ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम् । दक्षिणां प्रेषयामास वानरानभिलक्षितान् ॥
tataḥ prasthāpya sugrīvastanmahadvānaraṃ balam | dakṣiṇāṃ preṣayāmāsa vānarānabhilakṣitān ||
English Translation
Then having sent away that mighty host of monkeys, Sugriva despatched to the South others competent to perform the several tasks entrusted to them.
Morphemic Decomposition & Padaccheda
ततः
ततस् [ind]
प्रस्थाप्य
प्रस्थापय् [10. P.]
सुग्रीवस्
सुग्रीव [m]
तन्
तद् [pron]
महद्
महत् [adj]
वानरं
वानर [adj]
बलम्
बल [mn]
दक्षिणां
दक्षिण [adj]
प्रेषयामास
प्रेषय् [10. Ā.]
वानरान्
वानर [m]
अभिलक्षितान्
अभिलक्ष् [1. Ā.]
नीलमग्निसुतं चैव हनुमन्तं च वानरम् । पितामहसुतं चैव जाम्बवन्तं महाकपिम् ॥
nīlamagnisutaṃ caiva hanumantaṃ ca vānaram | pitāmahasutaṃ caiva jāmbavantaṃ mahākapim ||
Morphemic Decomposition & Padaccheda
नीलम्
नील [m]
अग्निसुतं
अग्नि [m]
अग्निसुतं
सुत [m]
चैव
च [ind]
चैव
एव [ind]
हनुमन्तं
हनुमन्त् [m]
च
च [ind]
वानरम्
वानर [m]
पितामहसुतं
पितामह [m]
पितामहसुतं
सुत [m]
चैव
च [ind]
चैव
एव [ind]
जाम्बवन्तं
जाम्बवन्त् [m]
महाकपिम्
महत् [adj]
महाकपिम्
कपि [m]
सुहोत्रं च शरीरं च शरगुल्मं तथैव च । गजं गवाक्षं गवयं सुषेणमृषभं तथा ॥
suhotraṃ ca śarīraṃ ca śaragulmaṃ tathaiva ca | gajaṃ gavākṣaṃ gavayaṃ suṣeṇamṛṣabhaṃ tathā ||
Morphemic Decomposition & Padaccheda
सुहोत्रं
सुहोत्र [m]
च
च [ind]
शरारिं
शरारि [f]
च
च [ind]
शरगुल्मं
शरगुल्म [m]
तथैव
तथा [ind]
तथैव
एव [ind]
च
च [ind]
गजं
गज [m]
गवाक्षं
गवाक्ष [m]
गवयं
गवय [m]
सुषेणम्
सुषेण [m]
ऋषभं
ऋषभ [m]
तथा
तथा [ind]
मैन्दं च द्विविदं चैव विजयं गन्धमादनम् । उल्कामुखमसङ्गं च हुताशन सुतावुभौ ॥
maindaṃ ca dvividaṃ caiva vijayaṃ gandhamādanam | ulkāmukhamasaṅgaṃ ca hutāśana sutāvubhau ||
Morphemic Decomposition & Padaccheda
मैन्दं
मैन्द [m]
च
च [ind]
द्विविदं
द्विविद [m]
चैव
च [ind]
चैव
एव [ind]
विजयं
विजय [m]
गन्धमादनम्
गन्धमादन [m]
उल्कामुखम्
उल्कामुख [m]
असङ्गं
असङ्ग [m]
च
च [ind]
हुताशनसुताव्
हुताशन [m]
हुताशनसुताव्
सुत [m]
उभौ
उभ् [pron]
अङ्गदप्रमुखान्वीरान्वीरः कपिगणेश्वरः । वेगविक्रमसंपन्नान्संदिदेश विशेषवित् ॥
aṅgadapramukhānvīrānvīraḥ kapigaṇeśvaraḥ | vegavikramasaṃpannānsaṃdideśa viśeṣavit ||
Morphemic Decomposition & Padaccheda
अङ्गदप्रमुखान्
अङ्गद [m]
अङ्गदप्रमुखान्
प्रमुख [adj]
वीरान्
वीर [m]
वीरः
वीर [m]
कपिगणेश्वरः
कपि [m]
कपिगणेश्वरः
गण [m]
कपिगणेश्वरः
ईश्वर [m]
वेगविक्रमसम्पन्नान्
वेग [m]
वेगविक्रमसम्पन्नान्
विक्रम [m]
वेगविक्रमसम्पन्नान्
सम्पद् [4. P.]
संदिदेश
संदिश् [6. Ā.]
विशेषवित्
विशेष [m]
विशेषवित्
विद् [adj]
तेषामग्रेसरं चैव महद्बलमसंगगम् । विधाय हरिवीराणामादिशद्दक्षिणां दिशम् ॥
teṣāmagresaraṃ caiva mahadbalamasaṃgagam | vidhāya harivīrāṇāmādiśaddakṣiṇāṃ diśam ||
English Translation
Then Sugriva ordered mighty Angada to lead the group of the heroic monkeys in the southern direction.
Morphemic Decomposition & Padaccheda
तेषाम्
तद् [pron]
अग्रेसरं
अग्रेसर [adj]
चैव
च [ind]
चैव
एव [ind]
महद्
महत् [adj]
बलम्
बल [mn]
असङ्गगम्
असङ्ग [m]
असङ्गगम्
ग [adj]
विधाय
विधा [3. Ā.]
हरिवीराणाम्
हरि [m]
हरिवीराणाम्
वीर [m]
आदिशद्
आदिश् [6. Ā.]
दक्षिणां
दक्षिण [adj]
दिशम्
दिश् [f]
ये केचन समुद्देशास्तस्यां दिशि सुदुर्गमाः । कपीशः कपिमुख्यानां स तेषां तानुदाहरत् ॥
ye kecana samuddeśāstasyāṃ diśi sudurgamāḥ | kapīśaḥ kapimukhyānāṃ sa teṣāṃ tānudāharat ||
English Translation
Sugriva, the monkey king, explained to the monkey chiefs about the inaccessible places in the southern direction.
Morphemic Decomposition & Padaccheda
ये
यद् [pron]
केचन
कश्चन [pron]
समुद्देशास्
समुद्देश [m]
तस्यां
तद् [pron]
दिशि
दिश् [f]
सुदुर्गमाः
सु [ind]
सुदुर्गमाः
दुर्गम [adj]
कपीशः
कपि [m]
कपीशः
ईश [m]
कपिमुख्यानां
कपि [m]
कपिमुख्यानां
मुख्य [adj]
स
तद् [pron]
तेषां
तद् [pron]
तान्
तद् [pron]
उदाहरत्
उदाहृ [2. P.]
सहस्रशिरसं विन्ध्यं नानाद्रुमलतावृतम् । नर्मदां च नदीं दुर्गां महोरगनिषेविताम् ॥
sahasraśirasaṃ vindhyaṃ nānādrumalatāvṛtam | narmadāṃ ca nadīṃ durgāṃ mahoraganiṣevitām ||
Morphemic Decomposition & Padaccheda
सहस्रशिरसं
सहस्रशिरस् [adj]
विन्ध्यं
विन्ध्य [m]
नानाद्रुमलतावृतम्
नाना [ind]
नानाद्रुमलतावृतम्
द्रुम [m]
नानाद्रुमलतावृतम्
लता [f]
नानाद्रुमलतावृतम्
आवृ [5. Ā.]
नर्मदां
नर्मदा [f]
च
च [ind]
नदीं
नदी [f]
दुर्गां
दुर्ग [adj]
महोरगनिषेविताम्
महत् [adj]
महोरगनिषेविताम्
उरग [mn]
महोरगनिषेविताम्
निषेव् [1. Ā.]
ततो गोदावरीं रम्यां कृष्णावेणीं महानदीम् । वरदां च महाभागां महोरगनिषेविताम् ॥
tato godāvarīṃ ramyāṃ kṛṣṇāveṇīṃ mahānadīm | varadāṃ ca mahābhāgāṃ mahoraganiṣevitām ||
Morphemic Decomposition & Padaccheda
ततो
ततस् [ind]
गोदावरीं
गोदावरी [f]
रम्यां
रम्य [adj]
कृष्णवेणीं
कृष्णवेणी [f]
महानदीम्
महानदी [f]
वरदां
वरदा [f]
च
च [ind]
महाभागां
महाभाग [adj]
महोरगनिषेविताम्
महत् [adj]
महोरगनिषेविताम्
उरग [mn]
महोरगनिषेविताम्
निषेव् [1. Ā.]
मेखलानुत्कलांश्चैव दशार्णनगराण्यपि । अवन्तीमभ्रवन्तीं च सर्वमेवानुपश्यत ॥
mekhalānutkalāṃścaiva daśārṇanagarāṇyapi | avantīmabhravantīṃ ca sarvamevānupaśyata ||
Morphemic Decomposition & Padaccheda
मेखलान्
मेखल [m]
उत्कलांश्
उत्कल [mn]
चैव
च [ind]
चैव
एव [ind]
दशार्णनगराण्य्
दशन् [adj]
दशार्णनगराण्य्
अर्ण [mn]
दशार्णनगराण्य्
नगर [mn]
अपि
अपि [ind]
अवन्तीम्
अवन्ती [f]
च
च [ind]
सर्वम्
सर्व [pron]
एवानुपश्यत
एव [ind]
एवानुपश्यत
अनुपश् [4. Ā.]
विदर्भानृषिकांश्चैव रम्यान्माहिषकानपि । तथा बङ्गान्कलिङ्गांश्च कौशिकांश्च समन्ततः ॥
vidarbhānṛṣikāṃścaiva ramyānmāhiṣakānapi | tathā baṅgānkaliṅgāṃśca kauśikāṃśca samantataḥ ||
Morphemic Decomposition & Padaccheda
विदर्भान्
विदर्भ [m]
ऋषिकांश्
ऋषिक [m]
चैव
च [ind]
चैव
एव [ind]
रम्यान्
रम्य [adj]
माहिषकान्
माहिषक [m]
अपि
अपि [ind]
तथा
तथा [ind]
वङ्गान्
वङ्ग [m]
कलिङ्गांश्
कलिङ्ग [mn]
च
च [ind]
कौशिकांश्
कौशिक [m]
च
च [ind]
समन्ततः
समन्ततः [ind]
अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम् । नदीं गोदावरीं चैव सर्वमेवानुपश्यत ॥
anvīkṣya daṇḍakāraṇyaṃ saparvatanadīguham | nadīṃ godāvarīṃ caiva sarvamevānupaśyata ||
Morphemic Decomposition & Padaccheda
अन्वीक्ष्य
अन्वीक्ष् [4. P.]
दण्डकारण्यं
दण्डक [mfn]
दण्डकारण्यं
अरण्य [n]
सपर्वतनदीगुहम्
स [ind]
सपर्वतनदीगुहम्
पर्वत [mn]
सपर्वतनदीगुहम्
नदी [f]
सपर्वतनदीगुहम्
गुहा [f]
नदीं
नदी [f]
गोदावरीं
गोदावरी [f]
चैव
च [ind]
चैव
एव [ind]
सर्वम्
सर्व [pron]
एवानुपश्यत
एव [ind]
एवानुपश्यत
अनुपश् [4. Ā.]
तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान्पाण्ड्यान्सकेरलान् । अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः ॥
tathaivāndhrāṃśca puṇḍrāṃśca colānpāṇḍyānsakeralān | ayomukhaśca gantavyaḥ parvato dhātumaṇḍitaḥ ||
Morphemic Decomposition & Padaccheda
तथैवान्ध्रांश्
तथा [ind]
तथैवान्ध्रांश्
एव [ind]
तथैवान्ध्रांश्
अन्ध्र [m]
च
च [ind]
पुण्ड्रांश्
पुण्ड्र [m]
च
च [ind]
चोलान्
चोल [m]
पाण्ड्यान्
पाण्ड्य [m]
सकेरलान्
सकेरल [adj]
अयोमुखश्
अयोमुख [m]
च
च [ind]
गन्तव्यः
गम् [6. Ā.]
पर्वतो
पर्वत [mn]
धातुमण्डितः
धातु [mn]
धातुमण्डितः
मण्डय् [Denom. Ā.]
विचित्रशिखरः श्रीमांश्चित्रपुष्पितकाननः । सचन्दनवनोद्देशो मार्गितव्यो महागिरिः ॥
vicitraśikharaḥ śrīmāṃścitrapuṣpitakānanaḥ | sacandanavanoddeśo mārgitavyo mahāgiriḥ ||
English Translation
Then shall you repair to the mountain Ayomukha,* plated with ore, having taking summits, graceful, furnished with picturesque flowering woods,-the mighty mountain having groves of excellent sandal. *Another name of this hill is Malaya.
Morphemic Decomposition & Padaccheda
विचित्रशिखरः
विचित्र [adj]
विचित्रशिखरः
शिखर [mn]
श्रीमांश्
श्रीमत् [adj]
चित्रपुष्पितकाननः
चित्र [adj]
चित्रपुष्पितकाननः
पुष्पित [adj]
चित्रपुष्पितकाननः
कानन [n]
सचन्दनवनोद्देशो
सचन्दन [adj]
सचन्दनवनोद्देशो
वन [n]
सचन्दनवनोद्देशो
उद्देश [m]
मार्गितव्यो
मार्ग् [Denom. Ā.]
महागिरिः
महत् [adj]
महागिरिः
गिरि [m]
ततस्तामापगां दिव्यां प्रसन्नसलिलां शिवाम् । तत्र द्रक्ष्यथ कावेरीं विहृतामप्सरोगणैः ॥
tatastāmāpagāṃ divyāṃ prasannasalilāṃ śivām | tatra drakṣyatha kāverīṃ vihṛtāmapsarogaṇaiḥ ||
English Translation
At the foot of the Malaya mountain endued with exceeding energy, you will behold the noble stream Kāveri, of pleasant waters, where sport troops of Apsarās.
Morphemic Decomposition & Padaccheda
ततस्
ततस् [ind]
ताम्
तद् [pron]
आपगां
आपगा [f]
दिव्यां
दिव्य [adj]
प्रसन्नसलिलां
प्रसद् [1. Ā.]
प्रसन्नसलिलां
सलिल [n]
शिवाम्
शिव [adj]
तत्र
तत्र [ind]
द्रक्ष्यथ
दृश् [6. P.]
कावेरीं
कावेरी [f]
विहृताम्
विहृ [1. Ā.]
अप्सरोगणैः
अप्सरस् [f]
अप्सरोगणैः
गण [m]
तस्यासीनं नगस्याग्रे मलयस्य महौजसं । द्रक्ष्यथादित्यसंकाशमगस्त्यमृषिसत्तमम् ॥
tasyāsīnaṃ nagasyāgre malayasya mahaujasaṃ | drakṣyathādityasaṃkāśamagastyamṛṣisattamam ||
English Translation
(There) you will see that foremost of saints, Agastya, resembling the sun.
Morphemic Decomposition & Padaccheda
तस्यासीनं
तद् [pron]
तस्यासीनं
आस् [4. P.]
नगस्याग्रे
नग [m]
नगस्याग्रे
अग्र [n]
मलयस्य
मलय [m]
महौजसम्
महत् [adj]
महौजसम्
ओजस् [n]
द्रक्ष्यथादित्यसंकाशम्
दृश् [6. P.]
द्रक्ष्यथादित्यसंकाशम्
आदित्य [m]
द्रक्ष्यथादित्यसंकाशम्
संकाश [m]
अगस्त्यम्
अगस्त्य [mn]
ऋषिसत्तमम्
ऋषि [m]
ऋषिसत्तमम्
सत्तम [adj]
ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना । ताम्रपर्णीं ग्राहजुष्टां तरिष्यथ महानदीम् ॥
tatastenābhyanujñātāḥ prasannena mahātmanā | tāmraparṇīṃ grāhajuṣṭāṃ tariṣyatha mahānadīm ||
English Translation
Permitted by that gratified high-souled one, you will cross over the great river, Tăniraparni, abounding in alligators.
Morphemic Decomposition & Padaccheda
ततस्
ततस् [ind]
तेनाभ्यनुज्ञाताः
तद् [pron]
तेनाभ्यनुज्ञाताः
अभ्यनुज्ञा [9. Ā.]
प्रसन्नेन
प्रसद् [1. Ā.]
महात्मना
महात्मन् [adj]
ताम्रपर्णीं
ताम्रपर्णी [f]
ग्राहजुष्टां
ग्राह [m]
ग्राहजुष्टां
जुष् [6. Ā.]
तरिष्यथ
तृ [3. P.]
महानदीम्
महानदी [f]
सा चन्दनवनैर्दिव्यैः प्रच्छन्ना द्वीप शालिनी । कान्तेव युवतिः कान्तं समुद्रमवगाहते ॥
sā candanavanairdivyaiḥ pracchannā dvīpa śālinī | kānteva yuvatiḥ kāntaṃ samudramavagāhate ||
English Translation
Like a youthful female in relation to her lover, she (Tāmraparni), with both her waters as well as islets concealed under beautiful sandal woods, bathes in the sea.
Morphemic Decomposition & Padaccheda
सा
तद् [pron]
चन्दनवनैर्
चन्दन [mn]
चन्दनवनैर्
वन [n]
दिव्यैः
दिव्य [adj]
प्रच्छन्ना
प्रच्छद् [1. P.]
द्वीपशालिनी
द्वीप [mn]
द्वीपशालिनी
शालिन् [adj]
कान्तेव
कान्ता [f]
कान्तेव
इव [ind]
युवतिः
युवति [f]
कान्तं
कान्त [m]
समुद्रम्
समुद्र [m]
अवगाहते
अवगाह् [1. P.]
ततो हेममयं दिव्यं मुक्तामणिविभूषितम् । युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः ॥
tato hemamayaṃ divyaṃ muktāmaṇivibhūṣitam | yuktaṃ kavāṭaṃ pāṇḍyānāṃ gatā drakṣyatha vānarāḥ ||
English Translation
Proceeding (therefrom), the monkeys shall see the grand golden gates belonging to the walls of the capital of the Pāndyas.
Morphemic Decomposition & Padaccheda
ततो
ततस् [ind]
हेममयं
हेमन् [n]
हेममयं
मय [adj]
दिव्यं
दिव्य [adj]
मुक्तामणिविभूषितम्
मुक्तामणि [m]
मुक्तामणिविभूषितम्
विभूषय् [10. P.]
युक्तं
युज् [6. Ā.]
कवाटं
कवाट [m]
पाण्ड्यानां
पाण्ड्य [m]
गता
गम् [6. Ā.]
द्रक्ष्यथ
दृश् [6. P.]
वानराः
वानर [m]
ततः समुद्रमासाद्य संप्रधार्यार्थनिश्चयम् । अगस्त्येनान्तरे तत्र सागरे विनिवेशितः ॥
tataḥ samudramāsādya saṃpradhāryārthaniścayam | agastyenāntare tatra sāgare viniveśitaḥ ||
English Translation
Then arriving at the main, you shall ascertain your ability or otherwise of crossing the same. In the bosom of the deep there, Agastya has placed that foremost of mountains-the charming Mahendra, having picturesque plateaus; golden, and beautiful,-with a portion of it sunk in the great ocean.
Morphemic Decomposition & Padaccheda
ततः
ततस् [ind]
समुद्रम्
समुद्र [m]
आसाद्य
आसादय् [10. Ā.]
सम्प्रधार्यार्थनिश्चयम्
सम्प्रधारय् [10. P.]
सम्प्रधार्यार्थनिश्चयम्
अर्थ [mn]
सम्प्रधार्यार्थनिश्चयम्
निश्चय [m]
अगस्त्येनान्तरे
अगस्त्य [mn]
अगस्त्येनान्तरे
अन्तर [adj]
तत्र
तत्र [ind]
सागरे
सागर [m]
विनिवेशितः
विनिवेशय् [10. P.]
चित्रनानानगः श्रीमान्महेन्द्रः पर्वतोत्तमः । जातरूपमयः श्रीमानवगाढो महार्णवम् ॥
citranānānagaḥ śrīmānmahendraḥ parvatottamaḥ | jātarūpamayaḥ śrīmānavagāḍho mahārṇavam ||
English Translation
'Then on reaching the sea shore, decide the course of action. Sage Agastya has set up (between the moat of the city and and the sea) a glorious golden mountain Mahendra. Filled with colourful trees, it stretches into the sea.
Morphemic Decomposition & Padaccheda
चित्रनानानगः
चित्र [adj]
चित्रनानानगः
नाना [ind]
चित्रनानानगः
नग [m]
श्रीमान्
श्रीमत् [adj]
महेन्द्रः
महेन्द्र [m]
पर्वतोत्तमः
पर्वत [mn]
पर्वतोत्तमः
उत्तम [adj]
जातरूपमयः
जातरूप [n]
जातरूपमयः
मय [adj]
श्रीमान्
श्रीमत् [adj]
अवगाढो
अवगाह् [1. P.]
महार्णवम्
महत् [adj]
महार्णवम्
अर्णव [mn]
नानाविधैर्नगैः फुल्लैर्लताभिश्चोपशोभितम् । देवर्षियक्षप्रवरैरप्सरोभिश्च सेवितम् ॥
nānāvidhairnagaiḥ phullairlatābhiścopaśobhitam | devarṣiyakṣapravarairapsarobhiśca sevitam ||
English Translation
'That mountain with several kinds of colourful trees and vines is frequented by gods, sages and prominent yakshas like siddhas and charanas. It is exceedingly delightful and even the thousandeyed Indra keeps visiting this place on full and new Moon days.
Morphemic Decomposition & Padaccheda
नानाविधैर्
नानाविध [adj]
नगैः
नग [m]
फुल्लैर्
फुल्ल [adj]
लताभिश्
लता [f]
चोपशोभितम्
च [ind]
चोपशोभितम्
उपशोभय् [10. P.]
देवर्षियक्षप्रवरैर्
देव [m]
देवर्षियक्षप्रवरैर्
ऋषि [m]
देवर्षियक्षप्रवरैर्
यक्ष [m]
देवर्षियक्षप्रवरैर्
प्रवर [adj]
अप्सरोभिश्
अप्सरस् [f]
च
च [ind]
सेवितम्
सेव् [4. P.]
सिद्धचारणसंघैश्च प्रकीर्णं सुमनोहरम् । तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु ॥
siddhacāraṇasaṃghaiśca prakīrṇaṃ sumanoharam | tamupaiti sahasrākṣaḥ sadā parvasu parvasu ||
English Translation
'That mountain with several kinds of colourful trees and vines is frequented by gods, sages and prominent yakshas like siddhas and charanas. It is exceedingly delightful and even the thousandeyed Indra keeps visiting this place on full and new Moon days.
Morphemic Decomposition & Padaccheda
सिद्धचारणसंघैश्
सिद्ध [m]
सिद्धचारणसंघैश्
चारण [m]
सिद्धचारणसंघैश्
संघ [m]
च
च [ind]
प्रकीर्णं
प्रक् [6. P.]
सुमनोहरम्
सु [ind]
सुमनोहरम्
मनोहर [adj]
तम्
तद् [pron]
उपैति
उपे [2. Ā.]
सहस्राक्षः
सहस्राक्ष [m]
सदा
सदा [ind]
पर्वसु
पर्वन् [n]
पर्वसु
पर्वन् [n]
द्वीपस्तस्यापरे पारे शतयोजनमायतः । अगम्यो मानुषैर्दीप्तस्तं मार्गध्वं समन्ततः । तत्र सर्वात्मना सीता मार्गितव्या विशेषतः ॥
dvīpastasyāpare pāre śatayojanamāyataḥ | agamyo mānuṣairdīptastaṃ mārgadhvaṃ samantataḥ | tatra sarvātmanā sītā mārgitavyā viśeṣataḥ ||
English Translation
On its other shore is an island extending over an hundred Yojanas, inaccessible to men*, and of splendid aspect. Do you explore it all round. There, in particular, you must every way search for Sita. *Because, says the commentator,. of the profusion of gold in it.
Morphemic Decomposition & Padaccheda
द्वीपस्
द्वीप [mn]
तस्यापरे
तद् [pron]
तस्यापरे
अपर [pron]
पारे
पार [mn]
शतयोजनम्
शत [mn]
शतयोजनम्
योजन [fn]
आयतः
आयम् [6. P.]
अगम्यो
अगम्य [adj]
मानुषैर्
मानुष [m]
दीप्तस्
दीप् [4. P.]
तं
तद् [pron]
मार्गध्वं
मार्ग् [Denom. Ā.]
समन्ततः
समन्ततः [ind]
तत्र
तत्र [ind]
सर्वात्मना
सर्व [pron]
सर्वात्मना
आत्मन् [m]
सीता
सीता [f]
मार्गितव्या
मार्ग् [Denom. Ā.]
विशेषतः
विशेषतः [ind]
स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः । राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः ॥
sa hi deśastu vadhyasya rāvaṇasya durātmanaḥ | rākṣasādhipatervāsaḥ sahasrākṣasamadyuteḥ ||
English Translation
That country belongs to the impious Rāvana, worthy of being slain—the lord of Raksasas, like to the thousand-eyed (deity) in splendour.
Morphemic Decomposition & Padaccheda
स
तद् [pron]
हि
हि [ind]
देशस्
देश [m]
तु
तु [ind]
वध्यस्य
वध् [4. P.]
रावणस्य
रावण [m]
दुरात्मनः
दुरात्मन् [adj]
राक्षसाधिपतेर्
राक्षस [m]
राक्षसाधिपतेर्
अधिपति [m]
वासः
वास [m]
सहस्राक्षसमद्युतेः
सहस्राक्ष [m]
सहस्राक्षसमद्युतेः
सम [pron]
सहस्राक्षसमद्युतेः
द्युति [f]
दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी । अङ्गारकेति विख्याता छायामाक्षिप्य भोजिनी ॥
dakṣiṇasya samudrasya madhye tasya tu rākṣasī | aṅgāraketi vikhyātā chāyāmākṣipya bhojinī ||
English Translation
In the midst of the Southern sea belonging to him (Ravana), there is a Raksasi, named Angāraketi, who procureth her pray by casting her shadow.
Morphemic Decomposition & Padaccheda
दक्षिणस्य
दक्षिण [adj]
समुद्रस्य
समुद्र [m]
मध्ये
मध्य [n]
तस्य
तद् [pron]
तु
तु [ind]
राक्षसी
राक्षसी [f]
अङ्गारकेति
अङ्गारक [m]
अङ्गारकेति
इति [ind]
विख्याता
विख्या [2. P.]
छायाम्
छाया [f]
आक्षिप्य
आक्षिप् [4. P.]
भोजिनी
भोजिन् [adj]
तमतिक्रम्य लक्ष्मीवान्समुद्रे शतयोजने । गिरिः पुष्पितको नाम सिद्धचारणसेवितः ॥
tamatikramya lakṣmīvānsamudre śatayojane | giriḥ puṣpitako nāma siddhacāraṇasevitaḥ ||
Morphemic Decomposition & Padaccheda
तम्
तद् [pron]
अतिक्रम्य
अतिक्रम् [6. P.]
लक्ष्मीवान्
लक्ष्मीवत् [adj]
समुद्रे
समुद्र [m]
शतयोजने
शत [mn]
शतयोजने
योजन [fn]
गिरिः
गिरि [m]
पुष्पितको
पुष्पितक [m]
नाम
नाम [ind]
सिद्धचारणसेवितः
सिद्ध [m]
सिद्धचारणसेवितः
चारण [m]
सिद्धचारणसेवितः
सेव् [4. P.]
चन्द्रसूर्यांशुसंकाशः सागराम्बुसमावृतः । भ्राजते विपुलैः शृङ्गैरम्बरं विलिखन्निव ॥
candrasūryāṃśusaṃkāśaḥ sāgarāmbusamāvṛtaḥ | bhrājate vipulaiḥ śṛṅgairambaraṃ vilikhanniva ||
English Translation
'It looks bright, spreading its radiance like the Sun and Moon. It is surrounded by the sea. Its peaks appear as though scratching the sky.
Morphemic Decomposition & Padaccheda
चन्द्रसूर्यांशुसंकाशः
चन्द्र [m]
चन्द्रसूर्यांशुसंकाशः
सूर्य [m]
चन्द्रसूर्यांशुसंकाशः
अंशु [m]
चन्द्रसूर्यांशुसंकाशः
संकाश [m]
सागराम्बुसमावृतः
सागर [m]
सागराम्बुसमावृतः
अम्बु [n]
सागराम्बुसमावृतः
समावृ [5. P.]
भ्राजते
भ्राज् [1. P.]
विपुलैः
विपुल [adj]
शृङ्गैर्
शृङ्ग [n]
अम्बरं
अम्बर [n]
विलिखन्न्
विलिख् [6. P.]
इव
इव [ind]
तस्यैकं काञ्चनं शृङ्गं सेवते यं दिवाकरः । श्वेतं राजतमेकं च सेवते यं निशाकरः ॥
tasyaikaṃ kāñcanaṃ śṛṅgaṃ sevate yaṃ divākaraḥ | śvetaṃ rājatamekaṃ ca sevate yaṃ niśākaraḥ ||
English Translation
'The Sun resorts to its golden peak. The Moon rests over its silver peak. Neither the ungrateful, nor the mean nor the unbelievers can behold this (phenomenon).
Morphemic Decomposition & Padaccheda
तस्यैकं
तद् [pron]
तस्यैकं
एक [pron]
काञ्चनं
काञ्चन [adj]
शृङ्गं
शृङ्ग [n]
सेवते
सेव् [4. P.]
यं
यद् [pron]
दिवाकरः
दिवाकर [m]
श्वेतं
श्वेत [adj]
राजतम्
राजत [adj]
एकं
एक [pron]
च
च [ind]
सेवते
सेव् [4. P.]
यं
यद् [pron]
निशाकरः
निशाकर [m]
न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः । प्रणम्य शिरसा शैलं तं विमार्गत वानराः ॥
na taṃ kṛtaghnāḥ paśyanti na nṛśaṃsā na nāstikāḥ | praṇamya śirasā śailaṃ taṃ vimārgata vānarāḥ ||
Morphemic Decomposition & Padaccheda
न
न [ind]
तं
तद् [pron]
कृतघ्नाः
कृतघ्न [adj]
पश्यन्ति
दृश् [6. P.]
न
न [ind]
नृशंसा
नृशंस [adj]
न
न [ind]
नास्तिकाः
नास्तिक [m]
प्रणम्य
प्रणम् [1. Ā.]
शिरसा
शिरस् [n]
शैलं
शैल [mn]
तं
तद् [pron]
विमार्गत
विमार्ग् [Denom. Ā.]
वानराः
वानर [m]