Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 2

Araṇyakaparva (Vanaparva) Adhyāya 2

अरण्यकपर्व • अध्यायः 2

Araṇyakaparva (Vanaparva) Adhyāya 2 of the classical Mahābhārata with 80 verses.

Total: 80 Verses • Citations: MBh 3.2.1–80 • 250 Lexicon Terms • Page 1 of 3 (Verses 30 shown)
प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम् । वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽग्रतः । तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः ॥
वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः । फलमूलामिषाहारा वनं यास्याम दुःखिताः ॥
वनं च दोषबहुलं बहुव्यालसरीसृपम् । परिक्लेशश्च वो मन्ये ध्रुवं तत्र भविष्यति ॥
ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत् । किं पुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः ॥
गतिर्या भवतां राजंस्तां वयं गन्तुमुद्यताः । नार्हथास्मान्परित्यक्तुं भक्तान्सद्धर्मदर्शिनः ॥
अनुकम्पां हि भक्तेषु दैवतान्यपि कुर्वते । विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु ॥
ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः । सहायविपरिभ्रंशस्त्वयं सादयतीव माम् ॥
आहरेयुर्हि मे येऽपि फलमूलमृगांस्तथा । त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः ॥
द्रौपद्या विप्रकर्षेण राज्यापहरणेन च । दुःखान्वितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे ॥
अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव । स्वयमाहृत्य वन्यानि अनुयास्यामहे वयम् ॥
अनुध्यानेन जप्येन विधास्यामः शिवं तव । कथाभिश्चानुकूलाभिः सह रंस्यामहे वने ॥
एवमेतन्न संदेहो रमेयं ब्राह्मणैः सह । न्यूनभावात्तु पश्यामि प्रत्यादेशमिवात्मनः ॥
कथं द्रक्ष्यामि वः सर्वान्स्वयमाहृतभोजनान् । मद्भक्त्या क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान् ॥
इत्युक्त्वा स नृपः शोचन्निषसाद महीतले । तमध्यात्मरतिर्विद्वाञ्शौनको नाम वै द्विजः । योगे सांख्ये च कुशलो राजानमिदमब्रवीत् ॥
शोकस्थानसहस्राणि भयस्थानशतानि च । दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥
न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु । श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥
अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोविघातिनीम् । श्रुतिस्मृतिसमायुक्तां सा राजंस्त्वय्यवस्थिता ॥
अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च । शारीरमानसैर्दुःखैर्न सीदन्ति भवद्विधाः ॥
श्रूयतां चाभिधास्यामि जनकेन यथा पुरा । आत्मव्यवस्थानकरा गीताः श्लोका महात्मना ॥
मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्दितं जगत् । तयोर्व्याससमासाभ्यां शमोपायमिमं शृणु ॥
व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात् । दुःखं चतुर्भिः शारीरं कारणैः संप्रवर्तते ॥
तदाशुप्रतिकाराच्च सततं चाविचिन्तनात् । आधिव्याधिप्रशमनं क्रियायोगद्वयेन तु ॥
मतिमन्तो ह्यतो वैद्याः शमं प्रागेव कुर्वते । मानसस्य प्रियाख्यानैः संभोगोपनयैर्नृणाम् ॥
मानसेन हि दुःखेन शरीरमुपतप्यते । अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम् ॥
मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना । प्रशान्ते मानसे दुःखे शारीरमुपशाम्यति ॥
मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते । स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च ॥
स्नेहमूलानि दुःखानि स्नेहजानि भयानि च । शोकहर्षौ तथायासः सर्वं स्नेहात्प्रवर्तते ॥
स्नेहात्करणरागश्च प्रजज्ञे वैषयस्तथा । अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः ॥
कोटराग्निर्यथाशेषं समूलं पादपं दहेत् । धर्मार्थिनं तथाल्पोऽपि रागदोषो विनाशयेत् ॥
← Previous (Ch. 298) Full Table of Contents Next (Ch. 300) →