Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 146

Ādiparva Adhyāya 146

आदिपर्व • अध्यायः 146

Ādiparva Adhyāya 146 of the classical Mahābhārata with 37 verses.

Total: 37 Verses • Citations: MBh 1.146.1–37 • 250 Lexicon Terms
न संतापस्त्वया कार्यः प्राकृतेनेव कर्हिचित् । न हि संतापकालोऽयं वैद्यस्य तव विद्यते ॥
अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः । अवश्यभाविन्यर्थे वै संतापो नेह विद्यते ॥
भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते । व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र वै ॥
एतद्धि परमं नार्याः कार्यं लोके सनातनम् । प्राणानपि परित्यज्य यद्भर्तृहितमाचरेत् ॥
तच्च तत्र कृतं कर्म तवापीह सुखावहम् । भवत्यमुत्र चाक्षय्यं लोकेऽस्मिंश्च यशस्करम् ॥
एष चैव गुरुर्धर्मो यं प्रवक्षाम्यहं तव । अर्थश्च तव धर्मश्च भूयानत्र प्रदृश्यते ॥
यदर्थमिष्यते भार्या प्राप्तः सोऽर्थस्त्वया मयि । कन्या चैव कुमारश्च कृताहमनृणा त्वया ॥
समर्थः पोषणे चासि सुतयो रक्षणे तथा । न त्वहं सुतयोः शक्ता तथा रक्षणपोषणे ॥
मम हि त्वद्विहीनायाः सर्वकामा न आपदः । कथं स्यातां सुतौ बालौ भवेयं च कथं त्वहम् ॥
कथं हि विधवानाथा बालपुत्रा विना त्वया । मिथुनं जीवयिष्यामि स्थिता साधुगते पथि ॥
अहंकृतावलिप्तैश्च प्रार्थ्यमानामिमां सुताम् । अयुक्तैस्तव संबन्धे कथं शक्ष्यामि रक्षितुम् ॥
उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः । प्रार्थयन्ति जनाः सर्वे वीरहीनां तथा स्त्रियम् ॥
साहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः । स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम ॥
कथं तव कुलस्यैकामिमां बालामसंस्कृताम् । पितृपैतामहे मार्गे नियोक्तुमहमुत्सहे ॥
कथं शक्ष्यामि बालेऽस्मिन्गुणानाधातुमीप्षितान् । अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान् ॥
इमामपि च ते बालामनाथां परिभूय माम् । अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा ॥
तां चेदहं न दित्सेयं त्वद्गुणैरुपबृंहिताम् । प्रमथ्यैनां हरेयुस्ते हविर्ध्वाङ्क्षा इवाध्वरात् ॥
संप्रेक्षमाणा पुत्रं ते नानुरूपमिवात्मनः । अनर्हवशमापन्नामिमां चापि सुतां तव ॥
अवज्ञाता च लोकस्य तथात्मानमजानती । अवलिप्तैर्नरैर्ब्रह्मन्मरिष्यामि न संशयः ॥
तौ विहीनौ मया बालौ त्वया चैव ममात्मजौ । विनश्येतां न संदेहो मत्स्याविव जलक्षये ॥
त्रितयं सर्वथाप्येवं विनशिष्यत्यसंशयम् । त्वया विहीनं तस्मात्त्वं मां परित्यक्तुमर्हसि ॥
व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परा गतिः । न तु ब्राह्मण पुत्राणां विषये परिवर्तितुम् ॥
परित्यक्तः सुतश्चायं दुहितेयं तथा मया । बान्धवाश्च परित्यक्तास्त्वदर्थं जीवितं च मे ॥
यज्ञैस्तपोभिर्नियमैर्दानैश्च विविधैस्तथा । विशिष्यते स्त्रिया भर्तुर्नित्यं प्रियहिते स्थितिः ॥
तदिदं यच्चिकीर्षामि धर्म्यं परमसंमतम् । इष्टं चैव हितं चैव तव चैव कुलस्य च ॥
इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः । आपद्धर्मविमोक्षाय भार्या चापि सतां मतम् ॥
एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धन । न समं सर्वमेवेति बुधानामेष निश्चयः ॥
स कुरुष्व मया कार्यं तारयात्मानमात्मना । अनुजानीहि मामार्य सुतौ मे परिरक्ष च ॥
अवध्याः स्त्रिय इत्याहुर्धर्मज्ञा धर्मनिश्चये । धर्मज्ञान्राक्षसानाहुर्न हन्यात्स च मामपि ॥
निःसंशयो वधः पुंसां स्त्रीणां संशयितो वधः । अतो मामेव धर्मज्ञ प्रस्थापयितुमर्हसि ॥
भुक्तं प्रियाण्यवाप्तानि धर्मश्च चरितो मया । त्वत्प्रसूतिः प्रिया प्राप्ता न मां तप्स्यत्यजीवितम् ॥
जातपुत्रा च वृद्धा च प्रियकामा च ते सदा । समीक्ष्यैतदहं सर्वं व्यवसायं करोम्यतः ॥
उत्सृज्यापि च मामार्य वेत्स्यस्यन्यामपि स्त्रियम् । ततः प्रतिष्ठितो धर्मो भविष्यति पुनस्तव ॥
न चाप्यधर्मः कल्याण बहुपत्नीकता नृणाम् । स्त्रीणामधर्मः सुमहान्भर्तुः पूर्वस्य लङ्घने ॥
एतत्सर्वं समीक्ष्य त्वमात्मत्यागं च गर्हितम् । आत्मानं तारय मया कुलं चेमौ च दारकौ ॥
एवमुक्तस्तया भर्ता तां समालिङ्ग्य भारत । मुमोच बाष्पं शनकैः सभार्यो भृशदुःखितः ॥
← Previous (Ch. 145) Full Table of Contents Next (Ch. 147) →