(सर्व—सलवणा गौरी अधरस्य मधुरः स्वादः।
तिक्ता अम्ला प्रलोकने विरह एव कटुकः कषायः॥)
अत्र रूपं वर्णयन्प्रसङ्गतः षड्रसानभिमतानभिमतत्वं च तेषां निर्दिशति। द्वितीया यथा— (मुरा. ३.२१)
प्रत्यग्रोन्मेषजिह्मा क्षणमनभिमुखी रत्नदीपप्रभाणा—
मात्मव्यापारगुर्वी जनितजललवा जृम्भणैः साङ्गभङ्गैः।
नागाङ्कं मोक्तुमिच्छोः शयनमुरुफणाचक्रवालोपधानं
निद्राच्छेदाभिताम्रा चिरमवतु हरेर्दृष्टिराकेकरा वः॥ १२॥
अत्र मुद्राराक्षसे चाणक्येन कौमुदीमहोत्सवे निषिद्धे राक्षस(प्र)(युक्तो) वैतालिकः प्रभाते मङ्गलानि पठन् शरदवतारो वर्तत इति चन्द्रगुप्तस्य गुप्तमावेदयति।
(२. नैयायिकी)
अथ नैयायिकी।
१. यत्र पूर्वोक्तमेव वाक्यमर्थान्तरे वक्त्रन्तरादिभिरूहयित्वा निवेश्यते ताम् ऊहनैयायिकीम् आमनन्ति। तद्यथा कालिदासः 'किं कुन्तलेश्वरः करोति' इति विक्रमादित्येन पृष्ट उक्तवान्—
असकलहसितत्वात् क्षालितानीव कान्त्या मुकुलितनयनत्वाद् व्यक्तकर्णोत्पलानि।
पिबति मधुसुगन्धीन्याननानि प्रियाणां त्वयि विनिहितभारः कुन्तलानामधीशः॥
इदमेवोहयित्वा विक्रमादित्यः प्रत्युवाच—
पिबतु मधुसुगन्धीन्याननानि प्रियाणां
मयि विनिहितभारः कुन्तलानामधीशः॥ १४॥
२. यत्र पाठक्रमेण सम्बन्धानुपपत्तावर्थक्रमेण विपर्यस्य पदानि योजयन्ते, सा विपर्ययनैयायिकी यथा—(कुसं. ५.२८)
स्वयं विशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसस्तया पुनः।
तदप्यवा/पाकीर्णमतः प्रियंवदां वदन्त्यपर्णेति च तां पुराविदः॥ १५॥
३. अत्रातस्तां प्रियंवदामपर्णां वदन्ति पुराविद इति पर्यायेण पदानि योज्यन्ते। यत्र तुल्यार्थपदप्रयोगे विभक्तिविपरिणामेन विशेषणविशेष्ययोर्योज्यन्ते, सा विपरिणामनैयायिकी। यथा—(माघ. ४.४०)
दन्तोज्ज्वलासु विमलोपलमेखलान्ता—
स्सद्रत्नचित्रकटकासु बृहन्नितम्बाः।
अस्मिन् भजन्ति घनकोमलगण्डशैला
नार्योऽनुरूपमधिवासमधित्यकासु॥ १६॥
अत्र सप्तम्यन्तानि प्रथमान्तानि च विशेषणानि नारीरधित्यकाश्च विभक्तिविपरिणामतो विशेषयन्ति। एतेन वचनविभक्तिविपरिणामो लिङ्गविपरिणामश्च व्याख्यातः। तयोराद्यो यथा—(माघ. १२.३)
हस्तस्थिताखण्डितचक्रशालिनं द्विजेन्द्रकान्तं श्रितवक्षसं श्रिया।
सत्यानुरक्तं नरकस्य जिष्णवो गुणौर्नृपाः शार्ङ्गिणमन्वयासिषुः॥ १७॥
द्वितीयो यथा—(माघ ५.२०)
रोचिष्णुकाञ्चनचयांशुपिशङ्गिताशा वंशध्वजैर्जलदसंहतिमुल्लिखन्त्यः।
भूभर्तुरायतनिरन्तरसन्निविष्टाः पादा इवाभिबभुरावलयो रथानाम्॥ ९८॥