Skip to main content
Search
MBh
Mahābhārata • Parva 8 (Karṇaparva) • Adhyāya 61

Karṇaparva Adhyāya 61

कर्णपर्व • अध्यायः 61

Karṇaparva Adhyāya 61 of the classical Mahābhārata with 18 verses.

Total: 18 Verses • Citations: MBh 8.61.1–18 • 250 Lexicon Terms
तत्राकरोद्दुष्करं राजपुत्रो; दुःशासनस्तुमुले युध्यमानः । चिच्छेद भीमस्य धनुः क्षुरेण; षड्भिः शरैः सारथिमप्यविध्यत् ॥
English Translation
Sanjaya said In that fight Prince Dushasana fought with great prowess and performed difficult feats; with a single arrows he severed Bhimasena's bow and struck his driver with six others.
ततोऽभिनद्बहुभिः क्षिप्रमेव; वरेषुभिर्भीमसेनं महात्मा । स विक्षरन्नाग इव प्रभिन्नो; गदामस्मै तुमुले प्राहिणोद्वै ॥
तयाहरद्दश धन्वन्तराणि; दुःशासनं भीमसेनः प्रसह्य । तया हतः पतितो वेपमानो; दुःशासनो गदया वेगवत्या ॥
हयाः ससूताश्च हता नरेन्द्र; चूर्णीकृतश्चास्य रथः पतन्त्या । विध्वस्तवर्माभरणाम्बरस्र;ग्विचेष्टमानो भृशवेदनार्तः ॥
English Translation
When he reached and ground he was shaking all over from the shock of that weapon. All his ornaments, garlands and dresses were destroyed and torn.
ततः स्मृत्वा भीमसेनस्तरस्वी; सापत्नकं यत्प्रयुक्तं सुतैस्ते । रथादवप्लुत्य गतः स भूमौ; यत्नेन तस्मिन्प्रणिधाय चक्षुः ॥
असिं समुद्धृत्य शितं सुधारं; कण्ठे समाक्रम्य च वेपमानम् । उत्कृत्य वक्षः पतितस्य भूमा;वथापिबच्छोणितमस्य कोष्णम् । आस्वाद्य चास्वाद्य च वीक्षमाणः; क्रुद्धोऽतिवेलं प्रजगाद वाक्यम् ॥
स्तन्यस्य मातुर्मधुसर्पिषो वा; माध्वीकपानस्य च सत्कृतस्य । दिव्यस्य वा तोयरसस्य पाना;त्पयोदधिभ्यां मथिताच्च मुख्यात् । सर्वेभ्य एवाभ्यधिको रसोऽयं; मतो ममाद्याहितलोहितस्य ॥
एवं ब्रुवाणं पुनराद्रवन्त;मास्वाद्य वल्गन्तमतिप्रहृष्टम् । ये भीमसेनं ददृशुस्तदानीं; भयेन तेऽपि व्यथिता निपेतुः ॥
English Translation
O monarch, he, who then saw Bhimasena who was glad at heart by drinking the blood of his enemy and was placing the battle-field giving vent to those words, actually fell down to the earth out of sheer fear.
ये चापि तत्रापतिता मनुष्या;स्तेषां करेभ्यः पतितं च शस्त्रम् । भयाच्च संचुक्रुशुरुच्चकैस्ते; निमीलिताक्षा ददृशुश्च तन्न ॥
English Translation
Others who were not thus struck down were also so affected with fear that they lost hold of their weapons and some with half closed eyes looked fearfully towards Bhimasena uttering meaningless ejaculations.
ये तत्र भीमं ददृशुः समन्ता;द्दौःशासनं तद्रुधिरं पिबन्तम् । सर्वे पलायन्त भयाभिपन्ना; नायं मनुष्य इति भाषमाणाः ॥
English Translation
Those men, who were at that time near Bhima and who saw him thus drink Dusasana's blood being overpowered with fear, fled on all directions saying to each other that he is no human being.
शृण्वतां लोकवीराणामिदं वचनमब्रवीत् । एष ते रुधिरं कण्ठात्पिबामि पुरुषाधम । ब्रूहीदानीं सुसंरब्धः पुनर्गौरिति गौरिति ॥
English Translation
O you most miserable wretch, now I am drinking your heart's blood” do you again joyfully defy us and say, “Beast, Beast”.
प्रमाणकोट्यां शयनं कालकूटस्य भोजनम् । दशनं चाहिभिः कष्टं दाहं च जतुवेश्मनि ॥
द्यूतेन राज्यहरणमरण्ये वसतिश्च या । इष्वस्त्राणि च संग्रामेष्वसुखानि च वेश्मनि ॥
दुःखान्येतानि जानीमो न सुखानि कदाचन । धृतराष्ट्रस्य दौरात्म्यात्सपुत्रस्य सदा वयम् ॥
इत्युक्त्वा वचनं राजञ्जयं प्राप्य वृकोदरः । पुनराह महाराज स्मयंस्तौ केशवार्जुनौ ॥
दुःशासने यद्रणे संश्रुतं मे; तद्वै सर्वं कृतमद्येह वीरौ । अद्यैव दास्याम्यपरं द्वितीयं; दुर्योधनं यज्ञपशुं विशस्य । शिरो मृदित्वा च पदा दुरात्मनः; शान्तिं लप्स्ये कौरवाणां समक्षम् ॥
English Translation
I will very soon redeem my other promise by crushing the head of that other the miscreant Duryodhana with my foot, as a sacrifice in this warfare, before all the Kauravas and then I will know peace."
एतावदुक्त्वा वचनं प्रहृष्टो; ननाद चोच्चै रुधिरार्द्रगात्रः । ननर्त चैवातिबलो महात्मा; वृत्रं निहत्येव सहस्रनेत्रः ॥
English Translation
And the mighty Bhimasena uttering these joyfully with blood streaming through his body, began to shout loudly as thousand-eyes (Indra) after killing the (Asura) Vritra.
← Previous (Ch. 1210) Full Table of Contents Next (Ch. 1212) →