Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 94

Ādiparva Adhyāya 94

आदिपर्व • अध्यायः 94

Ādiparva Adhyāya 94 of the classical Mahābhārata with 95 verses.

Total: 95 Verses • Citations: MBh 1.94.1–95 • 250 Lexicon Terms • Page 4 of 4 (Verses 5 shown)
ततोऽन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तथा । अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन् ॥
ततः स पितुरर्थाय तामुवाच यशस्विनीम् । अधिरोह रथं मातर्गच्छावः स्वगृहानिति ॥
एवमुक्त्वा तु भीष्मस्तां रथमारोप्य भामिनीम् । आगम्य हास्तिनपुरं शंतनोः संन्यवेदयत् ॥
तस्य तद्दुष्करं कर्म प्रशशंसुर्नराधिपाः । समेताश्च पृथक्चैव भीष्मोऽयमिति चाब्रुवन् ॥
तद्दृष्ट्वा दुष्करं कर्म कृतं भीष्मेण शंतनुः । स्वच्छन्दमरणं तस्मै ददौ तुष्टः पिता स्वयम् ॥
← Previous (Ch. 93) Full Table of Contents Next (Ch. 95) →