Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 34

Prakāśa 34: आनन्तर्यप्रकाशः

प्रकाशः 34 • आनन्तर्यप्रकाशः

Prakāśa 34 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 779 Verses • Citations: SP 34.1–779 • 4 Lexicon Terms • Page 24 of 26 (Verses 30 shown)
(५८)आगतानामनुरागवृद्धये प्रसाधनसंवाहनादिविधिः परिचरणम्, यथा—(कुसं. ८.२७)
तां पुलोमतनयालकोचितैः पारिजातकुसुमैः प्रसाधयन्।
नन्दने चिरमयुग्मलोचनस्सस्पृहं सुरवधूभिरीडितः॥ १८२॥
आविवाहसमयाद् गृहे वने शैशवे तदनु यौवने पुनः।
स्वापहेतुरनुपाश्रितोऽन्यया रामबाहुरुपधानमेष ते॥ १८३॥ (उराच. १.३७)
लोलांशुकस्य पवनाकुलितांशुकान्तं त्वद्दृष्टिबहारि मम लोचनबान्धवस्य।
अध्यासितुं तव चिरं जघनस्थलस्य पर्याप्‍तमेव करभोरु! ममोरुयुग्मम्॥ १८४॥(वेसं. २.२३)
किं शीतलैः क्लमविनोदिभिरार्द्रवातान् सञ्चारयामि नलिनीदलतालवृन्तैः।
अङ्के निधाय करभोरु! यथासुखं ते संवाहयामि चरणावुत पद्मताम्रौ॥ १८५॥
(५९) रिरंसातिशयान् सख्यादीनामनवेक्षणादिभिरुत्थापनं विसर्जनम्, यथा—(किराता. ९.६६)
भर्तृषूपसखि निक्षिपतीनामात्मनः स्फुटमदोद्यमितानाम्।
व्रीडया विफलया वनितानां न स्थितं न विगतं हृदयेभ्यः॥ १८६॥
मिथ्यामीलदरालपक्ष्मणि वलत्यन्तः कुरङ्गीदृशो दीर्घापाङ्गसरित्तरङ्गसरले तल्पोन्मुखे चक्षुषि।
पत्युः केलिमतः कथा विरमयन्नन्योन्यकण्डूयनैः को मां व्याहरतीत्युदीर्य निरगात् सव्याजमालीजनः॥ १८७॥
मधुमदपरिपाटलप्रकोपद्विगुणतरारुणितेक्षणं मृगाक्ष्या।
रतिरसमनया घनापराधं प्रियामिव सेर्ष्यदृशा व्यलोकि दीपः॥ १८८॥
अथ रतिरभसादलीकनिद्रामधुरविघूर्णितलोचनोत्पलाभिः।
शयनतलमशिश्रयन् वधूभिः सहमदमन्मथमन्थरा युवानः॥ १८९॥
(६०) कूर्पासकविभूषणादित्यागः कञ्चुकादिमोक्षः, यथा—
सव्वंगत्ता (सव्वंगाओ) हिअकंचुअम्मि मणिवलअणिबिडपरिच्‍चते।
दे रइ—लालस—लीला—विसूरिअं सहउ मिहुणस्स॥ १९०॥
(सर्वाङ्गाद् हृतकञ्चुके मणिमलयनिबिडपरित्यक्‍ते।
तावत् रतिलालसलीलाखिन्नं राजतु मिथुनस्य॥)
खिप्पइ हारो थणमंडलाहि तरुणीहिं रमणपरिरंभे।
अग्घिअगुणा वि गुणिनो लहन्ति लहुअत्तणं काले॥ १९१॥
(क्षिप्यते हारः स्तनमण्डलात् तरुणीभी रमणपरिरम्भे।
अर्चितगुणा अपि गुणिनो लभन्ते लघुत्वं काले॥)
वीसंतस्स विलासिणिहिए कुसुमाउहस्स रसणाए।
← Previous (Ch. 33) Full Table of Contents Next (Ch. 35) →