Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 158

Ādiparva Adhyāya 158

आदिपर्व • अध्यायः 158

Ādiparva Adhyāya 158 of the classical Mahābhārata with 56 verses.

Total: 56 Verses • Citations: MBh 1.158.1–56 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः । समैरुदङ्मुखैर्मार्गैर्यथोद्दिष्टं परंतपाः ॥
ते गच्छन्तस्त्वहोरात्रं तीर्थं सोमश्रवायणम् । आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः ॥
उल्मुकं तु समुद्यम्य तेषामग्रे धनंजयः । प्रकाशार्थं ययौ तत्र रक्षार्थं च महायशाः ॥
तत्र गङ्गाजले रम्ये विविक्ते क्रीडयन्स्त्रियः । ईर्ष्युर्गन्धर्वराजः स्म जलक्रीडामुपागतः ॥
शब्दं तेषां स शुश्राव नदीं समुपसर्पताम् । तेन शब्देन चाविष्टश्चुक्रोध बलवद्बली ॥
स दृष्ट्वा पाण्डवांस्तत्र सह मात्रा परंतपान् । विस्फारयन्धनुर्घोरमिदं वचनमब्रवीत् ॥
संध्या संरज्यते घोरा पूर्वरात्रागमेषु या । अशीतिभिस्त्रुटैर्हीनं तं मुहूर्तं प्रचक्षते ॥
विहितं कामचाराणां यक्षगन्धर्वरक्षसाम् । शेषमन्यन्मनुष्याणां कामचारमिह स्मृतम् ॥
लोभात्प्रचारं चरतस्तासु वेलासु वै नरान् । उपक्रान्ता निगृह्णीमो राक्षसैः सह बालिशान् ॥
ततो रात्रौ प्राप्नुवतो जलं ब्रह्मविदो जनाः । गर्हयन्ति नरान्सर्वान्बलस्थान्नृपतीनपि ॥
आरात्तिष्ठत मा मह्यं समीपमुपसर्पत । कस्मान्मां नाभिजानीत प्राप्तं भागीरथीजलम् ॥
अङ्गारपर्णं गन्धर्वं वित्त मां स्वबलाश्रयम् । अहं हि मानी चेर्ष्युश्च कुबेरस्य प्रियः सखा ॥
अङ्गारपर्णमिति च ख्यातं वनमिदं मम । अनु गङ्गां च वाकां च चित्रं यत्र वसाम्यहम् ॥
न कुणपाः शृङ्गिणो वा न देवा न च मानुषाः । इदं समुपसर्पन्ति तत्किं समुपसर्पथ ॥
समुद्रे हिमवत्पार्श्वे नद्यामस्यां च दुर्मते । रात्रावहनि संधौ च कस्य कॢप्तः परिग्रहः ॥
वयं च शक्तिसंपन्ना अकाले त्वामधृष्णुमः । अशक्ता हि क्षणे क्रूरे युष्मानर्चन्ति मानवाः ॥
पुरा हिमवतश्चैषा हेमशृङ्गाद्विनिःसृता । गङ्गा गत्वा समुद्राम्भः सप्तधा प्रतिपद्यते ॥
इयं भूत्वा चैकवप्रा शुचिराकाशगा पुनः । देवेषु गङ्गा गन्धर्व प्राप्नोत्यलकनन्दताम् ॥
तथा पितॄन्वैतरणी दुस्तरा पापकर्मभिः । गङ्गा भवति गन्धर्व यथा द्वैपायनोऽब्रवीत् ॥
असंबाधा देवनदी स्वर्गसंपादनी शुभा । कथमिच्छसि तां रोद्धुं नैष धर्मः सनातनः ॥
अनिवार्यमसंबाधं तव वाचा कथं वयम् । न स्पृशेम यथाकामं पुण्यं भागीरथीजलम् ॥
अङ्गारपर्णस्तच्छ्रुत्वा क्रुद्ध आनम्य कार्मुकम् । मुमोच सायकान्दीप्तानहीनाशीविषानिव ॥
उल्मुकं भ्रामयंस्तूर्णं पाण्डवश्चर्म चोत्तमम् । व्यपोवाह शरांस्तस्य सर्वानेव धनंजयः ॥
बिभीषिकैषा गन्धर्व नास्त्रज्ञेषु प्रयुज्यते । अस्त्रज्ञेषु प्रयुक्तैषा फेनवत्प्रविलीयते ॥
मानुषानति गन्धर्वान्सर्वान्गन्धर्व लक्षये । तस्मादस्त्रेण दिव्येन योत्स्येऽहं न तु मायया ॥
पुरास्त्रमिदमाग्नेयं प्रादात्किल बृहस्पतिः । भरद्वाजस्य गन्धर्व गुरुपुत्रः शतक्रतोः ॥
भरद्वाजादग्निवेश्यो अग्निवेश्याद्गुरुर्मम । स त्विदं मह्यमददाद्द्रोणो ब्राह्मणसत्तमः ॥
इत्युक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह । प्रदीप्तमस्त्रमाग्नेयं ददाहास्य रथं तु तत् ॥
विरथं विप्लुतं तं तु स गन्धर्वं महाबलम् । अस्त्रतेजःप्रमूढं च प्रपतन्तमवाङ्मुखम् ॥
← Previous (Ch. 157) Full Table of Contents Next (Ch. 159) →