Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 94

Ādiparva Adhyāya 94

आदिपर्व • अध्यायः 94

Ādiparva Adhyāya 94 of the classical Mahābhārata with 95 verses.

Total: 95 Verses • Citations: MBh 1.94.1–95 • 250 Lexicon Terms • Page 3 of 4 (Verses 30 shown)
अग्निहोत्रं त्रयो वेदा यज्ञाश्च सहदक्षिणाः । सर्वाण्येतान्यपत्यस्य कलां नार्हन्ति षोडशीम् ॥
एवमेव मनुष्येषु स्याच्च सर्वप्रजास्वपि । यदपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः । एषा त्रयी पुराणानामुत्तमानां च शाश्वती ॥
त्वं च शूरः सदामर्षी शस्त्रनित्यश्च भारत । नान्यत्र शस्त्रात्तस्मात्ते निधनं विद्यतेऽनघ ॥
सोऽस्मि संशयमापन्नस्त्वयि शान्ते कथं भवेत् । इति ते कारणं तात दुःखस्योक्तमशेषतः ॥
ततस्तत्कारणं ज्ञात्वा कृत्स्नं चैवमशेषतः । देवव्रतो महाबुद्धिः प्रययावनुचिन्तयन् ॥
अभ्यगच्छत्तदैवाशु वृद्धामात्यं पितुर्हितम् । तमपृच्छत्तदाभ्येत्य पितुस्तच्छोककारणम् ॥
तस्मै स कुरुमुख्याय यथावत्परिपृच्छते । वरं शशंस कन्यां तामुद्दिश्य भरतर्षभ ॥
ततो देवव्रतो वृद्धैः क्षत्रियैः सहितस्तदा । अभिगम्य दाशराजानं कन्यां वव्रे पितुः स्वयम् ॥
तं दाशः प्रतिजग्राह विधिवत्प्रतिपूज्य च । अब्रवीच्चैनमासीनं राजसंसदि भारत ॥
त्वमेव नाथः पर्याप्तः शंतनोः पुरुषर्षभ । पुत्रः पुत्रवतां श्रेष्ठः किं नु वक्ष्यामि ते वचः ॥
को हि संबन्धकं श्लाघ्यमीप्सितं यौनमीदृशम् । अतिक्रामन्न तप्येत साक्षादपि शतक्रतुः ॥
अपत्यं चैतदार्यस्य यो युष्माकं समो गुणैः । यस्य शुक्रात्सत्यवती प्रादुर्भूता यशस्विनी ॥
तेन मे बहुशस्तात पिता ते परिकीर्तितः । अर्हः सत्यवतीं वोढुं सर्वराजसु भारत ॥
असितो ह्यपि देवर्षिः प्रत्याख्यातः पुरा मया । सत्यवत्या भृशं ह्यर्थी स आसीदृषिसत्तमः ॥
कन्यापितृत्वात्किंचित्तु वक्ष्यामि भरतर्षभ । बलवत्सपत्नतामत्र दोषं पश्यामि केवलम् ॥
यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा । न स जातु सुखं जीवेत्त्वयि क्रुद्धे परंतप ॥
एतावानत्र दोषो हि नान्यः कश्चन पार्थिव । एतज्जानीहि भद्रं ते दानादाने परंतप ॥
एवमुक्तस्तु गाङ्गेयस्तद्युक्तं प्रत्यभाषत । शृण्वतां भूमिपालानां पितुरर्थाय भारत ॥
इदं मे मतमादत्स्व सत्यं सत्यवतां वर । नैव जातो न वाजात ईदृशं वक्तुमुत्सहेत् ॥
एवमेतत्करिष्यामि यथा त्वमनुभाषसे । योऽस्यां जनिष्यते पुत्रः स नो राजा भविष्यति ॥
इत्युक्तः पुनरेवाथ तं दाशः प्रत्यभाषत । चिकीर्षुर्दुष्करं कर्म राज्यार्थे भरतर्षभ ॥
त्वमेव नाथः पर्याप्तः शंतनोरमितद्युतेः । कन्यायाश्चैव धर्मात्मन्प्रभुर्दानाय चेश्वरः ॥
इदं तु वचनं सौम्य कार्यं चैव निबोध मे । कौमारिकाणां शीलेन वक्ष्याम्यहमरिंदम ॥
यत्त्वया सत्यवत्यर्थे सत्यधर्मपरायण । राजमध्ये प्रतिज्ञातमनुरूपं तवैव तत् ॥
नान्यथा तन्महाबाहो संशयोऽत्र न कश्चन । तवापत्यं भवेद्यत्तु तत्र नः संशयो महान् ॥
तस्य तन्मतमाज्ञाय सत्यधर्मपरायणः । प्रत्यजानात्तदा राजन्पितुः प्रियचिकीर्षया ॥
दाशराज निबोधेदं वचनं मे नृपोत्तम । शृण्वतां भूमिपालानां यद्ब्रवीमि पितुः कृते ॥
राज्यं तावत्पूर्वमेव मया त्यक्तं नराधिप । अपत्यहेतोरपि च करोम्येष विनिश्चयम् ॥
अद्य प्रभृति मे दाश ब्रह्मचर्यं भविष्यति । अपुत्रस्यापि मे लोका भविष्यन्त्यक्षया दिवि ॥
तस्य तद्वचनं श्रुत्वा संप्रहृष्टतनूरुहः । ददानीत्येव तं दाशो धर्मात्मा प्रत्यभाषत ॥
← Previous (Ch. 93) Full Table of Contents Next (Ch. 95) →