Skip to main content
Search
NC
Naiṣadhīyacaritam • Chapter 02

Canto 2

द्वितीयः सर्गः

Canto 2 of Naiṣadhīyacaritam.

Total: 110 Verses • Citations: NC 2.1–110 • 1 Lexicon Terms • Page 1 of 4 (Verses 30 shown)
अधिगत्य जगत्यधीश्वरात् अथ मुक्तिं पुरुषोत्तमात्ततः । वचसामपि गोचरो न यः स तामानन्दमविन्दत द्विजः ॥
NC 2.2 वियोगिनी
अधुनीत खगः स नैकधा तनुमुत्फुल्लतनूरुहीकृताम् । करयन्त्रणदन्तुरान्तरे व्यलिखच्चञ्चुपुटेन पक्षती ॥
NC 2.3 वियोगिनी
अयमेकतमेन पक्षतेरधिम् अध्योर्ध्वगजङ्घमङ्घ्रिणा । स्खलनक्षण एव शिश्रिये द्रुतकण्डूयितमौलिरालयम् ॥
NC 2.4 वियोगिनी
स गरुद्वनदुर्गदुर्ग्रहान्कटु कीटान्दशतः सतः क्वचित् । नुनुदे तनुकण्डु पण्डितः पटुचञ्चूपुटकोटिकुट्टनैः ॥
NC 2.5 वियोगिनी
अयमेत्य तडागनीडजैर्लघु पर्यव्रियताथ शङ्कितैः । उदडीयत वैकृतात्करग्रहजादस्य विकस्वरस्वरैः ॥
NC 2.6 वियोगिनी
वहतो बहुशैवलक्ष्मतां धृतरुद्राक्षमधुव्रतं खगः । स नलस्य ययौ करं पुनः सरसः कोकनदभ्रमादिव ॥
NC 2.7 वियोगिनी
पतगश्चिरकाललालनादतिविश्रम्भमवापितो नु सः । अतुलं विदधे कुतूहलं भुजमेतस्य भजन्महीभुजः ॥
NC 2.8 वियोगिनी
नृपमानसमिष्टमानसः स निमज्जत्कुतुकामृतोर्मिषु । अवलम्बितकर्णशष्कुलीकलसीकं रचयन्नवोचत ॥
NC 2.9 वियोगिनी
मृगया न विगीयते नृपैरपि धर्मागममर्मपारगैः । स्मरसुन्दर ! मां यदत्यजस्तव धर्मः स दयोदयोज्ज्वलः ॥
NC 2.10 वियोगिनी
अबलस्वकुलाशिनोझषान्निजनीडद्रुमपीडिनः खगान् । अनवद्यतृणार्दिनो मृगान्मृगयाधाय न भूभुजां घ्नताम् ॥
NC 2.11 वियोगिनी
यदवादिषमप्रियं तव प्रियमाधाय नुनुत्सुरस्मि तत् । कृतमातपसंज्वरं तरोः अभिवृष्यामृतमंशुमानिव ॥
NC 2.12 वियोगिनी
उपनम्रमयाचितं हितं परिहर्तुं न तवापि साम्प्रतम् । करकल्पजनान्तराद्विधेः शुचितः प्रापि स हि प्रतिग्रहः ॥
NC 2.13 वियोगिनी
पतगेन मया जगत्पतेः उपकृत्यै तव किं प्रभूयते । इति वेद्मि न तु त्यजन्ति मां तदपि प्रत्युपकर्तुमर्तयः ॥
NC 2.14 वियोगिनी
अचिरादुपकर्तुराचरेत् अथ वात्मौपयिकीमुपक्रियाम् । पृथुरित्थमथाणुरस्तु सा न विशेषे विदुषामिह ग्रहः ॥
NC 2.15 वियोगिनी
भविता न विचारचारु चेत्तदपि श्रव्यमिदं मदीरितम् । खगवागियमित्यतोऽपि किं न मुदं धास्यति कीरगीरिव ॥
NC 2.16 वियोगिनी
स जयत्यरिसार्थसार्थकीकृतनामा किल भीमभूपतिः । यमवाप्य विदर्भभूः प्रभुं हसति द्यामपि शक्रभर्तृकाम् ॥
NC 2.17 वियोगिनी
दमनादमनाक्प्रसेदुषस्तनयां तथ्यगिरस्तपोधनात् । वरमाप स दिष्टविष्टपत्रितयानन्यसदृग्गुणोदयाम् ॥
NC 2.18 वियोगिनी
भुवनत्रयसुभ्रुवामसौ दमयन्ती कमनीयतामदम् । उदियाय यतस्तनुश्रिया दमयन्तीति ततोऽभिधां दधौ ॥
NC 2.19 वियोगिनी
श्रियमेव परं धराधिपाद्गुणसिन्धोरुदितामवेहि ताम् । व्यवधावपि वा विधोः कलां मृडचूडानिलयां न वेद कः ॥
NC 2.20 वियोगिनी
चिकुरप्रकरा जयन्ति ते विदुषी मूर्धनि सा बिभर्ति यान् । पशुनाप्यपुरस्कृतेन तत्तुलनामिच्छतु चामरेण कः ॥
NC 2.21 वियोगिनी
स्वदृशोर्जनयन्ति सान्त्वनां खुरकण्डूयनकैतवान्मृगाः । जितयोरुदयत्प्रमीलयोः तदखर्वेक्षणशोभया भयात् ॥
NC 2.22 वियोगिनी
अपि लोकयुगं दृशावपि श्रुतदृष्टा रमणीगुणा अपि । श्रुतिगामितया दमस्वसुः व्यतिभाते सुतरां धरापते ! ॥
NC 2.23 वियोगिनी
नलिनं मलिनं विवृण्वती पृषतीमस्पृशती तदीक्षणे । अपि खञ्जनमञ्जनाञ्चिते विदधाते रुचिगर्वदुर्विधम् ॥
NC 2.24 वियोगिनी
अधरं किल बिम्बनामकं फलमस्मादिति भव्यमन्वयम् । लभतेऽधरबिम्बमित्यदः पदमस्या रदनच्छदं वदत् ॥
NC 2.25 वियोगिनी
हृतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा । कृतमध्यबिलं विलोक्यते धृतगम्भीरखनीखनीलिम ॥
NC 2.26 गीति
धृतलाञ्छनगोमयाञ्चनं विधुमालेनपाण्डुरं विधिः । भ्रमयत्युचिटं विदर्भजानननीराजनवर्धमानकम् ॥
NC 2.27 वियोगिनी
सुषमाविषये परीक्षणे निखिलं पद्ममभाजि तन्मुखात् । अधुनापि न मङ्गलक्षणं सलिलोन्मज्जनमुज्झति स्फुटम् ॥
NC 2.28 वियोगिनी
धनुषी रतिपञ्चबाणयोः उदिते विश्वजयाय तद्भ्रुवौ । नलिके न तदुच्चनासिके त्वयि नालीकविमुक्तिकामयोः ॥
NC 2.29 वियोगिनी
सदृशी तव शूर ! सा परं जलदुर्गस्थमृणालजिद्भुजा । अपि मित्रजुषां सरोरुहां गृहयालुः करलीलया श्रियः ॥
NC 2.30 वियोगिनी
वयसी शिशुतातदुत्तरे सुदृशि स्वाभिविधिं विधित्सुनी । विधिनापि न रोमरेखया कृतसीम्नी प्रविभज्य रज्यतः ॥
← Previous (Ch. 1) Full Table of Contents Next (Ch. 3) →