Skip to main content
Search
SV
Śiśupālavadham • Chapter 02

Canto 2

द्वितीयः सर्गः (मन्त्रवर्णनम्)

Canto 2 of Śiśupālavadham.

Total: 118 Verses • Citations: SV 2.1–118 • 1 Lexicon Terms • Page 3 of 4 (Verses 30 shown)
SV 2.61 अनुष्टुप्
नीतिरापदि यद्गम्यः परस्तन्मानिनो ह्रिये । विधुर्विधुन्तस्येव पूर्णस्तस्योत्सवाय सः ॥
SV 2.62 अनुष्टुप्
अन्यदुच्छृङ्घलं सत्वमन्यत्छ्छास्त्रनियन्त्रितं । सामानाधिकरण्यं हि तेजस्तमिरयोः कुतः ॥
SV 2.63 अनुष्टुप्
इन्द्रप्रस्थगमस्तावत्कारि मा सन्तु चेदयः । आस्माकदन्तिसान्निध्याद्वामनीभूतभूरुहः ॥
SV 2.64 अनुष्टुप्
निरुद्धवीवधासारप्रसारा गा इव व्रजम् । उपरुन्धन्तु दाशार्हाः पुरीं माहिष्मतीं द्विषः ॥
SV 2.65 अनुष्टुप्
यजतां पाण्डवः स्वर्गमवत्विन्द्रस्पस्विनः । वयं हनाम द्विषतः सर्वः स्वार्थं समीहते ॥
SV 2.66 अनुष्टुप्
प्राप्यतां विद्युतां संपद्संपर्कादर्करोचिषाम् । शस्त्रैद्विषच्छिरश्छेदप्रोच्छलच्छोणितोक्षितैः ॥
SV 2.67 अनुष्टुप्
इतिसंरम्भिणो वाणीर्बलस्यालेख्यदेवताः । सभाभित्तिप्रतिध्वनैर्भयादन्ववदन्निव ॥
SV 2.68 अनुष्टुप्
निशम्य ताः शेषगवीरमभिधातुमधोक्षजः । शिष्याय बृहतां प्रत्युः प्रस्तावमदिशद्दृशा ॥
SV 2.69 अनुष्टुप्
भारतीमाहितभरामथानुद्धतमुद्धवः । तथ्यामुतथ्यानुजवज्जगादाग्रे गदाग्रजम् ॥
SV 2.70 अनुष्टुप्
संप्रत्यसांप्रतं वक्तुमुक्ते मुसलपाणिना । निर्धारितेर्ऽथे लेखेनखलूक्त्वा खलुवाचिकम् ॥
SV 2.71 अनुष्टुप्
तथापि यन्मय्यपि ते गुरुरित्यस्ति गौरवम् । तत्प्रयोजककर्तृत्वमुपैति मम जल्पतः ॥
SV 2.72 अनुष्टुप्
वर्णै कतिपयैरेव ग्रथितस्य स्वरैरिव । अनन्ता वाङ्मयस्याहो गेयस्येव विचित्रता ॥
SV 2.73 अनुष्टुप्
बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते । अनुज्झितर्थसंबन्धः प्रबन्धो दुरुदाहरः ॥
SV 2.74 अनुष्टुप्
म्रदीयसीमपि घनामनल्पगुणकल्पिताम् । प्रसारयन्ति कुशलाश्चित्रां वाचं पटीमिव ॥
SV 2.75 अनुष्टुप्
विशेषविदुषः शास्त्रं यत्तवोद्ग्राह्यते पुरः । हेतुः परिचयस्थैर्ये वक्तुर्गुणनिकैव सा ॥
SV 2.76 अनुष्टुप्
पज्ञोत्साहवतः स्वामी यतेताधातुमात्मनि । तौ हि मूलमुदेष्यन्त्या जिगीषोरात्मसंपदः ॥
SV 2.77 अनुष्टुप्
सोपधानां धियं धीराः स्थेयसीं खट्वयन्ति ये । तत्रानिशं निषम्ण्णास्ते जानते जातु न श्रमंम् ॥
SV 2.78 अनुष्टुप्
स्पृशन्ति शरवत्तीक्ष्णस्तोकमन्तर्विशन्ति च । बहुस्पृशापि स्थूलेन स्थीयते बहिरश्मवत् ॥
SV 2.79 अनुष्टुप्
आरभन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च । महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥
SV 2.80 अनुष्टुप्
उपायमस्थितस्यापि नश्यन्त्यर्थाः प्रमाद्यतः । हन्ति नोपशयस्थोऽपि शयालुर्मृगयुर्मृगान् ॥
SV 2.81 अनुष्टुप्
उदेतुमत्यजन्नीहां राजसु द्वदशस्वपि । जिगीषुरेको दिनकृदादित्येष्विव कल्पते ॥
SV 2.82 अनुष्टुप्
बुद्धिशस्त्रः प्रकृत्यङ्गो घनसंवृतिकञ्चुकः । चारेक्षणो दूतमुखः पपुरुषः कोऽपि पार्थिवः ॥
SV 2.83 अनुष्टुप्
तेजः क्षमा वा नैकान्तं कालज्ञस्य महीपतेः । नैकमोजः प्रसादो वा रसभावविदः कवेः ॥
SV 2.84 अनुष्टुप्
कृतापचारोऽपि परैरनाविष्कृतविक्रियः । असाध्यः कुरुते वा रसभावविदः कवेः ॥
SV 2.85 अनुष्टुप्
मृदुव्यवहितं तेजो भोक्तमर्थान्प्रकल्पते । प्रदीपः स्नेहमादत्ते दशयाभ्यन्तरस्थया ॥
SV 2.86 अनुष्टुप्
नालम्बते नैष्ठिकतां न निषीदति पौरुषे । शब्दार्थौ सत्कविरिव द्वयं विद्वानपेक्षते ॥
SV 2.87 अनुष्टुप्
स्थायिनोर्ऽथे प्रवर्तन्ते भावाः संचारिणो यथा । रसस्यैकस्य भूयांसस्तथा नेतुर्महीभृतः ॥
SV 2.88 अनुष्टुप्
तन्त्रवापविदा योगैर्मण्डलान्यधिष्ठिता । सुनिग्रहानरेन्द्रेण फणीन्द्रा इव शत्रवः ॥
SV 2.89 अनुष्टुप्
करप्रचेयामुत्तुङ्गः प्रभुशक्तिं प्रतीयसीम् । प्रज्ञाबलबृहन्मूलः फलत्युत्साहपादपः ॥
SV 2.90 अनुष्टुप्
अल्पत्वात्प्रबलत्वाद्वंशस्येवेतरे स्वराः । विजीगीषोनृपतयः प्रयान्ति परिवारतां ॥
← Previous (Ch. 1) Full Table of Contents Next (Ch. 3) →