Skip to main content
Search
NC
Naiṣadhīyacaritam • Chapter 02

Canto 2

द्वितीयः सर्गः

Canto 2 of Naiṣadhīyacaritam.

Total: 110 Verses • Citations: NC 2.1–110 • 1 Lexicon Terms • Page 3 of 4 (Verses 30 shown)
NC 2.61 वियोगिनी
अथवा भवतः प्रवर्तना न कथं पिष्टमियं पिनष्ट नः । स्वत एव सतां परार्थता ग्रहणानां हि यथा यथार्थता ॥
NC 2.62 वियोगिनी
तव वर्त्मनि वर्ततां शिवं पुनरस्तु त्वरितं समागमः । अयि ! साधय साधयेप्सितं स्मरणीयाः समये वयं वयः ॥
NC 2.63 वियोगिनी
इति तं स विसृज्य धैर्यवान्नृपतिः सूनृतवाग्बृहस्पतिः । अविशद्वनवेश्म विस्मितः स्मृतिलग्नैः कलहंसशंसितैः ॥
NC 2.64 वियोगिनी
अथ भीमसुतावलोकनैः सफलं कर्तुमहस्तदेव सः । क्षितिमण्डलमण्डनायितं नगरं कुण्डिनमण्डजो ययौ ॥
NC 2.65 वियोगिनी
प्रथमं पथि लोचनातिथिं पथिकप्रार्थितसिद्धिशंसिनम् । कलसं जलसंभृतं पुरः कलहंसः कलयांबभूव सः ॥
NC 2.66 वियोगिनी
अवलम्ब्य दिदृक्षयाम्बरे क्षणमाश्चर्यरसालसं गतम् । स विलासवनेऽवनीभृतः फलमैक्षिष्ट रसालसंगतम् ॥
NC 2.67 वियोगिनी
नभसः कलभैरुपासितं जलदैर्भूरितरक्षुपन्नगम् । स ददर्श पतङ्गपुंगवो विटपच्छन्नतरक्षुपं नगम् ॥
NC 2.68 वियोगिनी
स ययौ धुतपक्षतिः क्षणं क्षणमूर्ध्वायनदुर्विभावनः । विततीकृतनिश्चलच्छदः क्षणमालोककदत्तकौतुकः ॥
NC 2.69 वियोगिनी
तनुदीधितिधारया रयाद्गतया लोकविलोकनामसौ । छदहेम कषन्निवालसत्कषपाषाणनिभे नभस्तले ॥
NC 2.70 वियोगिनी
विनमद्भिरधः स्थितैः खगैर्झटिति श्येननिपातशङ्किभिः । स निरैक्षि दृशैकयोपरि स्यदझांकारितपत्रपद्धतिः ॥
NC 2.71 वियोगिनी
ददृशे न जनेन यन्नसौ भुवि तच्छायमवेक्ष्य तत्क्षणात् । दिवि दिक्षु वितीर्णचक्षुषा पृथुवेगद्रुतमुक्तदृक्पथः ॥
न वनं पथि शिश्रियेऽमुना क्वचिदप्युच्चतरद्रुचारुतम् । न संगोत्रजमन्ववादि वा गतिवेगप्रसरद्रुचा रुतम् ॥
NC 2.73 वियोगिनी
अथ भीमभुजेन पालिता नगरी मञ्जुरसौ धराजिता । पतगस्य जगाम दृक्पथं हरशैलोपमसौधराजिता ॥
NC 2.74 वियोगिनी
दयितं प्रति यत्र संतता रतिहासा इव रेजिरे भुवः । स्फटिकोपलविग्रहा गृहाः शशभृद्भित्तनिरङ्कभित्तयः ॥
NC 2.75 वियोगिनी
नृपनीलमणीगृहत्विषाम् उपधेर्यत्र भयेन भास्वतः । शरणार्थमुवास वासरेऽप्यसदावृत्त्युदयत्तमं तमः ॥
NC 2.76 वियोगिनी
सितदीप्रमणिप्रकल्पिते यदगारे हसदङ्करोदसि । निखिलान्निशि पूर्णिमा तिथीनुपतस्थेऽतिथिरेकिका तिथिः ॥
NC 2.77 वियोगिनी
सुदतीजनमज्जनार्पितैर्घुसृणैर्यत्र कषायिताशया । न निशाखिलयापि वापिका प्रससाद ग्रहिलेव मानिनी ॥
NC 2.78 वियोगिनी
क्षणनीरवया यया निशि श्रितवप्रावलियोगपट्टया । मणिवेश्ममयं स्म निर्मलं किमपि ज्योतिरबाह्यमिज्यते ॥
NC 2.79 वियोगिनी
विललास जलाशयोदरे क्वचन द्यौरनुबिम्बितेव या । परिखाकपटस्फुटस्फुटत्प्रतिबिम्बानवलम्बिताम्बुनि ॥
NC 2.80 वियोगिनी
व्रजते दिवि यद्गृहावलीचलचेलाञ्चलदण्डताडनाः । व्यतरन्नरुणाय विश्रमं सृजते हेलिहयालिकालनाम् ॥
NC 2.81 वियोगिनी
क्षितिगर्भधराम्बरालयैः तलमध्योपरिपूरिणां पृथक् । जगतां किल याखिलाद्भुताजनि सारैर्निजचिह्नधारिभिः ॥
NC 2.82 वियोगिनी
दधदम्बुदनीलकण्ठतां वहदत्यच्छसुधोज्जलं वपुः । कथमृच्छतु यत्र नाम न क्षितिभृन्मन्दिरमिन्दुमौलिताम् ॥
NC 2.83 वियोगिनी
बहुरूपकशालभञ्जिकामुखचन्द्रेषु कलङ्करङ्कवः । यदनेककसौधकंधराहरिभिः कुक्षिगतीकृता इव ॥
NC 2.84 वियोगिनी
बलिसद्मदिवं स तथ्यवाग् उपरि स्माह दिवोऽपि नारदः । अधराथ कृता ययेव सा विपरीताजनि भूविभूषया ॥
NC 2.85 वियोगिनी
प्रतिहट्टपथे घरट्टजात्पथिकाह्वानदसक्तुसौरभैः । कलहान्न घनाद्यदुत्थितात् अधुनाप्युज्झति घर्घरस्वरः ॥
NC 2.86 वियोगिनी
वरणः कनकस्य मानिनीं दिवमङ्कादमराद्रिरागताम् । घनरत्नकपाटपक्षतिः परिरभ्यानुनयन्नुवास याम् ॥
NC 2.87 वियोगिनी
अनलैः परिवेषमेत्य या ज्वलदर्कोपलवप्रजन्मभिः । उदयं लयमन्तरा रवेरवहद्बाणपुरीपरार्ध्यताम् ॥
NC 2.88 वियोगिनी
बहुकम्बुमणिर्वराटिकागणनाटत्करकर्कटोत्करः । हिमवालुकयाच्छवालुकः पटु दध्वान यदापणार्णवः ॥
NC 2.89 वियोगिनी
यदगारघटाट्टकुट्टिमस्रवदिन्दूपलतुन्दिलापया । मुमुचे न पतिव्रतौचिती प्रतिचन्द्रोदयमभ्रगङ्गया ॥
NC 2.90 वियोगिनी
रुचयोऽस्तमितस्य भास्वतः स्खलिता यत्र निरालयाः किल । अनुसायमभुर्विलेपनापणकश्मीरजपण्यवीथयः ॥
← Previous (Ch. 1) Full Table of Contents Next (Ch. 3) →