Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 94

Ādiparva Adhyāya 94

आदिपर्व • अध्यायः 94

Ādiparva Adhyāya 94 of the classical Mahābhārata with 95 verses.

Total: 95 Verses • Citations: MBh 1.94.1–95 • 250 Lexicon Terms • Page 2 of 4 (Verses 30 shown)
अलंकृतामाभरणैररजोम्बरधारिणीम् । दृष्टपूर्वामपि सतीं नाभ्यजानात्स शंतनुः ॥
यं पुत्रमष्टमं राजंस्त्वं पुरा मय्यजायिथाः । स तेऽयं पुरुषव्याघ्र नयस्वैनं गृहान्तिकम् ॥
वेदानधिजगे साङ्गान्वसिष्ठादेव वीर्यवान् । कृतास्त्रः परमेष्वासो देवराजसमो युधि ॥
सुराणां संमतो नित्यमसुराणां च भारत । उशना वेद यच्छास्त्रमयं तद्वेद सर्वशः ॥
तथैवाङ्गिरसः पुत्रः सुरासुरनमस्कृतः । यद्वेद शास्त्रं तच्चापि कृत्स्नमस्मिन्प्रतिष्ठितम् । तव पुत्रे महाबाहौ साङ्गोपाङ्गं महात्मनि ॥
ऋषिः परैरनाधृष्यो जामदग्न्यः प्रतापवान् । यदस्त्रं वेद रामश्च तदप्यस्मिन्प्रतिष्ठितम् ॥
महेष्वासमिमं राजन्राजधर्मार्थकोविदम् । मया दत्तं निजं पुत्रं वीरं वीर गृहान्नय ॥
तयैवं समनुज्ञातः पुत्रमादाय शंतनुः । भ्राजमानं यथादित्यमाययौ स्वपुरं प्रति ॥
पौरवः स्वपुरं गत्वा पुरंदरपुरोपमम् । सर्वकामसमृद्धार्थं मेने आत्मानमात्मना । पौरवेषु ततः पुत्रं यौवराज्येऽभ्यषेचयत् ॥
पौरवाञ्शंतनोः पुत्रः पितरं च महायशाः । राष्ट्रं च रञ्जयामास वृत्तेन भरतर्षभ ॥
स तथा सह पुत्रेण रममाणो महीपतिः । वर्तयामास वर्षाणि चत्वार्यमितविक्रमः ॥
स कदाचिद्वनं यातो यमुनामभितो नदीम् । महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम् ॥
तस्य प्रभवमन्विच्छन्विचचार समन्ततः । स ददर्श तदा कन्यां दाशानां देवरूपिणीम् ॥
तामपृच्छत्स दृष्ट्वैव कन्यामसितलोचनाम् । कस्य त्वमसि का चासि किं च भीरु चिकीर्षसि ॥
साब्रवीद्दाशकन्यास्मि धर्मार्थं वाहये तरीम् । पितुर्नियोगाद्भद्रं ते दाशराज्ञो महात्मनः ॥
रूपमाधुर्यगन्धैस्तां संयुक्तां देवरूपिणीम् । समीक्ष्य राजा दाशेयीं कामयामास शंतनुः ॥
स गत्वा पितरं तस्या वरयामास तां तदा । पर्यपृच्छत्ततस्तस्याः पितरं चात्मकारणात् ॥
स च तं प्रत्युवाचेदं दाशराजो महीपतिम् । जातमात्रैव मे देया वराय वरवर्णिनी । हृदि कामस्तु मे कश्चित्तं निबोध जनेश्वर ॥
यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसेऽनघ । सत्यवागसि सत्येन समयं कुरु मे ततः ॥
समयेन प्रदद्यां ते कन्यामहमिमां नृप । न हि मे त्वत्समः कश्चिद्वरो जातु भविष्यति ॥
श्रुत्वा तव वरं दाश व्यवस्येयमहं न वा । दातव्यं चेत्प्रदास्यामि न त्वदेयं कथंचन ॥
अस्यां जायेत यः पुत्रः स राजा पृथिवीपतिः । त्वदूर्ध्वमभिषेक्तव्यो नान्यः कश्चन पार्थिव ॥
नाकामयत तं दातुं वरं दाशाय शंतनुः । शरीरजेन तीव्रेण दह्यमानोऽपि भारत ॥
स चिन्तयन्नेव तदा दाशकन्यां महीपतिः । प्रत्ययाद्धास्तिनपुरं शोकोपहतचेतनः ॥
ततः कदाचिच्छोचन्तं शंतनुं ध्यानमास्थितम् । पुत्रो देवव्रतोऽभ्येत्य पितरं वाक्यमब्रवीत् ॥
सर्वतो भवतः क्षेमं विधेयाः सर्वपार्थिवाः । तत्किमर्थमिहाभीक्ष्णं परिशोचसि दुःखितः । ध्यायन्निव च किं राजन्नाभिभाषसि किंचन ॥
एवमुक्तः स पुत्रेण शंतनुः प्रत्यभाषत । असंशयं ध्यानपरं यथा मात्थ तथास्म्युत ॥
अपत्यं नस्त्वमेवैकः कुले महति भारत । अनित्यता च मर्त्यानामतः शोचामि पुत्रक ॥
कथंचित्तव गाङ्गेय विपत्तौ नास्ति नः कुलम् । असंशयं त्वमेवैकः शतादपि वरः सुतः ॥
न चाप्यहं वृथा भूयो दारान्कर्तुमिहोत्सहे । संतानस्याविनाशाय कामये भद्रमस्तु ते । अनपत्यतैकपुत्रत्वमित्याहुर्धर्मवादिनः ॥
← Previous (Ch. 93) Full Table of Contents Next (Ch. 95) →