अपि तद्वपुषि प्रसर्पतोः गमिते कान्तिझरैरगाधताम् । स्मरयौवनयोः खलु द्वयोः प्लवकुम्भौ भवतः कुचावुभौ ॥
कलसे निजहेतुदण्डजः किमु चक्रभ्रमकारितागुणः । स तदुच्चकुचौ भवन्प्रभाझरचक्रभ्रममातनोति यत् ॥
भजते खलु षण्मुखं शिखी चिकुरैर्निर्मितबर्हगर्हणः । अपि जम्भरिपुं दमस्वसुर्जितकुम्भः कुचशोभयेभराट् ॥
उदरं नतमध्यपृष्ठतास्फुटदङ्गुष्ठपदेन मुष्टिना । चतुरङ्गुलमध्यनिर्गतत्रिबलिभ्राजि कृतं दमस्वसुः ॥
उदरं परिमाति मुष्टिना कुतुकी कोऽपि दमस्वसुः किमु । धृततच्चतुरङ्गुलीव यद्वलिभिर्माति सहेमकाञ्चिभिः ॥
पृथुवर्तुलतन्नितम्बकृन्मिहिरस्यन्दनशिल्पशिक्षया । विधिरेककचक्रचारिणं किमु निर्मित्सति मान्मथं रथम् ॥
तरुमूरुयुगेन सुन्दरी किमु रम्भां परिणाहिना परम् । तरुणीमपि जिष्णुरेव तां धनदापत्यतपःफलस्तनीम् ॥
जलजे रविसेवयेव ये पदमेतत्पदतामवापतुः । ध्रुवमेत्य रुतः सहंसकीकुरुतस्ते विधिपत्रदंपती ॥
श्रितपुण्यसरः सरित्कथं न समाधि क्षपिताखिलक्षपम् । जलजं गतिमेतु मञ्जुलां दमयन्तीपदनाम्नि जन्मनि ॥
सरसीः परिशीलितुं मया गमिकर्मीकृतनैकनीवृता । अतिथित्वमनायि सा दृशोः सदसत्संशयगोचरोदरी ॥
अवधृत्य दिवोऽपि यौवतैर्न सहाधीतवतीमिमामहम् । कतमस्तु विधातुराशये पतिरस्या वसतीत्यचिन्तयम् ॥
अनुरूपमिमं निरूपयन्नथ सर्वेष्वपि पूर्वपक्षताम् । युवसु व्यपनेतुमक्षमः त्वयि सिद्धान्तधियं न्यवेशयम् ॥
अनया तव रूपसीमया कृतसंस्कारविबोधनस्य मे । चिरमप्यवलोकिताद्य सा स्मृतिमारूढवती शुचिस्मिता ॥
त्वयि वीर ! विराजते परं दमयन्तीकिलकिञ्चितं किल । तरुणीस्तन एव दीप्यते मणिहारावलिरामणीयकम् ॥
तव रूपमिदं तया विना विफलं पुष्पमिवावकेशिनः । इयमुद्धधना वृथावनी स्ववनी संप्रवदत्पिकापि का ॥
अनया सुरकाम्यमानया सह योगः सुलभस्तु न त्वया । धनसंवृतयाम्बुदागमे कुमुदेनेव निशाकरत्विषा ॥
तदहं विदधे तथा तथा दमयन्त्याः सविधे तव स्तवम् । हृदये निहितस्तया भवान् अपि नेन्द्रेण यथापनीयते ॥
तव संमतिमेव केवलामधिगन्तुं धिगिदं निवेदितम् । ब्रुवते हि फलेन साधवो न तु कण्ठेन निजोपयोगिताम् ॥
तदिदं विशदं वचोमृतं परिपीयाभ्युदितं द्विजाधिपात् । अतितृप्ततया विनिर्ममे स तदुद्गारमिव स्मितं सितम् ॥
परिमृज्य भुजाग्रजन्मना पतगं कोकनदेन नैषधः । मृदु तस्य मुदेऽकिरद्गिरः प्रियवादामृतकूपकण्ठजाः ॥
न तुलाविषये तवाकृतिर्न वचोवर्त्मनि ते सुशीलता । त्वदुदाहरणाकृतौ गुणा इति सामुद्रिकसारमुद्रणा ॥
न सुवर्णमयी तनुः परं ननु किं वागपि तावकी तथा । न परं पथि पक्षपातिताऽनवलम्बे किमु मादृशेऽपि सा ॥
भृशतापभृता मया भवान्मरुदासादि तुषारसारवान् । धनिनामितरः सतां पुनर्गुणवत्संनिधिरेव सन्निधिः ॥
शतशः श्रुतिमागतैव सा त्रिजगन्मोहमहौषधिर्मम । अमुना तव शंसितेन तु स्वदृशैवाधिगतामवैमि ताम् ॥
अखिलं विदुषामनाविलं सुहृदा च स्वहृदा च पश्यताम् । सविधेऽपि न सूक्ष्मसाक्षिणी वदनालंकृतिमात्रमक्षिणी ॥
अमितं मधु तत्कथा मम श्रवणप्राघुणकीकृता जनैः । मदनानलबोधने भवेत्खग ! धाय्या धिगधैर्यधारिणः ॥
विषमो मलयाहिमण्डलीविषफूत्कारमयो मयोहितः । खग ! कालकलत्रदिग्भवः पवनस्तद्विरहानलैधसा ॥
प्रतिमासमसौ निशापतिः खग ! संच्छति यद्दिनाधिपम् । किमु तीव्रतरैस्ततः करैर्मम दाहाय स धैर्यतस्करैः ॥
कुसुमानि यदि स्मरेषवो न तु वज्रं विषवल्लिजानि तत् । हृदयं यदमूमुहन्नमूर्मम यच्चातितरामतीतपन् ॥
तदिहानवधौ निमज्जतो मम कंदर्पशराधिनीरघौ । भव पोत इवावलम्बनं विधिनाकस्मिकसृष्टसंनिधिः ॥