Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 11

Sabhāparva Adhyāya 11

सभापर्व • अध्यायः 11

Sabhāparva Adhyāya 11 of the classical Mahābhārata with 74 verses.

Total: 74 Verses • Citations: MBh 2.11.1–74 • 250 Lexicon Terms • Page 1 of 3 (Verses 30 shown)
पुरा देवयुगे राजन्नादित्यो भगवान्दिवः । आगच्छन्मानुषं लोकं दिदृक्षुर्विगतक्लमः ॥
चरन्मानुषरूपेण सभां दृष्ट्वा स्वयंभुवः । सभामकथयन्मह्यं ब्राह्मीं तत्त्वेन पाण्डव ॥
अप्रमेयप्रभां दिव्यां मानसीं भरतर्षभ । अनिर्देश्यां प्रभावेन सर्वभूतमनोरमाम् ॥
श्रुत्वा गुणानहं तस्याः सभायाः पाण्डुनन्दन । दर्शनेप्सुस्तथा राजन्नादित्यमहमब्रुवम् ॥
भगवन्द्रष्टुमिच्छामि पितामहसभामहम् । येन सा तपसा शक्या कर्मणा वापि गोपते ॥
औषधैर्वा तथा युक्तैरुत वा मायया यया । तन्ममाचक्ष्व भगवन्पश्येयं तां सभां कथम् ॥
ततः स भगवान्सूर्यो मामुपादाय वीर्यवान् । अगच्छत्तां सभां ब्राह्मीं विपापां विगतक्लमाम् ॥
एवंरूपेति सा शक्या न निर्देष्टुं जनाधिप । क्षणेन हि बिभर्त्यन्यदनिर्देश्यं वपुस्तथा ॥
न वेद परिमाणं वा संस्थानं वापि भारत । न च रूपं मया तादृग्दृष्टपूर्वं कदाचन ॥
सुसुखा सा सभा राजन्न शीता न च घर्मदा । न क्षुत्पिपासे न ग्लानिं प्राप्य तां प्राप्नुवन्त्युत ॥
नानारूपैरिव कृता सुविचित्रैः सुभास्वरैः । स्तम्भैर्न च धृता सा तु शाश्वती न च सा क्षरा ॥
अति चन्द्रं च सूर्यं च शिखिनं च स्वयंप्रभा । दीप्यते नाकपृष्ठस्था भासयन्तीव भास्करम् ॥
तस्यां स भगवानास्ते विदधद्देवमायया । स्वयमेकोऽनिशं राजँल्लोकाँल्लोकपितामहः ॥
उपतिष्ठन्ति चाप्येनं प्रजानां पतयः प्रभुम् । दक्षः प्रचेताः पुलहो मरीचिः कश्यपस्तथा ॥
भृगुरत्रिर्वसिष्ठश्च गौतमश्च तथाङ्गिराः । मनोऽन्तरिक्षं विद्याश्च वायुस्तेजो जलं मही ॥
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च भारत । प्रकृतिश्च विकारश्च यच्चान्यत्कारणं भुवः ॥
चन्द्रमाः सह नक्षत्रैरादित्यश्च गभस्तिमान् । वायवः क्रतवश्चैव संकल्पः प्राण एव च ॥
एते चान्ये च बहवः स्वयंभुवमुपस्थिताः । अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तपो दमः ॥
आयान्ति तस्यां सहिता गन्धर्वाप्सरसस्तथा । विंशतिः सप्त चैवान्ये लोकपालाश्च सर्वशः ॥
शुक्रो बृहस्पतिश्चैव बुधोऽङ्गारक एव च । शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च ॥
मन्त्रो रथंतरश्चैव हरिमान्वसुमानपि । आदित्याः साधिराजानो नानाद्वंद्वैरुदाहृताः ॥
मरुतो विश्वकर्मा च वसवश्चैव भारत । तथा पितृगणाः सर्वे सर्वाणि च हवींष्यथ ॥
ऋग्वेदः सामवेदश्च यजुर्वेदश्च पाण्डव । अथर्ववेदश्च तथा पर्वाणि च विशां पते ॥
इतिहासोपवेदाश्च वेदाङ्गानि च सर्वशः । ग्रहा यज्ञाश्च सोमश्च दैवतानि च सर्वशः ॥
सावित्री दुर्गतरणी वाणी सप्तविधा तथा । मेधा धृतिः श्रुतिश्चैव प्रज्ञा बुद्धिर्यशः क्षमा ॥
सामानि स्तुतिशस्त्राणि गाथाश्च विविधास्तथा । भाष्याणि तर्कयुक्तानि देहवन्ति विशां पते ॥
क्षणा लवा मुहूर्ताश्च दिवा रात्रिस्तथैव च । अर्धमासाश्च मासाश्च ऋतवः षट्च भारत ॥
संवत्सराः पञ्चयुगमहोरात्राश्चतुर्विधाः । कालचक्रं च यद्दिव्यं नित्यमक्षयमव्ययम् ॥
अदितिर्दितिर्दनुश्चैव सुरसा विनता इरा । कालका सुरभिर्देवी सरमा चाथ गौतमी ॥
← Previous (Ch. 235) Full Table of Contents Next (Ch. 237) →