Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 2

Araṇyakaparva (Vanaparva) Adhyāya 2

अरण्यकपर्व • अध्यायः 2

Araṇyakaparva (Vanaparva) Adhyāya 2 of the classical Mahābhārata with 80 verses.

Total: 80 Verses • Citations: MBh 3.2.1–80 • 250 Lexicon Terms • Page 2 of 3 (Verses 30 shown)
विप्रयोगे न तु त्यागी दोषदर्शी समागमात् । विरागं भजते जन्तुर्निर्वैरो निष्परिग्रहः ॥
तस्मात्स्नेहं स्वपक्षेभ्यो मित्रेभ्यो धनसंचयात् । स्वशरीरसमुत्थं तु ज्ञानेन विनिवर्तयेत् ॥
ज्ञानान्वितेषु मुख्येषु शास्त्रज्ञेषु कृतात्मसु । न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम् ॥
रागाभिभूतः पुरुषः कामेन परिकृष्यते । इच्छा संजायते तस्य ततस्तृष्णा प्रवर्तते ॥
तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी नृणाम् । अधर्मबहुला चैव घोरा पापानुबन्धिनी ॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः । योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥
अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम् । विनाशयति संभूता अयोनिज इवानलः ॥
यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति । तथाकृतात्मा लोभेन सहजेन विनश्यति ॥
राजतः सलिलादग्नेश्चोरतः स्वजनादपि । भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव ॥
यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि । भक्ष्यते सलिले मत्स्यैस्तथा सर्वेण वित्तवान् ॥
अर्थ एव हि केषांचिदनर्थो भविता नृणाम् । अर्थश्रेयसि चासक्तो न श्रेयो विन्दते नरः । तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः ॥
कार्पण्यं दर्पमानौ च भयमुद्वेग एव च । अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम् ॥
अर्थस्योपार्जने दुःखं पालने च क्षये तथा । नाशे दुःखं व्यये दुःखं घ्नन्ति चैवार्थकारणात् ॥
अर्था दुःखं परित्यक्तुं पालिताश्चापि तेऽसुखाः । दुःखेन चाधिगम्यन्ते तेषां नाशं न चिन्तयेत् ॥
असंतोषपरा मूढाः संतोषं यान्ति पण्डिताः । अन्तो नास्ति पिपासायाः संतोषः परमं सुखम् ॥
तस्मात्संतोषमेवेह धनं पश्यन्ति पण्डिताः । अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः । ऐश्वर्यं प्रियसंवासो गृध्येदेषु न पण्डितः ॥
त्यजेत संचयांस्तस्मात्तज्जं क्लेशं सहेत कः । न हि संचयवान्कश्चिद्दृश्यते निरुपद्रवः ॥
अतश्च धर्मिभिः पुम्भिरनीहार्थः प्रशस्यते । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥
युधिष्ठिरैवमर्थेषु न स्पृहां कर्तुमर्हसि । धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः ॥
नार्थोपभोगलिप्सार्थमियमर्थेप्सुता मम । भरणार्थं तु विप्राणां ब्रह्मन्काङ्क्षे न लोभतः ॥
कथं ह्यस्मद्विधो ब्रह्मन्वर्तमानो गृहाश्रमे । भरणं पालनं चापि न कुर्यादनुयायिनाम् ॥
संविभागो हि भूतानां सर्वेषामेव शिष्यते । तथैवापचमानेभ्यः प्रदेयं गृहमेधिना ॥
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता । सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन ॥
देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम् । तृषितस्य च पानीयं क्षुधितस्य च भोजनम् ॥
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् । प्रत्युद्गम्याभिगमनं कुर्यान्न्यायेन चार्चनम् ॥
अघिहोत्रमनड्वांश्च ज्ञातयोऽतिथिबान्धवाः । पुत्रदारभृताश्चैव निर्दहेयुरपूजिताः ॥
नात्मार्थं पाचयेदन्नं न वृथा घातयेत्पशून् । न च तत्स्वयमश्नीयाद्विधिवद्यन्न निर्वपेत् ॥
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि । वैश्वदेवं हि नामैतत्सायंप्रातर्विधीयते ॥
विघसाशी भवेत्तस्मान्नित्यं चामृतभोजनः । विघसं भृत्यशेषं तु यज्ञशेषं तथामृतम् ॥
एतां यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे । तस्य धर्मं परं प्राहुः कथं वा विप्र मन्यसे ॥
← Previous (Ch. 298) Full Table of Contents Next (Ch. 300) →