Skip to main content
Search
MBh
Mahābhārata • Parva 12 (Śāntiparva) • Adhyāya 265

Śāntiparva Adhyāya 265

शान्तिपर्व • अध्यायः 265

Śāntiparva Adhyāya 265 of the classical Mahābhārata with 24 verses.

Total: 24 Verses • Citations: MBh 12.265.1–24 • 250 Lexicon Terms
कथं भवति पापात्मा कथं धर्मं करोति वा । केन निर्वेदमादत्ते मोक्षं वा केन गच्छति ॥
English Translation
Yudhisthira said By what means does a man become sinful, by what does he acquire virtue, by what does he acquire renunciation, and by what does he acquire Liberation.
विदिताः सर्वधर्मास्ते स्थित्यर्थमनुपृच्छसि । शृणु मोक्षं सनिर्वेदं पापं धर्मं च मूलतः ॥
English Translation
Bhishma said now You know all duties. This question which you have put to me is only for confirmation of your conclusions. Listen fully to Liberation, and Renunciation, and Sin, and Virtue.
विज्ञानार्थं हि पञ्चानामिच्छा पूर्वं प्रवर्तते । प्राप्य ताञ्जायते कामो द्वेषो वा भरतर्षभ ॥
English Translation
Perceiving any one of the five objects, desire runs after it at first. Indeed, obtaining them within the pale of the senses, O foremost of Bharata's family, desire or hatred originates.
ततस्तदर्थं यतते कर्म चारभते पुनः । इष्टानां रूपगन्धानामभ्यासं च चिकीर्षति ॥
English Translation
One then, for the sake of that object, trics and begins acts that require much labour. One tries his best for enjoying again and again those forms and scents that appear very sweet.
ततो रागः प्रभवति द्वेषश्च तदनन्तरम् । ततो लोभः प्रभवति मोहश्च तदनन्तरम् ॥
English Translation
The mind of one possessed by greed and mistake and affected by attachment and hatred is never bent to virtue. One then begins with hypocrisy to do deeds which are good.
लोभमोहाभिभूतस्य रागद्वेषान्वितस्य च । न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च ॥
व्याजेन चरतो धर्ममर्थव्याजोऽपि रोचते । व्याजेन सिध्यमानेषु धनेषु कुरुनन्दन ॥
तत्रैव कुरुते बुद्धिं ततः पापं चिकीर्षति । सुहृद्भिर्वार्यमाणोऽपि पण्डितैश्चापि भारत ॥
उत्तरं न्यायसंबद्धं ब्रवीति विधियोजितम् । अधर्मस्त्रिविधस्तस्य वर्धते रागमोहजः ॥
पापं चिन्तयते चैव प्रब्रवीति करोति च । तस्याधर्मप्रवृत्तस्य दोषान्पश्यन्ति साधवः ॥
एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः । स नेह सुखमाप्नोति कुत एव परत्र वै ॥
एवं भवति पापात्मा धर्मात्मानं तु मे शृणु । यथा कुशलधर्मा स कुशलं प्रतिपद्यते ॥
य एतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति । कुशलः सुखदुःखानां साधूंश्चाप्युपसेवते ॥
English Translation
He who, helped by his wisdom, succeeds beforehand seeing the faults referred to above, who is skilled in determining what is happiness and what is sorrow and how each is engendered, and who waits respectfully upon the good, makes progress in acquiring virtue, both on account of his habit and such companionship of the good. The mind of such a person finds pleasure in virtue, and he live on, making virtue his stay.
तस्य साधुसमाचारादभ्यासाच्चैव वर्धते । प्रज्ञा धर्मे च रमते धर्मं चैवोपजीवति ॥
सोऽथ धर्मादवाप्तेषु धनेषु कुरुते मनः । तस्यैव सिञ्चते मूलं गुणान्पश्यति यत्र वै ॥
धर्मात्मा भवति ह्येवं मित्रं च लभते शुभम् । स मित्रधनलाभात्तु प्रेत्य चेह च नन्दति ॥
शब्दे स्पर्शे तथा रूपे रसे गन्धे च भारत । प्रभुत्वं लभते जन्तुर्धर्मस्यैतत्फलं विदुः ॥
स धर्मस्य फलं लब्ध्वा न तृप्यति युधिष्ठिर । अतृप्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा ॥
प्रज्ञाचक्षुर्यदा कामे दोषमेवानुपश्यति । विरज्यते तदा कामान्न च धर्मं विमुञ्चति ॥
सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम् । ततो मोक्षाय यतते नानुपायादुपायतः ॥
English Translation
Seeing then all the worlds as being subject top destruction, he tries to renounce virtue and tries to attain to Liberation by the (well-known) means.
शनैर्निर्वेदमादत्ते पापं कर्म जहाति च । धर्मात्मा चैव भवति मोक्षं च लभते परम् ॥
English Translation
Gradually renouncing all sinful deeds he follows Renunciation, and becoming righteoussouled succeeds at last in acquiring Liberation.
एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि । पापं धर्मं तथा मोक्षं निर्वेदं चैव भारत ॥
English Translation
I have now told you, O Son, of that about which you had asked me, viz., the topics of Sin, Righteousness, Renunciation, and Liberation, O Bharata.
तस्माद्धर्मे प्रवर्तेथाः सर्वावस्थं युधिष्ठिर । धर्मे स्थितानां कौन्तेय सिद्धिर्भवति शाश्वती ॥
English Translation
You should, therefore, O Yudhishthira, follow virtue under all circumstances. Eternal is the success, O son of Kunti, of you who follow righteousness.
← Previous (Ch. 1592) Full Table of Contents Next (Ch. 1594) →