Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 2

Ādiparva Adhyāya 2

आदिपर्व • अध्यायः 2

Ādiparva Adhyāya 2 of the classical Mahābhārata with 244 verses.

Total: 244 Verses • Citations: MBh 1.2.1–244 • 250 Lexicon Terms • Page 2 of 9 (Verses 30 shown)
विचित्रार्थपदाख्यानमनेकसमयान्वितम् । अभिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः ॥
English Translation
As men desirous of final release, accept Vairagya, so it is accepted by the wise. As Self is among things to be known, as life among things that are dear.
आत्मेव वेदितव्येषु प्रियेष्विव च जीवितम् । इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम् ॥
English Translation
So is it the best among all histories and also among all Shastras. There is not a story current in the world which does not depend on it.
इतिहासोत्तमे ह्यस्मिन्नर्पिता बुद्धिरुत्तमा । स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक् ॥
English Translation
As the servant who wishes for promotion serves his master and as the words, constituting the various branches of knowledge and the Vedas, display vowels and consonants only, so this excellent history displays the highest knowledge.
अस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः । भारतस्येतिहासस्य श्रूयतां पर्वसंग्रहः ॥
English Translation
Hear the outline of the Parvas (chapters) of this Bharata history which is full of subtle meaning and logical connection and which is rich with the meanings of the Vedas.
पर्वानुक्रमणी पूर्वं द्वितीयं पर्वसंग्रहः । पौष्यं पौलोममास्तीकमादिवंशावतारणम् ॥
English Translation
The first is called Anukramanika, the second Parva Sangraha; then come Pauloma, Paushya, Astika, Adianshavatarana,
ततः संभवपर्वोक्तमद्भुतं देवनिर्मितम् । दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते ॥
English Translation
After this the wonderful and thoughtful Sambhava, then Jatugrihadaha, then Hidimba,
ततो बकवधः पर्व पर्व चैत्ररथं ततः । ततः स्वयंवरं देव्याः पाञ्चाल्याः पर्व चोच्यते ॥
English Translation
Then Baka-vadha and then Chaitraratha, then Panchali-svayamvara Parva,
क्षत्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम् । विदुरागमनं पर्व राज्यलम्भस्तथैव च ॥
English Translation
Then after defeating the rivals in rightful battle Vaivahika Parva, then Viduragamana and Rajya-lambha.
अर्जुनस्य वने वासः सुभद्राहरणं ततः । सुभद्राहरणादूर्ध्वं ज्ञेयं हरणहारिकम् ॥
English Translation
Then Arjuna-vanavasa, Subhadraharana, Harana-harika,
ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम् । सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम् ॥
English Translation
Then Khandava-daha and Mayadarshana, then come Sabha Parva and Mantra Parva,
जरासंधवधः पर्व पर्व दिग्विजयस्तथा । पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते ॥
English Translation
Then Jarasandha-vadha and Digvijaya; after Digvijaya comes the Parva called Rajasuyika.
ततश्चार्घाभिहरणं शिशुपालवधस्ततः । द्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम् ॥
English Translation
Then Arghabhiharana, Shishupalavadha, Dyuta, Anudyuta Parva; Then comes Aranyaka, Kirmira-vadha, Arjunabhigamana;
तत आरण्यकं पर्व किर्मीरवध एव च । ईश्वरार्जुनयोर्युद्धं पर्व कैरातसंज्ञितम् ॥
English Translation
And then Kairata, in which the battle between Arjuna and Shiva is described; Then Indralokabhigamana.
इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम् । तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः ॥
English Translation
Then the pathetic, pious and religious story of Nala-upakhyana; Then Tirtha-yatra of the wise king of the Kurus.
जटासुरवधः पर्व यक्षयुद्धमतः परम् । तथैवाजगरं पर्व विज्ञेयं तदनन्तरम् ॥
English Translation
Then Jatasura-vadha, then Yakshayuddha, then Nivatakavacha-yuddha and Ajagara;
मार्कण्डेयसमस्या च पर्वोक्तं तदनन्तरम् । संवादश्च ततः पर्व द्रौपदीसत्यभामयोः ॥
English Translation
Then Markandeya-samasya, then the Parva of the meeting of Draupadi and Satyabhama;
घोषयात्रा ततः पर्व मृगस्वप्नभयं ततः । व्रीहिद्रौणिकमाख्यानं ततोऽनन्तरमुच्यते ॥
English Translation
Then Ghoshayatra, Mriga-svapna, then Brihidraunikamakhyana and Aindradyumna;
द्रौपदीहरणं पर्व सैन्धवेन वनात्ततः । कुण्डलाहरणं पर्व ततः परमिहोच्यते ॥
English Translation
After this the story of Rama, then Kundala-Harana Parva:
आरणेयं ततः पर्व वैराटं तदनन्तरम् । कीचकानां वधः पर्व पर्व गोग्रहणं ततः ॥
English Translation
That which comes next is Aranya and then Virata, where the Pandavas went (in disguise) and fulfilled their promise.
अभिमन्युना च वैराट्याः पर्व वैवाहिकं स्मृतम् । उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम् ॥
ततः संजययानाख्यं पर्व ज्ञेयमतः परम् । प्रजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया ॥
English Translation
After this the story of Rama, then Kundala-Harana Parva:
पर्व सानत्सुजातं च गुह्यमध्यात्मदर्शनम् । यानसंधिस्ततः पर्व भगवद्यानमेव च ॥
English Translation
Then comes Prajagara, the anxieties of Dhritarashtra, then Sanatsujata, the mysteries of Philosophy.
ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः । निर्याणं पर्व च ततः कुरुपाण्डवसेनयोः ॥
English Translation
Then comes the quarrel of the noble Karna, then the march of the Kuru and Pandava armies to the field of battle.
रथातिरथसंख्या च पर्वोक्तं तदनन्तरम् । उलूकदूतागमनं पर्वामर्षविवर्धनम् ॥
English Translation
Then Rathatiratha-Sankhya Parva, then the arrival of wrath-inspiring messenger Uluka;
अम्बोपाख्यानमपि च पर्व ज्ञेयमतः परम् । भीष्माभिषेचनं पर्व ज्ञेयमद्भुतकारणम् ॥
English Translation
Then the story of Amba, then the wonderful installation of Bhishma;
जम्बूखण्डविनिर्माणं पर्वोक्तं तदनन्तरम् । भूमिपर्व ततो ज्ञेयं द्वीपविस्तरकीर्तनम् ॥
English Translation
Then (the account of) the creation of Jambukhanda and Bhumi, then the account of island.
पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः । द्रोणाभिषेकः पर्वोक्तं संशप्तकवधस्ततः ॥
English Translation
Then Bhagavad-Gita Parva, then Bhishmavadha, then the installation of Drona and then the death of Sanshaptakas;
अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यते । जयद्रथवधः पर्व घटोत्कचवधस्ततः ॥
English Translation
Then Abhimanyu-vadha, then Pratijna Parva, then Jayadratha-vadha and Ghatotkacha-vadha;
ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम् । मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते ॥
English Translation
Then the hair-stirring Drona-vadha, then the discharge of Narayana weapon;
कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम् । ह्रदप्रवेशनं पर्व गदायुद्धमतः परम् ॥
English Translation
Then Karna Parva and then next to it is Shalya Parva. Then Hrida Pravesha Parva, then Gada-Yudha.
← Previous (Ch. 1) Full Table of Contents Next (Ch. 3) →