यत्त्वधिगतविषयत्वं दूषणमुक्तं तदिष्यत एव। अत एव न पदं पदार्थे प्रमाणम्, अधिगतविषयत्वात्, अनधिगतार्थगन्तृ हि प्रमाणं भवति। न च पदस्य स्वार्थे स्मारकत्वमेव। यदाह—
पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते॥ ९७॥
(श्लोवा. ५.१०७)
न तु स्मारकमेव भवति। तस्मात् पदानामभिहितान्वय एव न्याय्य इति।
(उभयवादः)
उभयवादिनस्त्वेवमामनन्ति, सामान्यतोऽन्विताभिधानं विशेषतोऽभिहितान्वय इति। गोशब्दो हि स्वार्थमनवगतविशेषगुणक्रियासामान्यान्वितमभिधत्ते। तदेतत् सामान्येनान्विताभिधानम्। शुक्लादिगुणविशेषस्तु पदान्तरादवगम्यते। सोऽयं विशेषेणाभिहितान्वय इति।
अपि च क्रियाकारकसंसर्गरूपो वाक्यार्थः, क्रियासम्बन्धमन्तरेण कारकत्वानुपपत्तेः। विशेषेषु चानन्त्यव्यभिचारादिदोषात् क्रियासामान्यान्वित एव कारके कारकपदानां सम्बन्धग्रहणं, संबन्धानुसारेण चाभिधानात् सामान्येऽन्विताभिधानमेव घटते। व्यवहारकाले च क्रियाविशेषान्वितानामेव कारकाणामुपलम्भात्। क्रियाणामपि च कारकविशेषान्वितानां प्रतीतेः शब्दव्यापारस्य सामान्यान्वयाभिधानेनैव परिसमाप्तेर्विशेषेष्वभिहितान्वय एव युज्यते। एवं च पदान्तरोच्चारणमपि न व्यर्थं भवति, अपेक्षितक्रियाकारकविशेष— समर्पकत्वेनार्थवत्त्वात्।
यद्यपि चात्र क्रियाकारकमात्रान्वयाभिधाने क्रियाकारकमात्रसम्बन्धित्वं क्रियाकारकसामान्याभिप्रायम्, तथाऽपि स्वार्थमात्रोपादायिनः सर्वभेदान् प्रति योग्यता; तदेवा—(तद्भेदा—)नुगुण्यमात्रं सामान्यम्, न हि तथा, अन्यथा सर्वथा वेति सामान्यमवस्थितरूपं किंचिदस्ति, सर्व एते विशेषा एव। तस्यास्तु सामान्यावस्थायां भेदस्य कस्यचिदनिरूपणादत्यागाच्च या सर्वभेदोपग्रहयोग्यतायां परिप्लवमानार्थकल्पना तां सम्बन्धो विषयान्तरादवच्छिद्य विशिष्टे विषये नियमयति। तदुक्तम्—
सर्वभेदानुगुण्यं तु सामान्यमपरे विदुः।
तदर्थान्तरसंसर्गाद् भजते भेदरूपताम्॥ ९८॥
(वाप. २.४४)
भेदानाकाङ्क्षतस्तस्य या परिप्लवमानता।
अवच्छिनत्ति सम्बन्धस्तां विशेषे निवेशयन्॥ ९९॥
(वाप. २.४५)
अत एव च नानेकवाक्यार्थप्रतीतिः। सर्वेषां कारकाणां कर्मादिभावेन व्यवस्थितानामेव क्रियासम्बन्धात्। न च प्रथमश्रुतादप्यर्थप्रतीतिः, विद्यमानस्याप्यन्वयस्य सम्बन्धग्रहणमन्तरेणानुपलब्धेः। न चैकपदोच्चारणकाले सकलवाक्यार्थप्रतीतिः, तदानीं विशेषसमर्पकपदप्रयोगायोगात्।
यद्येवं सामान्येनान्विताभिधानमेवास्तु, किं विशेषेणाभिहितान्वयेन। वृद्धव्यवहारप्रसिद्धसम्बन्धो हि शब्दोऽर्थस्य वाचकः। अन्वयव्यतिरेकाभ्यां च सम्बन्धावधारणम्। न च विशेषान्वयविषयौ तौ सम्भवतः। क्रियापदं हि कारक— सामान्याऽव्यभिचारिण्या क्रियया सहान्वयव्यतिरेकौ भजते, विशेषान्वये विशेषान्तरव्यभिचारात्। एवं कारकपदमपि।
तन्न; विशेषान्वयेऽपि आकाङ्क्षासन्निधियोग्यत्वोपाधिवशेन सम्बन्धग्रहणं सुकरमिति तदभिधायितैव युक्ता पदानाम्। यदि चासौ नेष्यते तदा वाक्यार्थप्रतिपत्तिरेव नोपपद्यते, वाक्यार्थस्य विशेषान्वयरूपत्वात्।
ननु च सामान्यान्वयोऽभिहितो विशेषान्वयमाक्षेप्स्यति, निर्विशेषस्य सामान्यस्यैव प्रत्येतुमशक्यत्वात्।
नैवम्। यथा जातिर्व्यक्तिमाक्षिपन्त्यपि न प्रतिनियतं विशेषमाक्षिपति, तथात्रापि नियताविशेषाभावान्नियतविशेषात्मकवाक्यार्थप्रतीतिरुपपन्ना।
ननु विशेषमात्राक्षेपेऽपि य आकाङ्क्षितः सन्निहितो योग्यश्च विशेषः पदान्तरेण समर्प्यते स एव गृह्यते, तदतिक्रमे प्रमाणाभावात् (इति),
एतदपि न सम्यक्। सामान्यान्विताभिधानवादिनो हि मते पदानि तावत् तन्मात्रपर्यवसितशक्तीनि; पदार्थानामपि चान्वयबोधनशक्तिर्नाङ्गीक्रियते। न च सामान्याक्षेपोऽपि नियतविशेषमास्कन्दति। तेनाकाङ्क्षिते योग्ये च विशेषपदान्तरेण सन्निधापिते तदन्वयबोधकप्रमाणाभावादन्वयो न प्रतीयते। अत आकाङ्क्षासन्निधि— योगयत्वान्यनुपयोगीन्येव।
विशेषान्विताभिधानवादिनस्तु मते सम्बन्धग्रहणं प्रत्युपाधित्वेनानुप्रविष्टानि वाक्यार्थप्रतिपत्तावुपयुज्यन्ते। पदात् पदार्थः पदार्थान्तरसम्बन्धो बोद्धव्य इत्यस्यां व्युत्पत्तावुपाधित्वेन योग्यत्वादिकर्मानुप्रविशद्विशेषान्विताभिधानवादिनः पक्षमपाकरोति, न सामान्यान्विताभिधानवादिन इति। किंच क्रियाकारकस्वभावालोचनयापि कारकमात्रेणा— न्वयसिद्धेर्वृथा सामान्यमात्रान्वयाभिधायकता शब्दस्याङ्गीक्रियते। तस्मात् तदुक्त एव न्यायः श्रेयान्, सामान्येनान्विताभिधानं, विशेषेणाभिहितान्वय इति।
युक्तं चैतत्, पदस्य प्रकृतिप्रत्ययात्मकत्वात्। पदे हि पचतीत्यादौ प्रकृत्यर्थः प्रत्ययार्थश्च सामान्यविशेषावगमरूपमन्योन्यान्वितं प्रतीयते। तत्र पचित्येषा प्रकृतिः सिद्धसाध्यत्वादिधर्मविनिर्मुक्तं प्रत्ययार्थमात्रान्वययोग्यं पाकसामान्यमात्रमभिदधाति। अतिप्रत्ययस्तु पौर्वापर्यनियमान्न प्रकृतिवत् स्वतन्त्रः सामान्यमात्रे धियमादधाति; अपि तु प्रकृतार्थापेक्षयाऽऽचक्षाणः स्वार्थं विशेषमेव समर्पयतीति।
अनुभयवादिनः पुनरित्थं समर्थयन्ते— नान्विताभिधानं, न चाभिहितान्वयः, किं तर्हि? समुदितैः पदैरेको वाक्यार्थः प्रत्याय्यते। स च गुणभूतेतरपदार्थसंसृष्टः कश्चित् पदार्थ एवेति।
ननु किमयमन्विताभिधानपक्षः पुनरुत्थापयितुमिष्टः?
मैवम्; नेदमन्विताभिधानम्। किं तर्हि संहत्यकारिता पदानाम्?
उच्यते— 'संहत्यकारिताप्यस्ति, न चान्विताभिधानम्, अन्वितमर्थं पदानि संहत्य संपादयन्ति, न त्वन्वितमभिदधति।
किमिदानीं कुर्वन्ति वाक्यार्थं पदानि, घटमिव मृदादीनि?
एतदपि नास्ति, ज्ञापकत्वात् तेषाम्।
का तर्हीयं वाचोयुक्तेः संहत्यकारीणि पदानि, न चान्वितमभिदधतीति?