Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 189

Ādiparva Adhyāya 189

आदिपर्व • अध्यायः 189

Ādiparva Adhyāya 189 of the classical Mahābhārata with 50 verses.

Total: 50 Verses • Citations: MBh 1.189.1–50 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
पुरा वै नैमिषारण्ये देवाः सत्रमुपासते । तत्र वैवस्वतो राजञ्शामित्रमकरोत्तदा ॥
ततो यमो दीक्षितस्तत्र राज;न्नामारयत्किंचिदपि प्रजाभ्यः । ततः प्रजास्ता बहुला बभूवुः; कालातिपातान्मरणात्प्रहीणाः ॥
ततस्तु शक्रो वरुणः कुबेरः; साध्या रुद्रा वसवश्चाश्विनौ च । प्रणेतारं भुवनस्य प्रजापतिं; समाजग्मुस्तत्र देवास्तथान्ये ॥
ततोऽब्रुवँल्लोकगुरुं समेता; भयं नस्तीव्रं मानुषाणां विवृद्ध्या । तस्माद्भयादुद्विजन्तः सुखेप्सवः; प्रयाम सर्वे शरणं भवन्तम् ॥
किं वो भयं मानुषेभ्यो यूयं सर्वे यदामराः । मा वो मर्त्यसकाशाद्वै भयं भवतु कर्हिचित् ॥
मर्त्या ह्यमर्त्याः संवृत्ता न विशेषोऽस्ति कश्चन । अविशेषादुद्विजन्तो विशेषार्थमिहागताः ॥
वैवस्वतो व्यापृतः सत्रहेतो;स्तेन त्विमे न म्रियन्ते मनुष्याः । तस्मिन्नेकाग्रे कृतसर्वकार्ये; तत एषां भवितैवान्तकालः ॥
वैवस्वतस्यापि तनुर्विभूता; वीर्येण युष्माकमुत प्रयुक्ता । सैषामन्तो भविता ह्यन्तकाले; तनुर्हि वीर्यं भविता नरेषु ॥
ततस्तु ते पूर्वजदेववाक्यं; श्रुत्वा देवा यत्र देवा यजन्ते । समासीनास्ते समेता महाबला; भागीरथ्यां ददृशुः पुण्डरीकम् ॥
दृष्ट्वा च तद्विस्मितास्ते बभूवु;स्तेषामिन्द्रस्तत्र शूरो जगाम । सोऽपश्यद्योषामथ पावकप्रभां; यत्र गङ्गा सततं संप्रसूता ॥
सा तत्र योषा रुदती जलार्थिनी; गङ्गां देवीं व्यवगाह्यावतिष्ठत् । तस्याश्रुबिन्दुः पतितो जले वै; तत्पद्ममासीदथ तत्र काञ्चनम् ॥
तदद्भुतं प्रेक्ष्य वज्री तदानी;मपृच्छत्तां योषितमन्तिकाद्वै । का त्वं कथं रोदिषि कस्य हेतो;र्वाक्यं तथ्यं कामयेह ब्रवीहि ॥
त्वं वेत्स्यसे मामिह यास्मि शक्र; यदर्थं चाहं रोदिमि मन्दभाग्या । आगच्छ राजन्पुरतोऽहं गमिष्ये; द्रष्टासि तद्रोदिमि यत्कृतेऽहम् ॥
तां गच्छन्तीमन्वगच्छत्तदानीं; सोऽपश्यदारात्तरुणं दर्शनीयम् । सिंहासनस्थं युवतीसहायं; क्रीडन्तमक्षैर्गिरिराजमूर्ध्नि ॥
तमब्रवीद्देवराजो ममेदं; त्वं विद्धि विश्वं भुवनं वशे स्थितम् । ईशोऽहमस्मीति समन्युरब्रवी;द्दृष्ट्वा तमक्षैः सुभृशं प्रमत्तम् ॥
क्रुद्धं तु शक्रं प्रसमीक्ष्य देवो; जहास शक्रं च शनैरुदैक्षत । संस्तम्भितोऽभूदथ देवराज;स्तेनेक्षितः स्थाणुरिवावतस्थे ॥
यदा तु पर्याप्तमिहास्य क्रीडया; तदा देवीं रुदतीं तामुवाच । आनीयतामेष यतोऽहमारा;न्मैनं दर्पः पुनरप्याविशेत ॥
ततः शक्रः स्पृष्टमात्रस्तया तु; स्रस्तैरङ्गैः पतितोऽभूद्धरण्याम् । तमब्रवीद्भगवानुग्रतेजा; मैवं पुनः शक्र कृथाः कथंचित् ॥
विवर्तयैनं च महाद्रिराजं; बलं च वीर्यं च तवाप्रमेयम् । विवृत्य चैवाविश मध्यमस्य; यत्रासते त्वद्विधाः सूर्यभासः ॥
स तद्विवृत्य शिखरं महागिरे;स्तुल्यद्युतींश्चतुरोऽन्यान्ददर्श । स तानभिप्रेक्ष्य बभूव दुःखितः; कच्चिन्नाहं भविता वै यथेमे ॥
ततो देवो गिरिशो वज्रपाणिं; विवृत्य नेत्रे कुपितोऽभ्युवाच । दरीमेतां प्रविश त्वं शतक्रतो; यन्मां बाल्यादवमंस्थाः पुरस्तात् ॥
उक्तस्त्वेवं विभुना देवराजः; प्रवेपमानो भृशमेवाभिषङ्गात् । स्रस्तैरङ्गैरनिलेनेव नुन्न;मश्वत्थपत्रं गिरिराजमूर्ध्नि ॥
स प्राञ्जलिर्विनतेनाननेन; प्रवेपमानः सहसैवमुक्तः । उवाच चेदं बहुरूपमुग्रं; द्रष्टा शेषस्य भगवंस्त्वं भवाद्य ॥
तमब्रवीदुग्रधन्वा प्रहस्य; नैवंशीलाः शेषमिहाप्नुवन्ति । एतेऽप्येवं भवितारः पुरस्ता;त्तस्मादेतां दरिमाविश्य शेध्वम् ॥
शेषोऽप्येवं भविता वो न संशयो; योनिं सर्वे मानुषीमाविशध्वम् । तत्र यूयं कर्म कृत्वाविषह्यं; बहूनन्यान्निधनं प्रापयित्वा ॥
आगन्तारः पुनरेवेन्द्रलोकं; स्वकर्मणा पूर्वजितं महार्हम् । सर्वं मया भाषितमेतदेवं; कर्तव्यमन्यद्विविधार्थवच्च ॥
गमिष्यामो मानुषं देवलोका;द्दुराधरो विहितो यत्र मोक्षः । देवास्त्वस्मानादधीरञ्जनन्यां; धर्मो वायुर्मघवानश्विनौ च ॥
एतच्छ्रुत्वा वज्रपाणिर्वचस्तु; देवश्रेष्ठं पुनरेवेदमाह । वीर्येणाहं पुरुषं कार्यहेतो;र्दद्यामेषां पञ्चमं मत्प्रसूतम् ॥
तेषां कामं भगवानुग्रधन्वा; प्रादादिष्टं सन्निसर्गाद्यथोक्तम् । तां चाप्येषां योषितं लोककान्तां; श्रियं भार्यां व्यदधान्मानुषेषु ॥
← Previous (Ch. 188) Full Table of Contents Next (Ch. 190) →