Skip to main content
Search
MBh
Mahābhārata • Parva 14 (Aśvamedhikaparva) • Adhyāya 49

Aśvamedhikaparva Adhyāya 49

अश्वमेधिकपर्व • अध्यायः 49

Aśvamedhikaparva Adhyāya 49 of the classical Mahābhārata with 56 verses.

Total: 56 Verses • Citations: MBh 14.49.1–56 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
हन्त वः संप्रवक्ष्यामि यन्मां पृच्छथ सत्तमाः । समस्तमिह तच्छ्रुत्वा सम्यगेवावधार्यताम् ॥
अहिंसा सर्वभूतानामेतत्कृत्यतमं मतम् । एतत्पदमनुद्विग्नं वरिष्ठं धर्मलक्षणम् ॥
ज्ञानं निःश्रेय इत्याहुर्वृद्धा निश्चयदर्शिनः । तस्माज्ज्ञानेन शुद्धेन मुच्यते सर्वपातकैः ॥
हिंसापराश्च ये लोके ये च नास्तिकवृत्तयः । लोभमोहसमायुक्तास्ते वै निरयगामिनः ॥
आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः । तेऽस्मिँल्लोके प्रमोदन्ते जायमानाः पुनः पुनः ॥
English Translation
Those who without idleness perforın deeds with expectation, being full of egoism, approach the presence of Prajapati.
कुर्वते ये तु कर्माणि श्रद्दधाना विपश्चितः । अनाशीर्योगसंयुक्तास्ते धीराः साधुदर्शिनः ॥
अतः परं प्रवक्ष्यामि सत्त्वक्षेत्रज्ञयोर्यथा । संयोगो विप्रयोगश्च तन्निबोधत सत्तमाः ॥
English Translation
I shall, after this. describe how the association and the disassociation takes place of Soul and Nature. You best of men, listen. The relation here is said to be that betwcen the object and the subject.
विषयो विषयित्वं च संबन्धोऽयमिहोच्यते । विषयी पुरुषो नित्यं सत्त्वं च विषयः स्मृतः ॥
व्याख्यातं पूर्वकल्पेन मशकोदुम्बरं यथा । भुज्यमानं न जानीते नित्यं सत्त्वमचेतनम् । यस्त्वेव तु विजानीते यो भुङ्क्ते यश्च भुज्यते ॥
English Translation
Purusha is always the subject; and Nature the object. It has been explained, by what has been said in a previous part of the discourse where it has been pointed out, that they exist after the manner of the gnat and the Udumbara,
अनित्यं द्वंद्वसंयुक्तं सत्त्वमाहुर्गुणात्मकम् । निर्द्वंद्वो निष्कलो नित्यः क्षेत्रज्ञो निर्गुणात्मकः ॥
English Translation
An object of enjoyment as it is, Nature is unintelligent and knows nothing. He, however, who enjoys it, is said to know it, Soul being enjoyer, Nature is enjoyed.
समः संज्ञागतस्त्वेवं यदा सर्वत्र दृश्यते । उपभुङ्क्ते सदा सत्त्वमापः पुष्करपर्णवत् ॥
English Translation
The wise have said that Nature is always made up of pairs of opposites. Soul is, on the other hand, destitute of pairs of opposites, devoid of parts, eternal, and free, about its essence, from qualities.
सर्वैरपि गुणैर्विद्वान्व्यतिषक्तो न लिप्यते । जलबिन्दुर्यथा लोलः पद्मिनीपत्रसंस्थितः । एवमेवाप्यसंसक्तः पुरुषः स्यान्न संशयः ॥
English Translation
He lives in everything alike, and walks with knowledge. He always enjoys Nature as a lotus leaf (enjoys) water.
द्रव्यमात्रमभूत्सत्त्वं पुरुषस्येति निश्चयः । यथा द्रव्यं च कर्ता च संयोगोऽप्यनयोस्तथा ॥
यथा प्रदीपमादाय कश्चित्तमसि गच्छति । तथा सत्त्वप्रदीपेन गच्छन्ति परमैषिणः ॥
यावद्द्रव्यगुणस्तावत्प्रदीपः संप्रकाशते । क्षीणद्रव्यगुणं ज्योतिरन्तर्धानाय गच्छति ॥
व्यक्तः सत्त्वगुणस्त्वेवं पुरुषोऽव्यक्त इष्यते । एतद्विप्रा विजानीत हन्त भूयो ब्रवीमि वः ॥
सहस्रेणापि दुर्मेधा न वृद्धिमधिगच्छति । चतुर्थेनाप्यथांशेन बुद्धिमान्सुखमेधते ॥
एवं धर्मस्य विज्ञेयं संसाधनमुपायतः । उपायज्ञो हि मेधावी सुखमत्यन्तमश्नुते ॥
English Translation
One, however, who is gifted with intelligence succeeds in acquiring happiness, through only a fourth share (c: explanations). Thus should the accomplishment of duty be understood as dependent on means. For the intelligent man, having knowledge of means, succeeds in acquiring supreme happiness.
यथाध्वानमपाथेयः प्रपन्नो मानवः क्वचित् । क्लेशेन याति महता विनश्यत्यन्तरापि वा ॥
English Translation
As some man travelling along a road without provisions of his journey, proceeds with great uneasiness and may even meet with destruction before he reaches the end of his journey, so should it be known that in deeds there may or may not be fruits.
तथा कर्मसु विज्ञेयं फलं भवति वा न वा । पुरुषस्यात्मनिःश्रेयः शुभाशुभनिदर्शनम् ॥
यथा च दीर्घमध्वानं पद्भ्यामेव प्रपद्यते । अदृष्टपूर्वं सहसा तत्त्वदर्शनवर्जितः ॥
तमेव च यथाध्वानं रथेनेहाशुगामिना । यायादश्वप्रयुक्तेन तथा बुद्धिमतां गतिः ॥
उच्चं पर्वतमारुह्य नान्ववेक्षेत भूगतम् । रथेन रथिनं पश्येत्क्लिश्यमानमचेतनम् ॥
यावद्रथपथस्तावद्रथेन स तु गच्छति । क्षीणे रथपथे प्राज्ञो रथमुत्सृज्य गच्छति ॥
एवं गच्छति मेधावी तत्त्वयोगविधानवित् । समाज्ञाय महाबुद्धिरुत्तरादुत्तरोत्तरम् ॥
English Translation
The learned man, when he sees the car-path end, abandons his car for going on. Thus does the intelligent man who knows the ordinances about truth and Yoga, proceed. Knowing the qualities, such man, proceeds, comprehending what is next and next.
यथा महार्णवं घोरमप्लवः संप्रगाहते । बाहुभ्यामेव संमोहाद्वधं चर्च्छत्यसंशयम् ॥
नावा चापि यथा प्राज्ञो विभागज्ञस्तरित्रया । अक्लान्तः सलिलं गाहेत्क्षिप्रं संतरति ध्रुवम् ॥
तीर्णो गच्छेत्परं पारं नावमुत्सृज्य निर्ममः । व्याख्यातं पूर्वकल्पेन यथा रथिपदातिनौ ॥
स्नेहात्संमोहमापन्नो नावि दाशो यथा तथा । ममत्वेनाभिभूतः स तत्रैव परिवर्तते ॥
← Previous (Ch. 1883) Full Table of Contents Next (Ch. 1885) →