Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 159

Ādiparva Adhyāya 159

आदिपर्व • अध्यायः 159

Ādiparva Adhyāya 159 of the classical Mahābhārata with 23 verses.

Total: 23 Verses • Citations: MBh 1.159.1–23 • 250 Lexicon Terms
कारणं ब्रूहि गन्धर्व किं तद्येन स्म धर्षिताः । यान्तो ब्रह्मविदः सन्तः सर्वे रात्रावरिंदम ॥
अनग्नयोऽनाहुतयो न च विप्रपुरस्कृताः । यूयं ततो धर्षिताः स्थ मया पाण्डवनन्दन ॥
यक्षराक्षसगन्धर्वाः पिशाचोरगमानवाः । विस्तरं कुरुवंशस्य श्रीमतः कथयन्ति ते ॥
नारदप्रभृतीनां च देवर्षीणां मया श्रुतम् । गुणान्कथयतां वीर पूर्वेषां तव धीमताम् ॥
स्वयं चापि मया दृष्टश्चरता सागराम्बराम् । इमां वसुमतीं कृत्स्नां प्रभावः स्वकुलस्य ते ॥
वेदे धनुषि चाचार्यमभिजानामि तेऽर्जुन । विश्रुतं त्रिषु लोकेषु भारद्वाजं यशस्विनम् ॥
धर्मं वायुं च शक्रं च विजानाम्यश्विनौ तथा । पाण्डुं च कुरुशार्दूल षडेतान्कुलवर्धनान् । पितॄनेतानहं पार्थ देवमानुषसत्तमान् ॥
दिव्यात्मानो महात्मानः सर्वशस्त्रभृतां वराः । भवन्तो भ्रातरः शूराः सर्वे सुचरितव्रताः ॥
उत्तमां तु मनोबुद्धिं भवतां भावितात्मनाम् । जानन्नपि च वः पार्थ कृतवानिह धर्षणाम् ॥
स्त्रीसकाशे च कौरव्य न पुमान्क्षन्तुमर्हति । धर्षणामात्मनः पश्यन्बाहुद्रविणमाश्रितः ॥
नक्तं च बलमस्माकं भूय एवाभिवर्धते । यतस्ततो मां कौन्तेय सदारं मन्युराविशत् ॥
सोऽहं त्वयेह विजितः संख्ये तापत्यवर्धन । येन तेनेह विधिना कीर्त्यमानं निबोध मे ॥
ब्रह्मचर्यं परो धर्मः स चापि नियतस्त्वयि । यस्मात्तस्मादहं पार्थ रणेऽस्मिन्विजितस्त्वया ॥
यस्तु स्यात्क्षत्रियः कश्चित्कामवृत्तः परंतप । नक्तं च युधि युध्येत न स जीवेत्कथंचन ॥
यस्तु स्यात्कामवृत्तोऽपि राजा तापत्य संगरे । जयेन्नक्तंचरान्सर्वान्स पुरोहितधूर्गतः ॥
तस्मात्तापत्य यत्किंचिन्नृणां श्रेय इहेप्सितम् । तस्मिन्कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः ॥
वेदे षडङ्गे निरताः शुचयः सत्यवादिनः । धर्मात्मानः कृतात्मानः स्युर्नृपाणां पुरोहिताः ॥
जयश्च नियतो राज्ञः स्वर्गश्च स्यादनन्तरम् । यस्य स्याद्धर्मविद्वाग्मी पुरोधाः शीलवाञ्शुचिः ॥
लाभं लब्धुमलब्धं हि लब्धं च परिरक्षितुम् । पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम् ॥
पुरोहितमते तिष्ठेद्य इच्छेत्पृथिवीं नृपः । प्राप्तुं मेरुवरोत्तंसां सर्वशः सागराम्बराम् ॥
न हि केवलशौर्येण तापत्याभिजनेन च । जयेदब्राह्मणः कश्चिद्भूमिं भूमिपतिः क्वचित् ॥
तस्मादेवं विजानीहि कुरूणां वंशवर्धन । ब्राह्मणप्रमुखं राज्यं शक्यं पालयितुं चिरम् ॥
← Previous (Ch. 158) Full Table of Contents Next (Ch. 160) →