Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 93

Ādiparva Adhyāya 93

आदिपर्व • अध्यायः 93

Ādiparva Adhyāya 93 of the classical Mahābhārata with 47 verses.

Total: 47 Verses • Citations: MBh 1.93.1–47 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
आपवो नाम को न्वेष वसूनां किं च दुष्कृतम् । यस्याभिशापात्ते सर्वे मानुषीं तनुमागताः ॥
अनेन च कुमारेण गङ्गादत्तेन किं कृतम् । यस्य चैव कृतेनायं मानुषेषु निवत्स्यति ॥
ईशानाः सर्वलोकस्य वसवस्ते च वै कथम् । मानुषेषूदपद्यन्त तन्ममाचक्ष्व जाह्नवि ॥
सैवमुक्ता ततो गङ्गा राजानमिदमब्रवीत् । भर्तारं जाह्नवी देवी शंतनुं पुरुषर्षभम् ॥
यं लेभे वरुणः पुत्रं पुरा भरतसत्तम । वसिष्ठो नाम स मुनिः ख्यात आपव इत्युत ॥
तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम् । मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम् ॥
स वारुणिस्तपस्तेपे तस्मिन्भरतसत्तम । वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके ॥
दक्षस्य दुहिता या तु सुरभीत्यतिगर्विता । गां प्रजाता तु सा देवी कश्यपाद्भरतर्षभ ॥
अनुग्रहार्थं जगतः सर्वकामदुघां वराम् । तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः ॥
सा तस्मिंस्तापसारण्ये वसन्ती मुनिसेविते । चचार रम्ये धर्म्ये च गौरपेतभया तदा ॥
अथ तद्वनमाजग्मुः कदाचिद्भरतर्षभ । पृथ्वाद्या वसवः सर्वे देवदेवर्षिसेवितम् ॥
ते सदारा वनं तच्च व्यचरन्त समन्ततः । रेमिरे रमणीयेषु पर्वतेषु वनेषु च ॥
तत्रैकस्य तु भार्या वै वसोर्वासवविक्रम । सा चरन्ती वने तस्मिन्गां ददर्श सुमध्यमा । या सा वसिष्ठस्य मुनेः सर्वकामधुगुत्तमा ॥
सा विस्मयसमाविष्टा शीलद्रविणसंपदा । दिवे वै दर्शयामास तां गां गोवृषभेक्षण ॥
स्वापीनां च सुदोग्ध्रीं च सुवालधिमुखां शुभाम् । उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च ॥
एवंगुणसमायुक्तां वसवे वसुनन्दिनी । दर्शयामास राजेन्द्र पुरा पौरवनन्दन ॥
द्यौस्तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्रविक्रम । उवाच राजंस्तां देवीं तस्या रूपगुणान्वदन् ॥
एषा गौरुत्तमा देवि वारुणेरसितेक्षणे । ऋषेस्तस्य वरारोहे यस्येदं वनमुत्तमम् ॥
अस्याः क्षीरं पिबेन्मर्त्यः स्वादु यो वै सुमध्यमे । दश वर्षसहस्राणि स जीवेत्स्थिरयौवनः ॥
एतच्छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा । तमुवाचानवद्याङ्गी भर्तारं दीप्ततेजसम् ॥
अस्ति मे मानुषे लोके नरदेवात्मजा सखी । नाम्ना जिनवती नाम रूपयौवनशालिनी ॥
उशीनरस्य राजर्षेः सत्यसंधस्य धीमतः । दुहिता प्रथिता लोके मानुषे रूपसंपदा ॥
तस्या हेतोर्महाभाग सवत्सां गां ममेप्सिताम् । आनयस्वामरश्रेष्ठ त्वरितं पुण्यवर्धन ॥
यावदस्याः पयः पीत्वा सा सखी मम मानद । मानुषेषु भवत्वेका जरारोगविवर्जिता ॥
एतन्मम महाभाग कर्तुमर्हस्यनिन्दित । प्रियं प्रियतरं ह्यस्मान्नास्ति मेऽन्यत्कथंचन ॥
एतच्छ्रुत्वा वचस्तस्या देव्याः प्रियचिकीर्षया । पृथ्वाद्यैर्भ्रातृभिः सार्धं द्यौस्तदा तां जहार गाम् ॥
तया कमलपत्राक्ष्या नियुक्तो द्यौस्तदा नृप । ऋषेस्तस्य तपस्तीव्रं न शशाक निरीक्षितुम् । हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः ॥
अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः । न चापश्यत गां तत्र सवत्सां काननोत्तमे ॥
ततः स मृगयामास वने तस्मिंस्तपोधनः । नाध्यगच्छच्च मृगयंस्तां गां मुनिरुदारधीः ॥
← Previous (Ch. 92) Full Table of Contents Next (Ch. 94) →