Skip to main content
Search
NC
Naiṣadhīyacaritam • Chapter 01

Canto 1

प्रथमः सर्गः

Canto 1 of Naiṣadhīyacaritam.

Total: 145 Verses • Citations: NC 1.1–145 • 1 Lexicon Terms • Page 3 of 5 (Verses 30 shown)
NC 1.61 वंशस्थम्
महारथस्याध्वनि चक्रवर्तिनः परानपेक्षोद्वहनाद्यशः सितम् । रदावदातांशुमिषादनीदृशां हसन्तमन्तर्बलमर्वतां रवेः ॥
NC 1.62 वंशस्थम्
सितत्विषश्चञ्चलतामुपेयुषो मिषेण पुच्छस्य च केसरस्य च । स्फुटं चलच्चामरयुग्मचिह्ननैरनिह्नुवानं निजवाजिराजताम् ॥
NC 1.63 वंशस्थम्
अपि द्विजिह्वाभ्यवहारपौरुषे मुखानुषक्तायतवल्गुवल्गया । उपेयिवांसं प्रतिमल्लतां रयस्मये जितस्य प्रसभं गरुत्मतः ॥
NC 1.64 वंशस्थम्
स सिन्धुजं शीतमहः सहोदरं हरन्तमुच्चैःश्रवसः श्रियं हयम् । जिताखिलक्ष्माभृदनल्पलोचनस्तमारुरोह क्षितिपाकशासनः ॥
NC 1.65 वंशस्थम्
निजा मयूखा इव तीक्ष्णदीधितिं स्फुटारविन्दाङ्कितपाणिपङ्कजम् । तमश्ववारा जवनाश्वयायिनं प्रकाशरूपा मनुजेशमन्वयुः ॥
NC 1.66 वंशस्थम्
चलन्नलंकृत्य महारयं हयं स्ववाहवाहोचितवेषपेशलः । प्रमोदनिःस्पन्दतराक्षिपक्ष्मभिर्व्यलोकि लोकैर्नगरालयैर्नलः ॥
NC 1.67 वंशस्थम्
क्षणादथैष क्षणदापतिप्रभः प्रभञ्जनाध्येयजवेन वाजिना । सहैव ताभिर्जनदृष्टिवृष्टिभिर्बहिः पुरोऽभूत्पुरुहूतपौरुषः ॥
NC 1.68 वंशस्थम्
ततः प्रतीच्छ प्रहरेति भाषिणी परस्परोल्लासितशल्यपल्लवे । मृषामृघं सादिबले कुतूहलान्नलस्य नासीरगते वितेनतुः ॥
NC 1.69 वंशस्थम्
प्रयातुमस्माकमियं कियत्पदं धरा तदम्भोधिरपि स्थलायताम् । इतीव वाहैर्निजवेगदर्पितैः पयोधिरोधक्षममुद्धतं रजः ॥
NC 1.70 वंशस्थम्
हरेर्यदक्रामि पदैककेन खं पदैश्चतुर्भिः क्रमणेऽपि तस्य नः । त्रपा हरीणामिति नम्रिताननैर्न्यवर्ति तैरर्धनभः कृतक्रमैः ॥
NC 1.71 वंशस्थम्
चमूचरास्तस्य नृपस्य सादिनो जिनोक्तिषु श्राद्धतयेव सैन्धवाः । विहारदेशं तमवाप्य मण्डलीमकारयन्भूरितुरंगमानपि ॥
NC 1.72 वंशस्थम्
द्विषद्भिरेवास्य विलङ्घिता दिशो यशोभिरेवाब्धिरकारि गोष्पदम् । इतीव धारामवधीर्य मण्डलीक्रियाश्रियाऽमण्डि तुरंगमैः स्थली ॥
NC 1.73 वंशस्थम्
अचीकरच्चारु हयेन या भ्रमीर्निजातपत्रस्य तलस्थले नलः । मरुत्किमद्यापि न तासु शिक्षते वितत्य वात्यामयचक्रङ्क्रमान् ॥
NC 1.74 वंशस्थम्
विवेश गत्वा स विलासकाननं ततः क्षणात्क्षोणिपतिर्धृतीच्छया । प्रवालरागच्छुरितं सुषुप्सया हरिर्धनच्छायमिवार्णसां निधिम् ॥
NC 1.75 वंशस्थम्
वनान्तपर्यन्तमुपेत्य सस्पृहं क्रमेण तस्मिन्नवतीर्णदृक्पथे । न्यवर्ति दृष्टिप्रकरैः पुरौकसामनुव्रजद्बन्धुसमाजबन्धुभिः ॥
NC 1.76 वंशस्थम्
ततः प्रसूने च फले च मञ्जुले स संमुखस्थाङ्गुलिना जनाधिपः । निवेद्यमानं वनपालपाणिना व्यालोकयत्काननकामनीयकम् ॥
NC 1.77 वंशस्थम्
फलानि पुष्पाणि च पल्लवे करे वयोतिपातोद्गतवातवेपिते । स्थितैः समादाय महर्षिवार्धकाद्वने तदातिथ्यमशिक्षि शाखिभिः ॥
NC 1.78 वंशस्थम्
विनिद्रपत्रालिगतालिकैतवान्मृगाङ्कचूडामणिवर्जनार्जितम् । दधानमाशासु चरिष्णु दुर्यशः स कौतुकी तत्र ददर्श केतकम् ॥
NC 1.79 वंशस्थम्
वियोगभाजां हृदि कण्टकैः कटुर्निधीयसे कर्णिशरः स्मरेण यत् । ततो दुराकर्षतया तदन्तकृद्विगीयसे मन्मथदेहदाहिना ॥
NC 1.80 वंशस्थम्
त्वदग्रसूचीसचिवेन कामिनोर्मनोभवः सीव्यति दुर्यशःपटौ । स्फुटं स पत्रैः करपत्रमूर्तिभिर्वियोगिहृद्दारुणि दारुणायते ॥
NC 1.81 वंशस्थम्
धनुर्मधुस्विन्नकरोऽपि भीमजापरं परागैस्तव धूलिहस्तयन् । प्रसूनधन्वा शरसात्करोति मामिति क्रुधाक्रुश्यत तेन कैतकम् ॥
NC 1.82 वंशस्थम्
विदर्भसुभ्रूस्तनतुङ्गताप्तये घटानिवापश्यदलं तपस्यतः । फलानि धूमस्य धयानधोमुखान्स दाडिमे दोहदधूपिनि द्रुमे ॥
NC 1.83 वंशस्थम्
वियोगिनीमैक्षत दाडिमीमसौ प्रियस्मृतेः स्पष्टमुदीतकण्टकाम् । फलस्तनस्थानविदीर्णरागिहृद्विशच्छुकास्यस्मरकिंशुकाशुगाम् ॥
NC 1.84 वंशस्थम्
स्मरार्धचन्द्रेषुनिभे क्रशीयसां स्फुटं पलाशेऽध्वजुषां पलाशनात् । स वृन्तमालोकत खण्डमन्वितं वियोगिहृत्खण्डिनि कालखण्डजम् ॥
NC 1.85 वंशस्थम्
नवा लता गन्धवहेन चुम्बिता करम्बिताङ्गी मकरन्दशीकरैः । दृशा नृपेण स्मितशोभिकुञ्चला दरादराभ्यां दरकम्पिनी पपे ॥
NC 1.86 वंशस्थम्
विचिन्वतीः पान्थपतङ्गहिंसनैरपुण्यकर्माण्यलिकज्जलच्छलात् । व्यलोकयच्चम्पककोरकावलीः स शम्बरारेर्बलिदीपिका इव ॥
NC 1.87 वंशस्थम्
अमन्यतासौ कुसुमेषुगर्भगं परागमन्धंकरणं वियोगिनाम् । स्मरेण मुक्तेषु पुरा पुरारये तदङ्गभस्मेव शरेषु संगतम् ॥
NC 1.88 वंशस्थम्
पिकाद्वने शृण्वति भृङ्गहुंकृतैर्दशामुदञ्चत्करुणे वियोगिनाम् । अनास्थया सूनकरप्रसारिणीं ददर्श दूनः स्थलपद्मिनीं नलः ॥
NC 1.89 वंशस्थम्
रसालसालः समदृश्यतामुना स्फुरद्द्विरेफारवरोषहुंकृतिः । समीरलोलैर्मुकुलैर्वियोगिने जनाय दित्सन्निव तर्जनाभियम् ॥
NC 1.90 वंशस्थम्
दिने दिने त्वं तनुरेधि रेऽधिकं पुनः पुनर्मूर्च्छ च तापमृच्छ च । इतीव पान्थाञ्शपतः पिकान्द्विजान्सखेदमैक्षिष्ट स लोहितेक्षणान् ॥
Full Table of Contents Next (Ch. 2) →