Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 08

Prakāśa 8: सापेक्षशब्दशब्दशक्तिप्रकाशः

प्रकाशः 8 • सापेक्षशब्दशब्दशक्तिप्रकाशः

Prakāśa 8 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 746 Verses • Citations: SP 8.1–746 • 4 Lexicon Terms • Page 17 of 25 (Verses 30 shown)
अपि च यदि पदार्थावगतिमात्रादेवान्वयावगमस्तदा कस्मिन् प्रमाणेऽस्यान्तर्भाव इति वाच्यम्। न तावच्छाब्दे, शब्दाभावात्; पदार्थाभिधानावान्तरव्यापारेण हि यच्छब्दादन्वयज्ञानं न तच्छाब्दमित्यभिहितान्वयवादिनां सिद्धान्त इति नास्य शाब्देऽन्तर्भावः। प्रमाणान्तराभ्युपमे तु शाब्दस्योच्छेदः, शब्दावगतपदार्थाविषयेऽपि तस्यैव प्रामाण्यप्रसङ्गात्। तस्माच्छब्दाभिहितानां पदार्थानामन्यत्रादृष्टं वाक्यार्थाव— बोधनसामर्थ्यं परिकल्पयितव्यम्। तदाधानशक्तिश्च शाब्दानामपीति कल्पनालाघवा— च्छब्दानामेवान्वितस्वार्थबोधनशक्तिमात्रं कल्पयितुं न्याय्यम्।
अथोच्यते—'आकाङ्क्षासन्निधियोग्यतावन्तः पदार्था एव वाक्यार्थीभवन्ति, न पुनर्वाक्यार्थमवबोधयन्तीति, तदतिमन्दम्; वाक्यार्थावगतेः कारणाभावप्रसङ्गात्। अनुपायत्वे हि पदानामन्वयप्रतीतौ पदार्था अपि चेन्न कारणं अकारण्येवान्वय— प्रतीतिरापद्येत।
स्यान्मतम्—'क्रियापदेन कारकपदेन वा साकाङ्क्षार्थे पूर्वाभिहिते यदेव पदान्तरेण योग्यं प्रतियोगिपदार्थान्तरं सन्निधाप्यते, तदेव तत्र सम्बन्धित्वेनावतिष्ठत' इति।
सत्यमेवम्; अवगतिस्तु तत्सम्बन्धस्य किंनिबन्धनेति वाच्यम् ?
अथ पूर्वपदार्थे साकाङ्क्षे यत्पदान्तरमुच्‍चरति तत् तत्सम्बन्धितयैव स्वार्थमुपनयति, प्रत्ययवत्। यथा प्रकृत्यर्थे पूर्वप्रतीते प्रत्यय उच्‍चार्यमाणः स्वार्थं तद्विशिष्टमेवाभिधत्ते तथा पदान्तरमपीति। तदुक्तम्—'प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूत'—इति (काशिकायां १.२.५६)। प्रकृतिः स्वार्थं प्रत्ययार्थविशेषणत्वेनोपनयन्ती प्रत्ययेन सह तदर्थमाहेत्यर्थः। तथा चोक्तम्—
नित्यं विशिष्ट एवार्थे प्रत्ययो यतत्‌प्रयुज्यते।
तत्पूर्वतरविज्ञातप्रकृत्यर्थविशेषणात् ॥ ८७॥
अङ्गीकृतं तर्हि द्वितीयस्यान्विताभिधानं, प्रथमस्य तथापि नास्तीति चेन्न; वाक्ये पदानां प्रयोगक्रमनियमाभावात्। यदेव कदाचित् प्रथमं तदेव कदाचिद् द्वितीयमिति सर्वपदानामन्विताभिधानमापतितम्। किंच प्रत्ययश्चेदन्विताभिधायी तदा तदविशेषात् पदानामन्विताभिधायिता किमिति नाभ्युपेयते ? किमर्धवैशसेन ?
अत्राभिधीयते; लाक्षणिका एव सर्वे वाक्यार्थाः, ततश्च न पदार्थानामन्वय— बोधने शक्तिगौरवम्। अनन्वितावस्थो हि पदेनार्थोऽभिहितोऽन्वितावस्थां स्वसम्बन्धिनीं लक्षयति। अवस्थावस्थावतोर्हि संबन्धादवस्थावत्यवगते भवत्येवावस्थापि बुद्धिस्था सर्वत्र संबन्धिनि दृष्टे सम्बन्ध्यन्तरे बुद्धिर्भवतीति सिद्धमेव। तेन नास्ति पदार्थानामन्वितबोधने शक्तिकल्पनेति। तदाह—
वाक्यार्थो लक्ष्यमाणो हि सर्वत्रैवेति लक्ष्यते॥ ८८॥
वाच्यस्यार्थस्य वाक्यार्थे सम्बन्धानुपपत्तितः।
तत्सम्बन्धवशप्राप्‍तस्यान्वयात् लक्षणोच्यते॥ ८९॥
तद्यथा— 'गङ्गायां घोषः प्रतिवसतीत्यादिश्रौतस्य गङ्गार्थस्य वाक्यान्वयासम्भवात् तत् परित्यज्य तत्सम्बन्धाल्लब्धसन्निधेः कूलस्य वाक्यान्वितताऽध्यवसीयते। अत एव चाहुः—'अनुपपत्त्या सम्बन्धेन च लक्षणा भवति इह च गामानयेत्यादौ न श्रौतस्यान्वया— योग्यत्वं, नाप्यन्वितावस्थस्यानयनसम्बन्धार्हता, अन्वितस्यान्वयान्तराभावात्।
अपि च सर्ववाक्यार्थानां लाक्षणिकत्वे मुख्य x x x।
अथ मा भूदेषा लक्षणा। किंतु क्रियावगतकारकान्वयिनीमात्मनो दशामवगमयत्यविनाभावित्वादिति।
उच्यते—'शाब्दत्वं तावदित्थमपह्नुतमन्वयावगमस्य। किंतु सामान्यतोदुष्टा— नुमानगोचरताऽभ्युगता भवति। तथा च विशेषावगतिरनुपपन्नमूलाऽऽपद्येत।
अथ विशेषान्वयं विना व्यवहारानवकल्पनादनर्थकं शब्दोच्‍चारणमिति तदाश्रयणम् ?
एवमपि प्रेक्षापूर्वकारिणां सार्थकमात्रप्रयोगिणां वचनाद् विशेषान्ययावगमः। वेदे त्वानर्थक्येन न भवितव्यमिति प्रमाणाभावान्न शक्यते विशेषान्वयो वक्‍तुम्।
न च लोकेऽप्यानर्थक्यमापद्यत इत्येतावता कारणेनोपायान् विनापि विशेषा— ध्यवसानं युक्तम्। न हि दग्धुकामस्यौदनस्यौदकोपादानमनर्थकमिति जलस्य दाहकशक्तिराविर्भवतीति काममानर्थक्यम्। न पुनः सामान्यतोदृष्टस्य विशेषान्वयिता।
अथाकाङ्क्षितसन्निहितयोग्यान्वयपरता वृद्धव्यवहारेण पदानामवगतेत्यन्वयावगमः।
तन्न; वृद्धव्यवहार एव कथं तत्परता तत्पदानामुपायाभावे निर्वहतीति चिन्ता। १. नेत्यालङ्कारिकाः, लक्षणा—सामग्र्या अभावात्। सा हि पदानां पदार्थानां वा शक्तिकल्पनां विनानुपपन्नेति मन्यामहे। सा च पदानामेवोचिता। यदाह—
प्राथम्यादभिधातृत्वात् तात्पर्यावगमादपि।
पदानामेव सा शक्तिर् वरमित्यवगम्यताम्॥ ९०॥
प्रथमभावीनि हि पदान्यतिलङ्घ्य न पदार्थेषु वाक्यार्थावबोधनशक्तिराश्रयितुं युक्ता। किंच पदानि तावद् अभिधायकानीति निर्विवादम्। तेन तेषा— मभिधानशक्तिस्सम्प्रतिपन्नैवेति तस्या एवान्वयपर्यन्तता कल्पयितुं सुकरा। पदार्थानां तु बोधनशक्तिरेव कल्प्या। तेन धर्मिकल्पनातो धर्मकल्पना लघीयसीति अन्विता— भिधानशक्तिः पदानामेव कल्पयितुमुचिता।
किंच पदान्यभिधायकानीष्यन्ते। तत्र यदि स्वरूपमात्रविषयामेव बुद्धिमाद— ध्युरभिधायकता हीयेत, तस्या बुद्धेः सम्बन्धग्रहणसमुपजातसंस्कारप्रभवत्वात्। अवश्यं हि सम्बन्धस्मरणसिद्ध‍यर्थं सम्बन्धिभूतार्थसाधारणसंस्कारोद्‍बोधोऽङ्गीकरणीयः। तस्मात् सम्बन्धग्रहणसमयानधिगतानन्वितार्थप्रतिपादनाभ्युपगम एव शब्दानामभिधायकतेति तामङ्गीकुर्वता पदानामन्विताभिधायिताऽऽश्रयणीया। यस्तु—
← Previous (Ch. 7) Full Table of Contents Next (Ch. 9) →