Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 11

Sabhāparva Adhyāya 11

सभापर्व • अध्यायः 11

Sabhāparva Adhyāya 11 of the classical Mahābhārata with 74 verses.

Total: 74 Verses • Citations: MBh 2.11.1–74 • 250 Lexicon Terms • Page 3 of 3 (Verses 14 shown)
एतस्मात्कारणात्पार्थ हरिश्चन्द्रो विराजते । तेभ्यो राजसहस्रेभ्यस्तद्विद्धि भरतर्षभ ॥
समाप्य च हरिश्चन्द्रो महायज्ञं प्रतापवान् । अभिषिक्तः स शुशुभे साम्राज्येन नराधिप ॥
ये चान्येऽपि महीपाला राजसूयं महाक्रतुम् । यजन्ते ते महेन्द्रेण मोदन्ते सह भारत ॥
ये चापि निधनं प्राप्ताः संग्रामेष्वपलायिनः । ते तत्सदः समासाद्य मोदन्ते भरतर्षभ ॥
तपसा ये च तीव्रेण त्यजन्तीह कलेवरम् । तेऽपि तत्स्थानमासाद्य श्रीमन्तो भान्ति नित्यशः ॥
पिता च त्वाह कौन्तेय पाण्डुः कौरवनन्दनः । हरिश्चन्द्रे श्रियं दृष्ट्वा नृपतौ जातविस्मयः ॥
समर्थोऽसि महीं जेतुं भ्रातरस्ते वशे स्थिताः । राजसूयं क्रतुश्रेष्ठमाहरस्वेति भारत ॥
तस्य त्वं पुरुषव्याघ्र संकल्पं कुरु पाण्डव । गन्तारस्ते महेन्द्रस्य पूर्वैः सह सलोकताम् ॥
बहुविघ्नश्च नृपते क्रतुरेष स्मृतो महान् । छिद्राण्यत्र हि वाञ्छन्ति यज्ञघ्ना ब्रह्मराक्षसाः ॥
युद्धं च पृष्ठगमनं पृथिवीक्षयकारकम् । किंचिदेव निमित्तं च भवत्यत्र क्षयावहम् ॥
एतत्संचिन्त्य राजेन्द्र यत्क्षमं तत्समाचर । अप्रमत्तोत्थितो नित्यं चातुर्वर्ण्यस्य रक्षणे । भव एधस्व मोदस्व दानैस्तर्पय च द्विजान् ॥
एतत्ते विस्तरेणोक्तं यन्मां त्वं परिपृच्छसि । आपृच्छे त्वां गमिष्यामि दाशार्हनगरीं प्रति ॥
एवमाख्याय पार्थेभ्यो नारदो जनमेजय । जगाम तैर्वृतो राजन्नृषिभिर्यैः समागतः ॥
गते तु नारदे पार्थो भ्रातृभिः सह कौरव । राजसूयं क्रतुश्रेष्ठं चिन्तयामास भारत ॥
← Previous (Ch. 235) Full Table of Contents Next (Ch. 237) →