Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 94

Ādiparva Adhyāya 94

आदिपर्व • अध्यायः 94

Ādiparva Adhyāya 94 of the classical Mahābhārata with 95 verses.

Total: 95 Verses • Citations: MBh 1.94.1–95 • 250 Lexicon Terms • Page 1 of 4 (Verses 30 shown)
स एवं शंतनुर्धीमान्देवराजर्षिसत्कृतः । धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः ॥
दमो दानं क्षमा बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् । नित्यान्यासन्महासत्त्वे शंतनौ पुरुषर्षभे ॥
एवं स गुणसंपन्नो धर्मार्थकुशलो नृपः । आसीद्भरतवंशस्य गोप्ता साधुजनस्य च ॥
कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः । धर्म एव परः कामादर्थाच्चेति व्यवस्थितः ॥
एतान्यासन्महासत्त्वे शंतनौ भरतर्षभ । न चास्य सदृशः कश्चित्क्षत्रियो धर्मतोऽभवत् ॥
वर्तमानं हि धर्मे स्वे सर्वधर्मविदां वरम् । तं महीपा महीपालं राजराज्येऽभ्यषेचयन् ॥
वीतशोकभयाबाधाः सुखस्वप्नविबोधनाः । प्रति भारतगोप्तारं समपद्यन्त भूमिपाः ॥
शंतनुप्रमुखैर्गुप्ते लोके नृपतिभिस्तदा । नियमात्सर्ववर्णानां ब्रह्मोत्तरमवर्तत ॥
ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः । ब्रह्मक्षत्रानुरक्ताश्च शूद्राः पर्यचरन्विशः ॥
स हास्तिनपुरे रम्ये कुरूणां पुटभेदने । वसन्सागरपर्यन्तामन्वशाद्वै वसुंधराम् ॥
स देवराजसदृशो धर्मज्ञः सत्यवागृजुः । दानधर्मतपोयोगाच्छ्रिया परमया युतः ॥
अरागद्वेषसंयुक्तः सोमवत्प्रियदर्शनः । तेजसा सूर्यसंकाशो वायुवेगसमो जवे । अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः ॥
वधः पशुवराहाणां तथैव मृगपक्षिणाम् । शंतनौ पृथिवीपाले नावर्तत वृथा नृप ॥
धर्मब्रह्मोत्तरे राज्ये शंतनुर्विनयात्मवान् । समं शशास भूतानि कामरागविवर्जितः ॥
देवर्षिपितृयज्ञार्थमारभ्यन्त तदा क्रियाः । न चाधर्मेण केषांचित्प्राणिनामभवद्वधः ॥
असुखानामनाथानां तिर्यग्योनिषु वर्तताम् । स एव राजा भूतानां सर्वेषामभवत्पिता ॥
तस्मिन्कुरुपतिश्रेष्ठे राजराजेश्वरे सति । श्रिता वागभवत्सत्यं दानधर्माश्रितं मनः ॥
स समाः षोडशाष्टौ च चतस्रोऽष्टौ तथापराः । रतिमप्राप्नुवन्स्त्रीषु बभूव वनगोचरः ॥
तथारूपस्तथाचारस्तथावृत्तस्तथाश्रुतः । गाङ्गेयस्तस्य पुत्रोऽभून्नाम्ना देवव्रतो वसुः ॥
सर्वास्त्रेषु स निष्णातः पार्थिवेष्वितरेषु च । महाबलो महासत्त्वो महावीर्यो महारथः ॥
स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन्नदीम् । भागीरथीमल्पजलां शंतनुर्दृष्टवान्नृपः ॥
तां दृष्ट्वा चिन्तयामास शंतनुः पुरुषर्षभः । स्यन्दते किं न्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा ॥
ततो निमित्तमन्विच्छन्ददर्श स महामनाः । कुमारं रूपसंपन्नं बृहन्तं चारुदर्शनम् ॥
दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरंदरम् । कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम् ॥
तां शरैरावृतां दृष्ट्वा नदीं गङ्गां तदन्तिके । अभवद्विस्मितो राजा कर्म दृष्ट्वातिमानुषम् ॥
जातमात्रं पुरा दृष्टं तं पुत्रं शंतनुस्तदा । नोपलेभे स्मृतिं धीमानभिज्ञातुं तमात्मजम् ॥
स तु तं पितरं दृष्ट्वा मोहयामास मायया । संमोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत ॥
तदद्भुतं तदा दृष्ट्वा तत्र राजा स शंतनुः । शङ्कमानः सुतं गङ्गामब्रवीद्दर्शयेति ह ॥
दर्शयामास तं गङ्गा बिभ्रती रूपमुत्तमम् । गृहीत्वा दक्षिणे पाणौ तं कुमारमलंकृतम् ॥
← Previous (Ch. 93) Full Table of Contents Next (Ch. 95) →