(६३) सम्प्रयोगविरामो रतावसानं यथा— (माघ. १०.८०,८८,८२,८४)
प्राप्य मन्मथमदादतिभूमिं दुर्वहस्तनभराः सुरतस्य।
शश्रमुः श्रमजलार्द्रललाटश्लिष्टकेशमसितायतकेश्यः॥ २०२॥
विश्रमार्थमुपगूढमजस्रं यत् प्रियैः प्रथमरत्यवसाने।
योषितामुदितमन्मथमादौ तद् द्वितीयसुरतस्य बभूव॥ २०३॥
प्रेक्षणीयकमिवेक्षणमासां ह्रीविभङ्गुरविलोचनपाताः।
सम्भ्रमद्रुतगृहीतदुकूलच्छाद्यमानवपुषः सुरतान्ताः॥ २०४॥
श्लिष्टचन्दनविशेषकभक्तिभ्रष्टभूषणकदर्थितमाल्यः।
सापराध इव मण्डनमासीदात्मनैव सृदृशामुपभोगः॥ २०५॥
(६४) रतावसाने सुखस्वापो निद्रानुभवः, यथा—(सक. ५.४७०)
आश्लेषिणः पृथुतरक्लमशीतपीतमायामिनीर्घनमुदो रजनीर्युवानः।
ऊर्वोर्मुहुर्वलयबन्धनसन्धिलोलपादान्तसंवलिततूलपटाः स्वपन्ति॥ २०६॥
लघुनि तृणकुटीरे क्षेत्रकोणे यवानां नवकलम-१ पलालस्रस्तरे सोपधाने।
परिहरति सुषुप्तं हालिकद्वन्द्वमारात् कुचकलशमहोष्माबद्धरेखस्तुषाऱः॥ २०७॥
१. कलम = कमल राघवः।
व्रीहिः स्तम्बकरिः, प्रभूतपयसः प्रत्यागता धेनवः, प्रत्युज्जीवितभिक्षुणा भृशमिति ध्यायन्नपेतान्यधीः।
सान्द्रोशीरकुटुम्बिनीस्तनभरव्यालुप्तघर्मक्लमो देवे नीरमुदारमुज्झति सुखं शेते निशि ग्रामणीः॥ २०८॥
चिरतररतिखेदप्राप्तनिद्रासुखानां चरममपि शयित्वा पूर्वमेव प्रबुद्धाः।
अपरिचलितगात्राः कुर्वते न प्रियाणामशिथिलभुजचक्रश्लेषभेदं तरुण्यः॥ २०९॥
(माघ. ११. १३)
क्रियात्मनोऽमी कालस्य भेदाद् विस्रम्भणादयः।
विस्रम्भणादिसम्भोगभेदावच्छेदहेतवः ॥ २१०॥
चतुष्षष्टिरतोऽत्रैव केचिद् विस्रम्भणादयः।
मानाद्यनन्तरेऽपि स्युः केचिच्चन्द्रोदयादयः॥ २११॥
सम्भोग उक्तः प्रथमानुरागादनन्तरस्सोऽयमनेकभेदः।
मानात् प्रवासात् करुणाच्च सम्प्रत्यनन्तराः किञ्चिदुदाह्रियन्ते॥ २१२॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते शृङ्गारप्रकाशे प्रथमानुरागप्रकाशो नाम ॥ चतुस्त्रिंशः प्रकाशः॥ ३४॥
अयतिष्ट सनातनः प्रकाशे यदयं निर्व्यवधानमेव काश्याम्।
फलमेतदुदीतिमाप नूनं प्रथमः कल्पतरुस्तपो हि भूमौ॥