Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 08

Prakāśa 8: सापेक्षशब्दशब्दशक्तिप्रकाशः

प्रकाशः 8 • सापेक्षशब्दशब्दशक्तिप्रकाशः

Prakāśa 8 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 746 Verses • Citations: SP 8.1–746 • 4 Lexicon Terms • Page 20 of 25 (Verses 30 shown)
पदान्यन्वितं प्रत्यायन्ति, नाभिदधतीति; इयं नाभिधात्री शक्तिरन्वितविषया, किन्त्वन्वयव्यतरेकावगतनिष्कृष्टस्वार्थविषयैव। तात्पर्यशक्तिस्तु तेषामन्वितावगमपर्यन्ता सहव्यापारात्, व्यापारस्य तदीयनिराकाङ्क्षप्रत्ययोत्पादनपर्यन्तत्वात्। तथा हि—
अन्यथैव मतिश्शाब्दी विषयेषु विजृम्भते।
प्रतिपत्तुरनाकाङ्क्षप्रत्ययोत्पादनावधिः॥ १००॥
अत एव पदं लोके केवलं न प्रयुज्यते।
न हि तेन निराकङ्क्षा श्रोतुराधीयते मतिः॥ १०१॥
नन्वभिधानव्यतिरिक्तः कोऽन्यः शब्दस्य कृत्स्‍नफलपर्यन्तप्रत्यायनात्मा व्यापारः?
अस्ति कश्चिद् यः सर्वैरेव संसर्गवादिभिरप्रत्याख्येयः। न हि संसर्गोऽभिधीयते, प्रतीयते च वाक्यात्।
ननु संसृष्टाभिधाने सति संसर्गः प्रतीयते, नान्यथा।
नैतदेवम्, संहत्यकारित्वादेव संसर्गावगमसिद्धेः। न हि संहत्यकरणम् असंसृष्टं च कार्यं क्वचिद् दृश्यते।
अपि च प्रकृतिप्रत्ययौ हि परस्परसापेक्षमर्थमभिदधाते। न च प्रकृत्या प्रत्ययार्थोऽभिधीयते, नियोगस्य धातुवाच्यत्वात्। न च प्रत्ययेन प्रकृत्यर्थोऽभिधीयते, यज्यादेर्लिङाद्यर्थानुपंपत्तेः। न च तौ पृथक् स्वकार्यं कुरुतः। एवं पदान्यपि परस्परापेक्षीणि संहत्य कार्यं करिष्यन्ति। न च परस्परस्यार्थमभिधास्यन्ति, वाक्यान्यपि प्रकरणपतितान्येवमेव। तदुक्तम्— (श्‍लोवा.)
प्रकृतिप्रत्ययौ यद्वदपेक्षेते परस्परम्।
पदं पदान्तरं यद्‍वद् वाक्यं वाक्यान्तरं तथा॥ १०२॥
अयमेव च पक्षः श्रेयान्। संहत्यकारित्वं पदार्थानाम् असङ्कीर्णार्थत्वं च (न्यायमं.)
निरपेक्षप्रयोगेऽयःशलाका कल्पना भवेत्।
तदन्विताभिधाने तु पदान्तरमनर्थकम्॥ १०३॥
संहत्यकारिपक्षे तु दोषो नैकोऽपि युज्यते।
तेनायमुपगन्तव्यो मार्गो विगतकण्टकः॥ १०४॥
अभिधात्री मता शक्तिः पदानां स्वार्थनिष्ठिता।
तेषां तात्पर्यशक्तिस्तु संसर्गावगमावधिः॥ १०५॥
तेनान्विताभिधानं हि नास्माभिरिह मृष्यते।
अन्वितप्रतिपत्तिस्तु बाढमभ्युपगम्यते॥ १०६॥
संहत्यकारित्वाच्च पदानां न स्वार्थाभिधित्सयैव समुच्चारणं, अपि तु प्रधानकार्यमेव कर्तुम्। तदुक्तम्—
वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम्।
पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम्॥ १०७॥
तस्मान्नान्विताभिधानं नाप्यभिहितानामन्वयः। किंतु यथोपन्यस्तपक्ष एव श्रेयानिति॥
तदेवमाकाङ्क्षासन्निधियोग्यतावन्तः पदार्थाश्चतुष्प्रकारमन्वयमनुभवन्तो वाक्यार्थीभवन्ति।
← Previous (Ch. 7) Full Table of Contents Next (Ch. 9) →