Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 158

Ādiparva Adhyāya 158

आदिपर्व • अध्यायः 158

Ādiparva Adhyāya 158 of the classical Mahābhārata with 56 verses.

Total: 56 Verses • Citations: MBh 1.158.1–56 • 250 Lexicon Terms • Page 2 of 2 (Verses 26 shown)
शिरोरुहेषु जग्राह माल्यवत्सु धनंजयः । भ्रातॄन्प्रति चकर्षाथ सोऽस्त्रपातादचेतसम् ॥
युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी । नाम्ना कुम्भीनसी नाम पतित्राणमभीप्सती ॥
त्राहि त्वं मां महाराज पतिं चेमं विमुञ्च मे । गन्धर्वीं शरणं प्राप्तां नाम्ना कुम्बीनसीं प्रभो ॥
युद्धे जितं यशोहीनं स्त्रीनाथमपराक्रमम् । को नु हन्याद्रिपुं त्वादृङ्मुञ्चेमं रिपुसूदन ॥
अङ्गेमं प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः । प्रदिशत्यभयं तेऽद्य कुरुराजो युधिष्ठिरः ॥
जितोऽहं पूर्वकं नाम मुञ्चाम्यङ्गारपर्णताम् । न च श्लाघे बलेनाद्य न नाम्ना जनसंसदि ॥
साध्विमं लब्धवाँल्लाभं योऽहं दिव्यास्त्रधारिणम् । गान्धर्व्या मायया योद्धुमिच्छामि वयसा वरम् ॥
अस्त्राग्निना विचित्रोऽयं दग्धो मे रथ उत्तमः । सोऽहं चित्ररथो भूत्वा नाम्ना दग्धरथोऽभवम् ॥
संभृता चैव विद्येयं तपसेह पुरा मया । निवेदयिष्ये तामद्य प्राणदाया महात्मने ॥
संस्तम्भितं हि तरसा जितं शरणमागतम् । योऽरिं संयोजयेत्प्राणैः कल्याणं किं न सोऽर्हति ॥
चक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः । ददौ स विश्वावसवे मह्यं विश्वावसुर्ददौ ॥
सेयं कापुरुषं प्राप्ता गुरुदत्ता प्रणश्यति । आगमोऽस्या मया प्रोक्तो वीर्यं प्रतिनिबोध मे ॥
यच्चक्षुषा द्रष्टुमिच्छेत्त्रिषु लोकेषु किंचन । तत्पश्येद्यादृशं चेच्छेत्तादृषं द्रष्टुमर्हति ॥
समानपद्ये षण्मासान्स्थितो विद्यां लभेदिमाम् । अनुनेष्याम्यहं विद्यां स्वयं तुभ्यं व्रते कृते ॥
विद्यया ह्यनया राजन्वयं नृभ्यो विशेषिताः । अविशिष्टाश्च देवानामनुभावप्रवर्तिताः ॥
गन्धर्वजानामश्वानामहं पुरुषसत्तम । भ्रातृभ्यस्तव पञ्चभ्यः पृथग्दाता शतं शतम् ॥
देवगन्धर्ववाहास्ते दिव्यगन्धा मनोगमाः । क्षीणाः क्षीणा भवन्त्येते न हीयन्ते च रंहसः ॥
पुरा कृतं महेन्द्रस्य वज्रं वृत्रनिबर्हणे । दशधा शतधा चैव तच्छीर्णं वृत्रमूर्धनि ॥
ततो भागीकृतो देवैर्वज्रभाग उपास्यते । लोके यत्साधनं किंचित्सा वै वज्रतनुः स्मृता ॥
वज्रपाणिर्ब्राह्मणः स्यात्क्षत्रं वज्ररथं स्मृतम् । वैश्या वै दानवज्राश्च कर्मवज्रा यवीयसः ॥
वज्रं क्षत्रस्य वाजिनो अवध्या वाजिनः स्मृताः । रथाङ्गं वडवा सूते सूताश्चाश्वेषु ये मताः ॥
कामवर्णाः कामजवाः कामतः समुपस्थिताः । इमे गन्धर्वजाः कामं पूरयिष्यन्ति ते हयाः ॥
यदि प्रीतेन वा दत्तं संशये जीवितस्य वा । विद्या वित्तं श्रुतं वापि न तद्गन्धर्व कामये ॥
संयोगो वै प्रीतिकरः संसत्सु प्रतिदृश्यते । जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते ॥
त्वत्तो ह्यहं ग्रहीष्यामि अस्त्रमाग्नेयमुत्तमम् । तथैव सख्यं बीभत्सो चिराय भरतर्षभ ॥
त्वत्तोऽस्त्रेण वृणोम्यश्वान्संयोगः शाश्वतोऽस्तु नौ । सखे तद्ब्रूहि गन्धर्व युष्मभ्यो यद्भयं त्यजेत् ॥
← Previous (Ch. 157) Full Table of Contents Next (Ch. 159) →