापगा गिरः ॥
NC 1.135 वंशस्थम्
मदेकपुत्रा जननी जरातुरा नवप्रसूतिर्वरटा तपस्विनी । गतिस्तयोरेष जनस्तमर्दयन्नहो विधे ! त्वां करुणा रुणद्धि न ॥
NC 1.136 वंशस्थम्
मुहूर्तमात्रं भवनिन्दया दयासखाः सखायः स्रवदश्रवो मम । निवृत्तिमेष्यन्ति परं दुरुत्तरस्त्वयैव मातः ! सुतशोकसागरः ॥
NC 1.137 वंशस्थम्
मदर्थसंदेशमृणालमन्थरः प्रियः कियद्दूर इति त्वयोदिते । विलोकयन्त्या रुदतोऽथ पक्षिणः प्रिये ! स कीदृग्भविता तव क्षणः ॥
NC 1.138 वंशस्थम्
कथं विधातर्मयि पाणिपङ्कजात्तव प्रियाशैत्यमृदुत्वशिल्पिनः । वियोक्ष्यसे वल्लभयेति निर्गता लिपिर्ललाटन्तपनिष्ठुराक्षरा ॥
NC 1.139 वंशस्थम्
अयि !स्वयूथ्यैरशनिक्षतोपमं ममाद्य वृत्तान्तमिमं बतोदिता । मुखानि लोलाक्षि ! दिशामसंशयं दशापि शून्यानि विलोकयिष्यसि ॥
NC 1.140 वंशस्थम्
ममैव शोकेन विदीर्णवक्षसा त्वया विचित्राङ्गि ! विपद्यते यदि । तदास्मि दैवेन हतोऽपि हा हतः स्फुटं यतस्ते शिशवः परासवः ॥
NC 1.141 वंशस्थम्
तवापि हा हा विरहात्क्षुधाकुलाः कुलायकूलेषु विलुठ्यतेषु ते । चिरेण लब्धा बहुभिर्मनोरथैर्गताः क्षणेनास्फुटितेक्षणा मम ॥
NC 1.142 वंशस्थम्
सुताः ! कमाहूय चिराय चुंकृतैर्विधाय कम्प्राणि मुखानि कं प्रति । कथासु शिष्यध्वमिति प्रमील्य सः स्त्रुतस्य सेकाद्बुबुधे नृपाश्रुणः ॥
NC 1.143 आर्यागीति
इत्थममुं विलपन्तममुञ्चद्दीनदयालुतयावनिपालः । रुपमदर्शि धृतोऽसि यदर्थं गच्छ यथेच्छमथेत्यभिधाय ॥
NC 1.144 वसन्ततिलका
आनन्दजाश्रुभिरनुस्रियमाणमार्गान्प्राक्शोकनिर्गमितनेत्रपयःप्रवाहान् । चक्रे स चक्रनिभचङ्क्रमणच्छलेन नीराजनां जनयतां निजबान्धवानाम् ॥
NC 1.145 शार्दूलविक्रीडितम्
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । तच्चिन्तामणिमन्त्रचिन्तनफले शृङ्गारभङ्ग्या महाकाव्ये चारुणि नैषधीयचरिते सर्गोऽयमादिर्गतः ॥
Full Table of Contents Next (Ch. 2) →