Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 2

Ādiparva Adhyāya 2

आदिपर्व • अध्यायः 2

Ādiparva Adhyāya 2 of the classical Mahābhārata with 244 verses.

Total: 244 Verses • Citations: MBh 1.2.1–244 • 250 Lexicon Terms • Page 4 of 9 (Verses 30 shown)
नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया । सुन्दोपसुन्दयोस्तत्र उपाख्यानं प्रकीर्तितम् ॥
पार्थस्य वनवासश्च उलूप्या पथि संगमः । पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च ॥
द्वारकायां सुभद्रा च कामयानेन कामिनी । वासुदेवस्यानुमते प्राप्ता चैव किरीटिना ॥
English Translation
Arjuna's taking of Subhadra by force with the permission of Krishna on the car which goes every where at the will of the rider;
हरणं गृह्य संप्राप्ते कृष्णे देवकिनन्दने । संप्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम् ॥
English Translation
Taking the dower of Krishna, Arjuna's departure to Indraprastha; the birth of that prodigy of prowess, Abhimanyu, in the womb of Subhadra;
अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः । मयस्य मोक्षो ज्वलनाद्भुजंगस्य च मोक्षणम् । महर्षेर्मन्दपालस्य शार्ङ्ग्यं तनयसंभवः ॥
इत्येतदादिपर्वोक्तं प्रथमं बहुविस्तरम् । अध्यायानां शते द्वे तु संख्याते परमर्षिणा । अष्टादशैव चाध्याया व्यासेनोत्तमतेजसा ॥
English Translation
Greatly powerful Vyasa has divided this Parva into two hundred and twenty seven chapters.
सप्त श्लोकसहस्राणि तथा नव शतानि च । श्लोकाश्च चतुराशीतिर्दृष्टो ग्रन्थो महात्मना ॥
English Translation
These two hundred and twenty-seven chapters contain eight thousand eight hundred and eighty-four slokas. a
द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते । सभाक्रिया पाण्डवानां किंकराणां च दर्शनम् ॥
English Translation
The second is Sabha Parva which is very extensive and full of matter. It describes the building of the assembly-hall by the Pandavas and the review of their servants;
लोकपालसभाख्यानं नारदाद्देवदर्शनात् । राजसूयस्य चारम्भो जरासंधवधस्तथा ॥
English Translation
The description of the courts of Lokapalas by Narada who knows all the celestial regions; the preparations for the Rajasuya Yajna; the destruction of Jarasandha;
गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम् । राजसूयेऽर्घसंवादे शिशुपालवधस्तथा ॥
English Translation
The arrival of the chiefs and potentates with tribute at the Rajasuya Yajna; the destruction of Shishupala at the sacrifice, in connection with Arghya giving;
यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च । दुर्योधनस्यावहासो भीमेन च सभातले ॥
English Translation
The grief and envy of Duryodhana at the sight of the magnificence of the sacrifice; the joking of Bhima at the expense of Duryodhana in the great assembly.
यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत् । यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत् ॥
English Translation
The preparation for the game of dice; the defeat of Yudhishthira at the play by cunning and crafty Shakuni;
यत्र द्यूतार्णवे मग्नान्द्रौपदी नौरिवार्णवात् । तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपः । पुनरेव ततो द्यूते समाह्वयत पाण्डवान् ॥
English Translation
Seeing this, the attempt of Duryodhana to engage Yudhishthira again in
एतत्सर्वं सभापर्व समाख्यातं महात्मना । अध्यायाः सप्ततिर्ज्ञेयास्तथा द्वौ चात्र संख्यया ॥
श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च । श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्प्रकीर्तिताः ॥
English Translation
This Parva is divided into seventy eight chapters and it contains, O best of Brahmanas, two thousand five hundred and eleven slokas. Then comes the third Parva, called Aranya.
अतः परं तृतीयं तु ज्ञेयमारण्यकं महत् । पौरानुगमनं चैव धर्मपुत्रस्य धीमतः ॥
English Translation
It describes the departure of the Pandavas to the forest with the citizens following the wise Yudhishthira;
वृष्णीनामागमो यत्र पाञ्चालानां च सर्वशः । यत्र सौभवधाख्यानं किर्मीरवध एव च । अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः ॥
English Translation
It then describes the departure of Vyasa, the Pandavas' going to the forest of Kamyaka; the rovings of greatly powerful Arjuna in quest of weapons;
महादेवेन युद्धं च किरातवपुषा सह । दर्शनं लोकपालानां स्वर्गारोहणमेव च ॥
English Translation
His fight with Shiva who was in the disguise of a hunter; his meeting with the Lokapalas and his receipt of weapons from them;
दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः । युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम् ॥
English Translation
It then relates the lamentations of Yudhishthira in his meeting with the holy sage Brihadashva.
नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम् । दमयन्त्याः स्थितिर्यत्र नलस्य व्यसनागमे ॥
English Translation
It then contains the holy and most pathetic story of Nala, illustrating the great patience of Damayanti and the character of Nala.
वनवासगतानां च पाण्डवानां महात्मनाम् । स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै ॥
English Translation
The receipt from the Rishi by the highsouled dwellers of forest (the Pandavas) the news of the third brother (Arjuna) who was then staying in the celestial regions;
तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम् । जटासुरस्य तत्रैव वधः समुपवर्ण्यते ॥
नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने । यत्र मन्दारपुष्पार्थं नलिनीं तामधर्षयत् ॥
यत्रास्य सुमहद्युद्धमभवत्सह राक्षसैः । यक्षैश्चापि महावीर्यैर्मणिमत्प्रमुखैस्तथा ॥
आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम् । लोपामुद्राभिगमनमपत्यार्थमृषेरपि ॥
English Translation
The story of Agastya which relates how he ate up the Asura, Vatapi; his approaching Lopamudra to have an offspring.
ततः श्येनकपोतीयमुपाख्यानमनन्तरम् । इन्द्रोऽग्निर्यत्र धर्मश्च अजिज्ञासञ्शिबिं नृपम् ॥
English Translation
Then follows the beautiful story of the hawk and the pegion; then the trial of king Shivi by Indra, Agni and Dharma,
ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः । जामदग्न्यस्य रामस्य चरितं भूरितेजसः ॥
English Translation
It then tells the story of Rishyashringa who adopted the life of an ascetic from his boyhood. Then follows the story of greatly powerful Rama, the son of Jamadagni,
कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते । सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः ॥
English Translation
In which is described the death of Kartavirya and Haihayas, then the meeting of the Pandavas and the Vrishnis at the holy pilgrimage of Prabhasa;
शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ । ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः ॥
जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः । पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः ॥
English Translation
Then it tells the story of prince Jantu and how king Somaka, by offering up his only son Jantu in sacrifice, got one hundred others.
← Previous (Ch. 1) Full Table of Contents Next (Ch. 3) →