Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 11

Sabhāparva Adhyāya 11

सभापर्व • अध्यायः 11

Sabhāparva Adhyāya 11 of the classical Mahābhārata with 74 verses.

Total: 74 Verses • Citations: MBh 2.11.1–74 • 250 Lexicon Terms • Page 2 of 3 (Verses 30 shown)
आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि । विश्वेदेवाश्च साध्याश्च पितरश्च मनोजवाः ॥
राक्षसाश्च पिशाचाश्च दानवा गुह्यकास्तथा । सुपर्णनागपशवः पितामहमुपासते ॥
देवो नारायणस्तस्यां तथा देवर्षयश्च ये । ऋषयो वालखिल्याश्च योनिजायोनिजास्तथा ॥
यच्च किंचित्त्रिलोकेऽस्मिन्दृश्यते स्थाणुजङ्गमम् । सर्वं तस्यां मया दृष्टं तद्विद्धि मनुजाधिप ॥
अष्टाशीतिसहस्राणि यतीनामूर्ध्वरेतसाम् । प्रजावतां च पञ्चाशदृषीणामपि पाण्डव ॥
ते स्म तत्र यथाकामं दृष्ट्वा सर्वे दिवौकसः । प्रणम्य शिरसा तस्मै प्रतियान्ति यथागतम् ॥
अतिथीनागतान्देवान्दैत्यान्नागान्मुनींस्तथा । यक्षान्सुपर्णान्कालेयान्गन्धर्वाप्सरसस्तथा ॥
महाभागानमितधीर्ब्रह्मा लोकपितामहः । दयावान्सर्वभूतेषु यथार्हं प्रतिपद्यते ॥
प्रतिगृह्य च विश्वात्मा स्वयंभूरमितप्रभः । सान्त्वमानार्थसंभोगैर्युनक्ति मनुजाधिप ॥
तथा तैरुपयातैश्च प्रतियातैश्च भारत । आकुला सा सभा तात भवति स्म सुखप्रदा ॥
सर्वतेजोमयी दिव्या ब्रह्मर्षिगणसेविता । ब्राह्म्या श्रिया दीप्यमाना शुशुभे विगतक्लमा ॥
सा सभा तादृशी दृष्टा सर्वलोकेषु दुर्लभा । सभेयं राजशार्दूल मनुष्येषु यथा तव ॥
एता मया दृष्टपूर्वाः सभा देवेषु पाण्डव । तवेयं मानुषे लोके सर्वश्रेष्ठतमा सभा ॥
प्रायशो राजलोकस्ते कथितो वदतां वर । वैवस्वतसभायां तु यथा वदसि वै प्रभो ॥
वरुणस्य सभायां तु नागास्ते कथिता विभो । दैत्येन्द्राश्चैव भूयिष्ठाः सरितः सागरास्तथा ॥
तथा धनपतेर्यक्षा गुह्यका राक्षसास्तथा । गन्धर्वाप्सरसश्चैव भगवांश्च वृषध्वजः ॥
पितामहसभायां तु कथितास्ते महर्षयः । सर्वदेवनिकायाश्च सर्वशास्त्राणि चैव हि ॥
शतक्रतुसभायां तु देवाः संकीर्तिता मुने । उद्देशतश्च गन्धर्वा विविधाश्च महर्षयः ॥
एक एव तु राजर्षिर्हरिश्चन्द्रो महामुने । कथितस्ते सभानित्यो देवेन्द्रस्य महात्मनः ॥
किं कर्म तेनाचरितं तपो वा नियतव्रतम् । येनासौ सह शक्रेण स्पर्धते स्म महायशाः ॥
पितृलोकगतश्चापि त्वया विप्र पिता मम । दृष्टः पाण्डुर्महाभागः कथं चासि समागतः ॥
किमुक्तवांश्च भगवन्नेतदिच्छामि वेदितुम् । त्वत्तः श्रोतुमहं सर्वं परं कौतूहलं हि मे ॥
यन्मां पृच्छसि राजेन्द्र हरिश्चन्द्रं प्रति प्रभो । तत्तेऽहं संप्रवक्ष्यामि माहात्म्यं तस्य धीमतः ॥
स राजा बलवानासीत्सम्राट्सर्वमहीक्षिताम् । तस्य सर्वे महीपालाः शासनावनताः स्थिताः ॥
तेनैकं रथमास्थाय जैत्रं हेमविभूषितम् । शस्त्रप्रतापेन जिता द्वीपाः सप्त नरेश्वर ॥
स विजित्य महीं सर्वां सशैलवनकाननाम् । आजहार महाराज राजसूयं महाक्रतुम् ॥
English Translation
He defeated all the neighbouring potentates and chief tribes and thus accomplished all that was necessary for the king (Yudhishthira) to perform the great Rajasuya sacrifice.
तस्य सर्वे महीपाला धनान्याजह्रुराज्ञया । द्विजानां परिवेष्टारस्तस्मिन्यज्ञे च तेऽभवन् ॥
प्रादाच्च द्रविणं प्रीत्या याजकानां नरेश्वरः । यथोक्तं तत्र तैस्तस्मिंस्ततः पञ्चगुणाधिकम् ॥
अतर्पयच्च विविधैर्वसुभिर्ब्राह्मणांस्तथा । प्रासर्पकाले संप्राप्ते नानादिग्भ्यः समागतान् ॥
भक्ष्यैर्भोज्यैश्च विविधैर्यथाकामपुरस्कृतैः । रत्नौघतर्पितैस्तुष्टैर्द्विजैश्च समुदाहृतम् । तेजस्वी च यशस्वी च नृपेभ्योऽभ्यधिकोऽभवत् ॥
← Previous (Ch. 235) Full Table of Contents Next (Ch. 237) →