Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 12

Sabhāparva Adhyāya 12

सभापर्व • अध्यायः 12

Sabhāparva Adhyāya 12 of the classical Mahābhārata with 41 verses.

Total: 41 Verses • Citations: MBh 2.12.1–41 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
ऋषेस्तद्वचनं श्रुत्वा निशश्वास युधिष्ठिरः । चिन्तयन्राजसूयाप्तिं न लेभे शर्म भारत ॥
राजर्षीणां हि तं श्रुत्वा महिमानं महात्मनाम् । यज्वनां कर्मभिः पुण्यैर्लोकप्राप्तिं समीक्ष्य च ॥
हरिश्चन्द्रं च राजर्षिं रोचमानं विशेषतः । यज्वानं यज्ञमाहर्तुं राजसूयमियेष सः ॥
युधिष्ठिरस्ततः सर्वानर्चयित्वा सभासदः । प्रत्यर्चितश्च तैः सर्वैर्यज्ञायैव मनो दधे ॥
स राजसूयं राजेन्द्र कुरूणामृषभः क्रतुम् । आहर्तुं प्रवणं चक्रे मनः संचिन्त्य सोऽसकृत् ॥
भूयश्चाद्भुतवीर्यौजा धर्ममेवानुपालयन् । किं हितं सर्वलोकानां भवेदिति मनो दधे ॥
अनुगृह्णन्प्रजाः सर्वाः सर्वधर्मविदां वरः । अविशेषेण सर्वेषां हितं चक्रे युधिष्ठिरः ॥
एवं गते ततस्तस्मिन्पितरीवाश्वसञ्जनाः । न तस्य विद्यते द्वेष्टा ततोऽस्याजातशत्रुता ॥
स मन्त्रिणः समानाय्य भ्रातॄंश्च वदतां वरः । राजसूयं प्रति तदा पुनः पुनरपृच्छत ॥
ते पृच्छ्यमानाः सहिता वचोऽर्थ्यं मन्त्रिणस्तदा । युधिष्ठिरं महाप्राज्ञं यियक्षुमिदमब्रुवन् ॥
येनाभिषिक्तो नृपतिर्वारुणं गुणमृच्छति । तेन राजापि सन्कृत्स्नं सम्राड्गुणमभीप्सति ॥
तस्य सम्राड्गुणार्हस्य भवतः कुरुनन्दन । राजसूयस्य समयं मन्यन्ते सुहृदस्तव ॥
तस्य यज्ञस्य समयः स्वाधीनः क्षत्रसंपदा । साम्ना षडग्नयो यस्मिंश्चीयन्ते संशितव्रतैः ॥
दर्वीहोमानुपादाय सर्वान्यः प्राप्नुते क्रतून् । अभिषेकं च यज्ञान्ते सर्वजित्तेन चोच्यते ॥
समर्थोऽसि महाबाहो सर्वे ते वशगा वयम् । अविचार्य महाराज राजसूये मनः कुरु ॥
इत्येवं सुहृदः सर्वे पृथक्च सह चाब्रुवन् । स धर्म्यं पाण्डवस्तेषां वचः श्रुत्वा विशां पते । धृष्टमिष्टं वरिष्ठं च जग्राह मनसारिहा ॥
श्रुत्वा सुहृद्वचस्तच्च जानंश्चाप्यात्मनः क्षमम् । पुनः पुनर्मनो दध्रे राजसूयाय भारत ॥
स भ्रातृभिः पुनर्धीमानृत्विग्भिश्च महात्मभिः । धौम्यद्वैपायनाद्यैश्च मन्त्रयामास मन्त्रिभिः ॥
इयं या राजसूयस्य सम्राडर्हस्य सुक्रतोः । श्रद्दधानस्य वदतः स्पृहा मे सा कथं भवेत् ॥
एवमुक्तास्तु ते तेन राज्ञा राजीवलोचन । इदमूचुर्वचः काले धर्मात्मानं युधिष्ठिरम् । अर्हस्त्वमसि धर्मज्ञ राजसूयं महाक्रतुम् ॥
अथैवमुक्ते नृपतावृत्विग्भिरृषिभिस्तथा । मन्त्रिणो भ्रातरश्चास्य तद्वचः प्रत्यपूजयन् ॥
स तु राजा महाप्राज्ञः पुनरेवात्मनात्मवान् । भूयो विममृशे पार्थो लोकानां हितकाम्यया ॥
सामर्थ्ययोगं संप्रेक्ष्य देशकालौ व्ययागमौ । विमृश्य सम्यक्च धिया कुर्वन्प्राज्ञो न सीदति ॥
न हि यज्ञसमारम्भः केवलात्मविपत्तये । भवतीति समाज्ञाय यत्नतः कार्यमुद्वहन् ॥
स निश्चयार्थं कार्यस्य कृष्णमेव जनार्दनम् । सर्वलोकात्परं मत्वा जगाम मनसा हरिम् ॥
अप्रमेयं महाबाहुं कामाज्जातमजं नृषु । पाण्डवस्तर्कयामास कर्मभिर्देवसंमितैः ॥
नास्य किंचिदविज्ञातं नास्य किंचिदकर्मजम् । न स किंचिन्न विषहेदिति कृष्णममन्यत ॥
स तु तां नैष्ठिकीं बुद्धिं कृत्वा पार्थो युधिष्ठिरः । गुरुवद्भूतगुरवे प्राहिणोद्दूतमञ्जसा ॥
शीघ्रगेन रथेनाशु स दूतः प्राप्य यादवान् । द्वारकावासिनं कृष्णं द्वारवत्यां समासदत् ॥
← Previous (Ch. 236) Full Table of Contents Next (Ch. 238) →